skipLink.label

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सूक्तम् 72 — अभि (5 मन्त्राः)

RV 7.72 — ऋग्वेद शाकल संहिता, मण्डल 7, सूक्तम् 72 (अभि), 5 मन्त्राः। स्वरचिह्नित पाठः। IAST

MD
अध्ययनम्
अनुक्रमणिका
मूलम्
सूक्त 72

५ मैत्रावरुणिर्वसिष्ठ:। अश्विनौ । त्रिष्टुप् ।

आ गोम॑ता नासत्या॒ रथे॒नाऽश्वा॑वता पुरुश्च॒न्द्रेण॑ यातम् ।

अ॒भि वां॒ विश्वा॑ नि॒युत॑: सचन्ते स्पा॒र्हया॑ श्रि॒या त॒न्वा॑ शुभा॒ना

॥१॥

ā goma̍tā nāsatyā̱ rathe̱nā'śvā̍vatā puruśca̱ndreṇa̍ yātam |

a̱bhi vā̱ṃ viśvā̍ ni̱yuta̍: sacante spā̱rhayā̍ śri̱yā ta̱nvā̍ śubhā̱nā

आ नो॑ दे॒वेभि॒रुप॑ यातम॒र्वाक्स॒जोष॑सा नासत्या॒ रथे॑न ।

यु॒वोर्हि न॑: स॒ख्या पित्र्या॑णि समा॒नो बन्धु॑रु॒त तस्य॑ वित्तम्

॥२॥

ā no̍ de̱vebhi̱rupa̍ yātama̱rvāksa̱joṣa̍sā nāsatyā̱ rathe̍na |

yu̱vorhi na̍: sa̱khyā pitryā̍ṇi samā̱no bandhu̍ru̱ta tasya̍ vittam

उदु॒ स्तोमा॑सो अ॒श्विनो॑रबुध्रञ्जा॒मि ब्रह्मा॑ण्यु॒षस॑श्च दे॒वीः ।

आ॒विवा॑स॒न्रोद॑सी॒ धिष्ण्ये॒मे अच्छा॒ विप्रो॒ नास॑त्या विवक्ति

॥३॥

udu̱ stomā̍so a̱śvino̍rabudhrañjā̱mi brahmā̍ṇyu̱ṣasa̍śca de̱vīḥ |

ā̱vivā̍sa̱nroda̍sī̱ dhiṣṇye̱me acchā̱ vipro̱ nāsa̍tyā vivakti

वि चेदु॒च्छन्त्य॑श्विना उ॒षास॒: प्र वां॒ ब्रह्मा॑णि का॒रवो॑ भरन्ते ।

ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्बृ॒हद॒ग्नय॑: स॒मिधा॑ जरन्ते

॥४॥

vi cedu̱cchantya̍śvinā u̱ṣāsa̱: pra vā̱ṃ brahmā̍ṇi kā̱ravo̍ bharante |

ū̱rdhvaṃ bhā̱nuṃ sa̍vi̱tā de̱vo a̍średbṛ̱hada̱gnaya̍: sa̱midhā̍ jarante

आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् ।

आ वि॒श्वत॒: पाञ्च॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः

॥५॥

ā pa̱ścātā̍nnāsa̱tyā pu̱rastā̱dāśvi̍nā yātamadha̱rāduda̍ktāt |

ā vi̱śvata̱: pāñca̍janyena rā̱yā yū̱yaṃ pā̍ta sva̱stibhi̱: sadā̍ naḥ