skipLink.label

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सूक्तम् 51 — अनागास्त्वे (3 मन्त्राः)

RV 7.51 — ऋग्वेद शाकल संहिता, मण्डल 7, सूक्तम् 51 (अनागास्त्वे), 3 मन्त्राः। स्वरचिह्नित पाठः। IAST

MD
अध्ययनम्
अनुक्रमणिका
मूलम्
सूक्त 51

३ मैत्रावरुणिर्वसिष्ठ:। आदित्या: । त्रिष्टुप् ।

आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शंत॑मेन ।

अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मं य॒ज्ञं द॑धतु॒ श्रोष॑माणाः

॥१॥

ā̱di̱tyānā̱mava̍sā̱ nūta̍nena sakṣī̱mahi̱ śarma̍ṇā̱ śaṃta̍mena |

a̱nā̱gā̱stve a̍diti̱tve tu̱rāsa̍ i̱maṃ ya̱jñaṃ da̍dhatu̱ śroṣa̍māṇāḥ

आ॒दि॒त्यासो॒ अदि॑तिर्मादयन्तां मि॒त्रो अ॑र्य॒मा वरु॑णो॒ रजि॑ष्ठाः ।

अ॒स्माकं॑ सन्तु॒ भुव॑नस्य गो॒पाः पिब॑न्तु॒ सोम॒मव॑से नो अ॒द्य

॥२॥

ā̱di̱tyāso̱ adi̍tirmādayantāṃ mi̱tro a̍rya̱mā varu̍ṇo̱ raji̍ṣṭhāḥ |

a̱smāka̍ṃ santu̱ bhuva̍nasya go̱pāḥ piba̍ntu̱ soma̱mava̍se no a̱dya

आ॒दि॒त्या विश्वे॑ म॒रुत॑श्च॒ विश्वे॑ दे॒वाश्च॒ विश्व॑ ऋ॒भव॑श्च॒ विश्वे॑ ।

इन्द्रो॑ अ॒ग्निर॒श्विना॑ तुष्टुवा॒ना यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः

॥३॥

ā̱di̱tyā viśve̍ ma̱ruta̍śca̱ viśve̍ de̱vāśca̱ viśva̍ ṛ̱bhava̍śca̱ viśve̍ |

indro̍ a̱gnira̱śvinā̍ tuṣṭuvā̱nā yū̱yaṃ pā̍ta sva̱stibhi̱: sadā̍ naḥ