skipLink.label

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सूक्तम् 49 — समुद्रज्येष्ठा (4 मन्त्राः)

RV 7.49 — ऋग्वेद शाकल संहिता, मण्डल 7, सूक्तम् 49 (समुद्रज्येष्ठा), 4 मन्त्राः। स्वरचिह्नित पाठः। IAST

MD
अध्ययनम्
अनुक्रमणिका
मूलम्
सूक्त 49

४ मैत्रावरुणिर्वसिष्ठ:। आप: । त्रिष्टुप् ।

स॒मु॒द्रज्ये॑ष्ठाः सलि॒लस्य॒ मध्या॑त्पुना॒ना य॒न्त्यनि॑विशमानाः ।

इन्द्रो॒ या व॒ज्री वृ॑ष॒भो र॒राद॒ ता आपो॑ दे॒वीरि॒ह माम॑वन्तु

॥१॥

sa̱mu̱drajye̍ṣṭhāḥ sali̱lasya̱ madhyā̍tpunā̱nā ya̱ntyani̍viśamānāḥ |

indro̱ yā va̱jrī vṛ̍ṣa̱bho ra̱rāda̱ tā āpo̍ de̱vīri̱ha māma̍vantu

या आपो॑ दि॒व्या उ॒त वा॒ स्रव॑न्ति ख॒नित्रि॑मा उ॒त वा॒ याः स्व॑यं॒जाः ।

स॒मु॒द्रार्था॒ याः शुच॑यः पाव॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु

॥२॥

yā āpo̍ di̱vyā u̱ta vā̱ srava̍nti kha̱nitri̍mā u̱ta vā̱ yāḥ sva̍ya̱ṃjāḥ |

sa̱mu̱drārthā̱ yāḥ śuca̍yaḥ pāva̱kāstā āpo̍ de̱vīri̱ha māma̍vantu

यासां॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् ।

म॒धु॒श्चुत॒: शुच॑यो॒ याः पा॑व॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु

॥३॥

yāsā̱ṃ rājā̱ varu̍ṇo̱ yāti̱ madhye̍ satyānṛ̱te a̍va̱paśya̱ñjanā̍nām |

ma̱dhu̱ścuta̱: śuca̍yo̱ yāḥ pā̍va̱kāstā āpo̍ de̱vīri̱ha māma̍vantu

यासु॒ राजा॒ वरु॑णो॒ यासु॒ सोमो॒ विश्वे॑ दे॒वा यासूर्जं॒ मद॑न्ति ।

वै॒श्वा॒न॒रो यास्व॒ग्निः प्रवि॑ष्ट॒स्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु

॥४॥

yāsu̱ rājā̱ varu̍ṇo̱ yāsu̱ somo̱ viśve̍ de̱vā yāsūrja̱ṃ mada̍nti |

vai̱śvā̱na̱ro yāsva̱gniḥ pravi̍ṣṭa̱stā āpo̍ de̱vīri̱ha māma̍vantu