skipLink.label

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सूक्तम् 84 — बळित्था (3 मन्त्राः)

RV 5.84 — ऋग्वेद शाकल संहिता, मण्डल 5, सूक्तम् 84 (बळित्था), 3 मन्त्राः। स्वरचिह्नित पाठः। IAST

MD
अध्ययनम्
अनुक्रमणिका
मूलम्
सूक्त 84

३ भौमोऽत्रिः। पृथिवी। अनुष्टुप्।

बळि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि । प्र या भूमिं॑ प्रवत्वति म॒ह्ना जि॒नोषि॑ महिनि

॥१॥

bal̤i̱tthā parva̍tānāṃ khi̱draṃ bi̍bharṣi pṛthivi | pra yā bhūmi̍ṃ pravatvati ma̱hnā ji̱noṣi̍ mahini

स्तोमा॑सस्त्वा विचारिणि॒ प्रति॑ ष्टोभन्त्य॒क्तुभि॑: । प्र या वाजं॒ न हेष॑न्तं पे॒रुमस्य॑स्यर्जुनि

॥२॥

stomā̍sastvā vicāriṇi̱ prati̍ ṣṭobhantya̱ktubhi̍: | pra yā vāja̱ṃ na heṣa̍ntaṃ pe̱rumasya̍syarjuni

दृ॒ळहा चि॒द् या वन॒स्पती॑न् क्ष्म॒या दर्ध॒र्ष्योज॑सा । यत् ते॑ अ॒भ्रस्य॑ वि॒द्युतो॑ दि॒वो वर्ष॑न्ति वृ॒ष्टय॑:

॥३॥

dṛ̱l̤ahā ci̱d yā vana̱spatī̍n kṣma̱yā dardha̱rṣyoja̍sā | yat te̍ a̱bhrasya̍ vi̱dyuto̍ di̱vo varṣa̍nti vṛ̱ṣṭaya̍: