skipLink.label

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सूक्तम् 72 — आ (3 मन्त्राः)

RV 5.72 — ऋग्वेद शाकल संहिता, मण्डल 5, सूक्तम् 72, 3 मन्त्राः। स्वरचिह्नित पाठः। IAST

MD
अध्ययनम्
अनुक्रमणिका
मूलम्
सूक्त 72

३ बाहुवृक्त आत्रेयः। मित्रावरुणौ। उष्णिक्।

आ मि॒त्रे वरु॑णे व॒यं गी॒र्भिर्जु॑हुमो अत्रि॒वत् । नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये

॥१॥

ā mi̱tre varu̍ṇe va̱yaṃ gī̱rbhirju̍humo atri̱vat | ni ba̱rhiṣi̍ sadata̱ṃ soma̍pītaye

व्र॒तेन॑ स्थो ध्रु॒वक्षे॑मा॒ धर्म॑णा यात॒यज्ज॑ना । नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये

॥२॥

vra̱tena̍ stho dhru̱vakṣe̍mā̱ dharma̍ṇā yāta̱yajja̍nā | ni ba̱rhiṣi̍ sadata̱ṃ soma̍pītaye

मि॒त्रश्च॑ नो॒ वरु॑णश्च जु॒षेतां॑ य॒ज्ञमि॒ष्टये॑ । नि ब॒र्हिषि॑ सदतां॒ सोम॑पीतये

॥३॥

mi̱traśca̍ no̱ varu̍ṇaśca ju̱ṣetā̍ṃ ya̱jñami̱ṣṭaye̍ | ni ba̱rhiṣi̍ sadatā̱ṃ soma̍pītaye