मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १४

3
अवन्तीखण्डः · रेवाखण्डः · 14

कालरात्रिकृतजगत्संहरणवर्णनम्

युधिष्ठिर उवाच

ततस्त ऋषयः सर्वे महाभागास्तपोधनाः ।

गतास्तु परमं लोकं ततः किं जातमद्भुतम्

॥१॥

श्रीमार्कण्डेय उवाच

ततस्तेषु प्रयातेषु नर्मदातीरवासिषु ।

बभूव रौद्रसंहारः सर्वभूतक्षयंकरः

॥२॥

कैलासशिखरस्थं तु महादेवं सनातनम् ।

ब्रह्माद्याः प्रास्तुवन् देवमृग्यजुःसामभिः शिवम्

॥३॥

संहर त्वं जगद्देव सदेवासुरमानुषम् ।

प्राप्तो युगसहस्रान्तः कालः संहरणक्षमः

॥४॥

मद्रूपं तु समास्थाय त्वया चैतद्विनिर्मितम् ।

वैष्णवीं मूर्तिमास्थाय त्वयैतत्परिपालितम्

॥५॥

एका मूर्तिस्त्रिधा जाता ब्राह्मी शैवी च वैष्णवी ।

सृष्टिसंहाररक्षार्थं भवेदेवं महेश्वर

॥६॥

एतच्छ्रुत्वा वचस्तथ्यं विष्णोश्च परमेष्ठिनः ।

सगणः सपरीवारः सह ताभ्यां सहोमया

॥७॥

समलोकान्विभिद्येमान्भगवान्नीललोहितः ।

भूराद्यब्रह्मलोकान्तं भित्त्वाण्डं परतः परम्

॥८॥

शैवं पदमजं दिव्यमाविशत्सह तैर्विभुः ।

न तत्र वायुर्नाकाशं नाग्निस्तत्र न भूतलम्

॥९॥

यत्र संतिष्ठे देव उमया सह शङ्करः ।

न सूर्यो न ग्रहास्तत्र न ऋक्षाणि दिशस्तथा

॥१०॥

न लोकपाला न सुखं न च दुःखं नृपोत्तम

॥११॥

ब्राह्मं पदं यत्कवयो वदन्ति शैवं पदं यत्कवयो वदन्ति ।

क्षेत्रज्ञमीशं प्रवदन्ति चान्ये सांख्याश्च गायन्ति किलादिमोक्षम्

॥१२॥

यद्ब्रह्म आद्यं प्रवदन्ति केचिद्यं सर्वमीशानमजं पुराणम् ।

तमेकरूपं तमनेकरूपमरूपमाद्यं परमव्ययाख्यम्

॥१३॥

अवर्णमप्यर्थमनामगोत्रं तुर्यं पदं यत्कवयो वदन्ति ।

ध्यानार्थविज्ञानमयं सुसूक्ष्ममात्मस्थमीशानवरं वरेण्यम्

॥१४॥

ततस्त्रयस्ते भगवन्तमीशं सम्प्राप्य संक्षिप्य भवन्त्यर्थकम् ।

पृथक्स्वरूपैस्तु पुनस्त एव जगत्समस्तं परिपालयन्ति

॥१५॥

संहारं सर्वभूतानां रुद्रत्वे कुरुते प्रभुः ।

विष्णुत्वे पालयेल्लोकान्ब्रह्मत्वे सृष्टिकारकः

॥१६॥

प्रकृत्या सह संयुक्तः कालो भूत्वा महेश्वरः ।

विश्वरूपा महाभागा तस्य पार्श्वे व्यवस्थिता

॥१७॥

यामाहुः प्रकृतिं तज्ज्ञाः पदार्थानां विचक्षणाः ।

पुरुषत्वे प्रकृतित्वे च कारणं परमेश्वरः

॥१८॥

तस्मादेतज्जगत्सर्वं चराचरम् ।

तस्मिन्नेव लयं याति युगान्ते समुपस्थिते

॥१९॥

भगलिङ्गाङ्कितं सर्वं व्याप्तं वै परमेष्ठिना ।

भगरूपो भवेद्विष्णुर्लिङ्गरूपो महेश्वरः

॥२०॥

भाति सर्वेषु लोकेषु गीयते भूर्भुवादिषु ।

प्रविष्टः सर्वभूतेषु तेन विष्णुर्भगः स्मृतः

॥२१॥

विशनाद्विष्णुरित्युक्तः सर्वदेवमयो महान् ।

भासनाद्गमनाच्चैव भगसंज्ञा प्रकीर्तिता

॥२२॥

ब्रह्मादिस्तम्बपर्यन्तं यस्मिन्नेति लयं जगत् ।

एकभावं समापन्नं लिङ्गं तस्माद्विदुर्बुधाः

॥२३॥

महादेवस्ततो देवीमाह पार्श्वे स्थितां तदा ।

संहरस्व जगत्सर्वं मा विलम्बस्व शोभने

॥२४॥

त्यज सौम्यमिदं रूपं सितचन्द्रांशुनिर्मलम् ।

रुद्रं रूपं समास्थाय संहरस्व चराचरम्

॥२५॥

रौद्रैर्भूतगणैर्घोरैर्देवि त्वं परिवारिता ।

जीवलोकमिमं सर्वं भक्षयस्वाम्बुजेक्षणे

॥२६॥

ततोऽहं मर्दयिष्यामि प्लावयिष्ये तथा जगत् ।

कृत्वा चैकार्णवं भूयः सुखं स्वप्स्ये त्वया सह

॥२७॥

श्रीदेव्युवाच

नाहं देव जगच्चैतत्संहरामि महाद्युते ।

अम्बा भूत्वा विचेष्टं न भक्षयामि भृशातुरम्

॥२८॥

स्त्रीस्वभावेन कारुण्यं करोति हृदयं मम ।

कथं वै निर्दहिष्यामि जगदेतज्जगत्पते

॥२९॥

तस्मात्त्वं स्वयमेवेदं जगत्संहर शङ्कर ।

अथैवमुक्तस्तां देवीं धूर्जटिर्नीललोहितः

॥३०॥

क्रुद्धो निर्भर्त्सयामास हुङ्कारेण महेश्वरीम् ।

ओं हुंफट्त्वं स इत्याह कोपाविष्टैरथेक्षणैः

॥३१॥

हुंकारिता विशालाक्षी पीनोरुजघनस्थला ।

तत्क्षणाच्चाभवद्रौद्रा कालरात्रीव भारत

॥३२॥

हुंकुर्वती महानादैर्नादयन्ती दिशो दश ।

व्यवर्धत महारौद्रा विद्युत्सौदामिनी यथा

॥३३॥

विद्युत्सम्पातदुष्प्रेक्ष्या विद्युत्संघातचञ्चला ।

विद्युज्ज्वालाकुला रौद्रा विद्युदग्निनिभेक्षणा

॥३४॥

मुक्तकेशी विशालाक्षी कृशग्रीवा कृशोदरी ।

व्याघ्रचर्माम्बरधरा व्यालयज्ञोपवीतिनी

॥३५॥

वृश्चिकैरग्निपुञ्जाभैर्गोनसैश्च विभूषिता ।

त्रैलोक्यं पूरयामास विस्तारेणोच्छ्रयेण च

॥३६॥

भासुराङ्गा तु संवृत्ता कृष्णसर्पैककुण्डला ।

चित्रदण्डोद्यतकरा व्याघ्रचर्मोपसेविता

॥३७॥

व्यवर्धत महारौद्रा जगत्संहारकारिणी ।

सृक्किणी लेलिहाना च क्रूरफूत्कारकारिणी

॥३८॥

व्यात्तास्या घुर्घुरारावा जगत्संक्षोभकारिणी ।

खेलद्भूतानुगा क्रूरा निःश्वासोच्छ्वासकारिणी

॥३९॥

जाताट्टअहासा दुर्नासा वह्निकुण्डसमेक्षणा ।

प्रोद्यत्किलकिलारावा ददाह सकलं जगत्

॥४०॥

दह्यमानाः सुरास्तत्र पतन्ति धरणीतले ।

पतन्ति यक्षगन्धर्वाः सकिन्नरमहोरगाः

॥४१॥

पतन्ति भूतसङ्घाश्च हाहाहैहैविराविणः ।

बुम्बापातैः सनिर्घातैरुदितार्तस्वरैरपि

॥४२॥

व्याप्तमासीत्तदा विश्वं त्रैलोक्यं सचराचरम् ।

संपतद्भिः पतद्भिश्च ज्वलद्भूतगणैर्मही

॥४३॥

जातैश्चटचटाशब्दैः पतद्भिर्गिरिसानुभिः ।

