चतुर्थी व्रतोपाख्यानं कृतवीर्य नाम सप्ततितमोऽध्यायः
राजोवाच
व्रतं पुरा कृतं केन भुवि केन प्रकाशितम् ।
किं पुण्यं किं फलं चास्य करुणाद् वद मे प्रभो
॥१॥ब्रह्मोवाच
पुरा स्कन्दे गते चैव पार्वत्यैव कृतं व्रतम् ।
चतुर्ष्वपि च मासेषु शिववाक्येन पार्थिव
॥२॥पञ्चमे मासि दृष्टस्तु कार्तिकेयो ह्यपर्णया ।
अगस्त्येन कृतं पूर्वं समुद्रं पातुमिच्छता
॥३॥त्रिषु मासेषु विघ्नेशप्रसादात् पीतवानमुम् ।
षण्मासावधि राजेन्द्र दमयन्त्या पुरा कृतम्
॥४॥नलमन्वेषयन्त्या तु ततो दृष्टो नलस्तया ।
प्रद्युम्नस्य सुतं राजंश्चित्रलेखाऽनयत्पुरा
॥५॥क्व गतः केन नीतो वा इति शोचन्तमाकुलम ।
प्रद्युम्नं पुत्रशोकार्त रुक्मिणी प्रत्यभाषत
॥६॥शृणु पुत्र प्रवक्ष्यामि यद् व्रतं स्वस्य मन्दिरे ।
शम्बरेण पुराऽऽनीते बालके त्वयि षट्दिने
॥७॥त्वद्वियोगजदुःखेन हृदयं मे व्यदूयत ।
कदा द्रक्ष्याम्यहं पुत्रमपूर्वमतिसुन्दरम्
॥८॥अन्यस्त्रीणां सुतं दृष्ट्वा मम चेतसि जायते ।
ममापि पुत्रो भविता समोऽनेन प्रमाणतः
॥९॥इति चिन्ताकुलाया मे गतान्यब्दानि भूरिशः ।
ततो मे दैवयोगात् तु लोमशो मुनिरागतः
॥१०॥तेनोपदिष्टं सङ्कष्टचतुर्थीव्रतमुत्तमम् ।
सर्व चिन्ताहरं पुत्र चतुर्वारं कृतं मया
॥११॥तत्प्रसादात् त्वमायातो हत्वा शम्बरमाहवे ।
त्वमप्येतत् कुरू व्रतं ततो ज्ञास्यसि तं सुतम
॥१२॥ब्रह्मोवाच
प्रद्युम्नेन कृतं पूर्वं गणनाथ सुतोषकम् ।
श्रुतो बाणासुरपुरे निरुद्धो नारदात् पुरा
॥१३॥उद्धवस्याज्ञया कृष्णः कृतवान् व्रतमुत्तमम् ।
भीत ईश्वरसङ्ग्रामादेकवारं यथाविधि
॥१४॥गत्वा स शोणितपुरं जित्वा बाणासुरं मृधे ।
आनीतः उषया सार्द्धमनिरुद्धः क्षणान्नृपः
॥१५॥मयाऽपि सृष्टिकामेन कृतमेतन्नृपोत्तम ।
कृता नानाविधा सृष्टिर्व्रतस्यास्य प्रभावतः
॥१६॥अन्यैर्देवासुरनरैः कृतं विघ्नोपशान्तये ।
ऋषिभिर्दानवैर्यक्षैः किन्नरोरगराक्षसैः
॥१७॥आपद्यपि च कष्टायां कुर्यात् तच्छान्तये व्रतम् ।
नानेन सदृशं लोके सर्वसिद्धिकरं व्रतम्
॥१८॥तपो दानं जपस्तीर्थं मन्त्रो विद्या न च क्वचित् ।
इमां श्रुत्वा कथां राजन् स्वयं भुञ्जीत वाग्यतः
॥१९॥जानुमध्ये कर कृत्वा गणेशं हृदि चिन्तयेत् ।
द्विजातीनां च यच्छेषं भोक्तव्यं सह बान्धवैः
॥२०॥कार्यं बव्हल्पमासैस्तु सिद्ध्यते नात्र संशयः ।
बहुनात्र किमुक्तेन नान्यत् स्याच्छीघ्रसिद्धिदम्
॥२१॥नोपदेश्यमभक्ताय नास्तिकाय शठाय च ।
देयं पुत्राय शिष्याय भक्तियुक्ताय साधवे
॥२२॥मम प्रियोऽसि राजेन्द्र धर्मिष्ठः क्षत्रियर्षभः ।
कार्यकर्ताऽसि लोकानामुपदिष्टमथो व्रतम्
॥२३॥तस्मात् सर्वव्रतेष्वेतत् कर्तव्यं प्रथमं त्वया ।
सिद्धिं यास्यन्ति कार्याणि नान्यथा भाषितं मया
॥२४॥यदा यदा पश्यति कार्यमुद्यतं, नारी नरो वा विदधातु सद्व्रतम् ।
सिध्यन्ति कार्याणि मनीषितानि किं दुर्लभं विघ्नहरे प्रसन्ने
॥२५॥सूत उवाच
इत्थं स श्रुत्वा विधिवन्नृपोत्तमो व्रतं चकाराऽखिल दुःखशान्तये ।
व्रतप्रभावाज्जितवान् स वैरिणो बुभोज राज्यं स सुतैरकण्टकम्
॥२६॥इति श्रीगणेशपुराणे उपासनाखण्डे चतुर्थीव्रतोपाख्याने कृतवीर्यविजयो नाम सप्ततितमोऽध्यायः ॥ ७० ॥