skipLink.label

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सूक्तम् 70 — पुरूरुणा (4 मन्त्राः)

RV 5.70 — ऋग्वेद शाकल संहिता, मण्डल 5, सूक्तम् 70 (पुरूरुणा), 4 मन्त्राः। स्वरचिह्नित पाठः। IAST

MD
अध्ययनम्
अनुक्रमणिका
मूलम्
सूक्त 70

४ उरुचक्रिरात्रेयः। मित्रावरुणौ। गायत्री।

पु॒रू॒रुणा॑ चि॒द्ध्यस्त्यवो॑ नू॒नं वां॑ वरुण । मित्र॒ वंसि॑ वां सुम॒तिम्

॥१॥

pu̱rū̱ruṇā̍ ci̱ddhyastyavo̍ nū̱naṃ vā̍ṃ varuṇa | mitra̱ vaṃsi̍ vāṃ suma̱tim

ता वां॑ स॒म्यग॑द्रुह्वा॒णेष॑मश्याम॒ धाय॑से । व॒यं ते रु॑द्रा स्याम

॥२॥

tā vā̍ṃ sa̱myaga̍druhvā̱ṇeṣa̍maśyāma̱ dhāya̍se | va̱yaṃ te ru̍drā syāma

पा॒तं नो॑ रुद्रा पा॒युभि॑रु॒त त्रा॑येथां सुत्रा॒त्रा । तु॒र्याम॒ दस्यू॑न् त॒नूभि॑:

॥३॥

pā̱taṃ no̍ rudrā pā̱yubhi̍ru̱ta trā̍yethāṃ sutrā̱trā | tu̱ryāma̱ dasyū̍n ta̱nūbhi̍:

मा कस्या॑द्भुतक्रतू य॒क्षं भु॑जेमा त॒नूभि॑: । मा शेष॑सा॒ मा तन॑सा

॥४॥

mā kasyā̍dbhutakratū ya̱kṣaṃ bhu̍jemā ta̱nūbhi̍: | mā śeṣa̍sā̱ mā tana̍sā