तत्र रौद्रोत्सवे जाता रुद्रानन्दविवर्धिनी

॥४४॥

विहिंसमाना भूतानि चर्वमाणाचरानपि ।

तत्तद्गन्धमुपादाय शिवारावविराविणी

॥४५॥

गलच्छोणितधाराभिमुखा दिग्धकलेवरा ।

चण्डशीलाभवच्चण्डी जगत्संहारकर्मणि

॥४६॥

येऽपि प्राप्ता महर्लोकं भृग्वाद्याश्च महर्षयः ।

तेऽपि नश्यन्ति शतशो ब्रह्मक्षत्त्रविशादयः

॥४७॥

देवासुरा भयत्रस्ताः सयक्षोरगराक्षसाः ।

विशन्ति केऽपि पातालं लीयन्ते च गुहादिषु

॥४८॥

सा च देवी दिशः सर्वा व्याप्य मृत्युरिव स्थिता ।

युगक्षयकरे काले देवेन विनियोजिता

॥४९॥

एकापि नवधा जाता दशधा दशधा तथा ।

चतुःषष्टिस्वरूपा च शतरूपाट्टहासिनी

॥५०॥

जज्ञे सहस्ररूपा च लक्षकोटितनुः शिवा ।

नानारूपायुधाकारा नानावादनचारिणी

॥५१॥

एवंरूपाऽभवद्देवी शिवस्यानुज्ञया नृप ।

दिक्षु सर्वासु गगने विकटायुधशीलिनः

॥५२॥

रुन्धन्तो नश्यमानांस्तान्गणा माहेश्वराः स्थिताः ।

विचरन्ति तया सार्द्धं शूलपट्टिशपाणयः

॥५३॥

ततो मातृगणाः केचिद्विनायकगणैः सह ।

व्यवर्धन्त महारौद्रा जगत्संहारकारिणः

॥५४॥

ततस्तस्या व्यवर्धन्त दंष्ट्राः कुन्देन्दुसन्निभाः ।

योजनानां सहस्राणि अयुतान्यर्बुदानि च

॥५५॥

दंष्ट्रावलिः कररुहाः क्रूरास्तीक्ष्णाश्च कर्कशाः ।

वियद्दिशो लिखन्त्येव सप्तद्वीपां वसुंधराम्

॥५६॥

तस्या दंष्ट्राभिसम्पातैश्चूर्णिता वनपर्वताः ।

शिलासंचयसंघाता विशीर्यते सहस्रशः

॥५७॥

हिमवान्हेमकूटश्च निषधो गन्धमादनः ।

माल्यवांश्चैव नीलश्च श्वेतश्चैव महागिरिः

॥५८॥

मेरुमध्यमिलापीठं सप्तद्वीपं च सार्णवम् ।

लोकालोकेन सहितं प्राकम्पत नृपोत्तम

॥५९॥

दंष्ट्राशनिविस्पृष्टाश्च विशीर्यन्ते महाद्रुमाः ।

उत्पातैश्च दिशो व्याप्ता घोररूपैः समन्ततः

॥६०॥

तारा ग्रहगणाः सर्वे ये च वैमानिका गणाः ।

शिवासहस्रैराकीर्णा महामातृगणैस्तथा

॥६१॥

सा चचार जगत्कृत्स्नं युगान्ते समुपस्थिते ।

भ्रमद्भिश्च ब्रुवद्भिश्च क्रोशद्भिश्च समन्ततः

॥६२॥

प्रमथद्भिर्ज्वलद्भिश्च रौद्रैर्व्याप्ता दिशो दश ।

विस्तीर्णं शैलसङ्घातं विघूर्णितगिरिद्रुमम्

॥६३॥

प्रभिन्नगोपुरद्वारं केशशुष्कास्थिसंकुलम् ।

प्रदग्धग्रामनगरं भस्मपुंजाभिसंवृतम्

॥६४॥

चिताधूमाकुलं सर्वं त्रैलोक्यं सचराचरम् ।

हाहाकाराकुलं सर्वमहहस्वननिस्वनम्

॥६५॥

जगदेतदभूत्सर्वमशरण्यं निराश्रयम्

॥६६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कल्पानुकथने कालरात्रिकृतजगत्संहरणवर्णनं नाम चतुर्दशोऽध्यायः ॥