मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 17

3
उपासनाखण्डः · 17

मन्त्रोपदेशो नाम सप्तदशोऽध्यायः

यावदुत्तिष्ठते विष्णुस्तावत्ताभ्यां त्रिविष्टपम् ।

आक्रान्तमिन्द्रसदनं याम्यं कौबेरमेव च

॥१॥

तौ दृष्ट्वा सर्वतो देवाः पलायनपरा बभुः ।

निपेतुर्बभ्रमुः केचिन्मुमूर्च्छुश्चस्खलुः परे

॥२॥

ततो देव्या विनिर्मुक्तो निद्रया हरिरीश्वरः ।

आश्वास्य सर्व देवाँस्ताँस्ताम्भ्यां युद्धं चकार ह

॥३॥

आक्रमं सर्वदेवानां कृतं ताभ्यां निवारितुम् ।

शेषादिसर्वनागानां मुनीनां यक्षरक्षसाम्

॥४॥

शुशुभे स हरिस्तत्र शङ्खचक्रगदाधरः ।

किरीटकुण्डलधरो नीलमेघघनच्छविः

॥५॥

ततः स भगवान् शङ्खं प्रदध्मौ भृशवेगवान् ।

तेन शब्देन महता क्षोभयामास रोदसी

॥६॥

पाञ्चजन्यस्वनं श्रुत्वा बिभिदे हृदयं तयोः ।

ततस्तौ भयसंविग्नौ परस्परमथोचतुः

॥७॥

भूमण्डलं च पातालं स्वर्गाणामेकविंशतिः ।

आक्रान्ताः सम्यगावाभ्यां तदाऽयं न श्रुतः स्वनः

॥८॥

वज्रसारमयं येन चकम्पे हृदयं द्वयोः ।

तस्मादनेन योद्धव्यं पुरुषेण बलीयसा

॥९॥

रणकण्डूतिशान्त्यर्थं विजयायेतराय वा ।

रिपुमेनं हनिष्यावो गच्छावो वा पुनर्भवम्

॥१०॥

एवं तौ निश्चयं कृत्वा युयुत्सुं हरिमूचतुः ।

रणकण्डूतिशान्त्यर्थं दृष्टोऽसि पुरूषोत्तम

॥११॥

कथमुत्तमतां यासि ह्यावयोर्दृष्टिगोचरः ।

मुनिरूवाच ।

इति वाक्यं तयोः श्रुत्वा जगाद विष्टरश्रवाः

॥१२॥

हरिरुवाच

सम्यगुक्तं महादैत्यौ यथेष्टं युध्यतं मया ।

न हि कामयते कश्चिन्मरणं स्वयमात्मनः

॥१३॥

तावूचतुः

चतुर्भुजोऽसि देवेश बाहुयुद्धं ददस्व नौ ।

मुनिरूवाच ।

एवमुक्तो हरिस्ताभ्यां तथेत्याह मुदान्वितः

॥१४॥

त्यक्त्वाऽऽयुधानि युयुधे द्वाभ्यामेकश्चतुर्भुजः ।

जघ्नतुस्तौ शिरो मूर्ध्ना जङ्घाभिरथ जङ्घयोः ।

कूपरौ कूर्परैः स्वीयैर्बाहु बाहुभिरेव च

॥१५॥

गुल्फौ गुल्फैः कटिं ताभ्यां नासिकाभ्यां च नासिकाम् ।

मुष्टिभ्यां मुष्टिदेशं च पृष्ठाभ्यां पृष्ठमेव च

॥१६॥

आस्फोटनविकर्षाभ्यां बाहुभिर्मण्डलैरपि ।

एवं परस्परं युद्धं प्रावर्त्तत चिरं तदा

॥१७॥

सहस्रं पञ्चगुणितमतिक्रान्तं महामुने ।

वर्षाणां न तु तौ जेतुं शशाङ्क हरिरीश्वरः ।

ततो दधाररूपं स गान्धर्वं गीतकोविदम्

॥१८॥

गत्वा वनान्तरं चारू वीणागानं चकारः सः ।

हरिणाश्वापदा लोका देवगन्धर्वराक्षसाः

॥१९॥

स्वस्वव्यापाररहिताः सर्वे तत्परतां ययुः ।

आलापं तस्य गिरिशः कैलासे श्रुतवान् मुहुः

॥२०॥

निकुम्भं पुष्पदन्तं च जगाद भगनेत्रहा ।

एतमानयतं शीघ्रं योऽसौ गायति कानने

॥२१॥

तौ गत्वा दर्शनं तस्य गृहीत्वा वै तमूचतुः ।

तव गीतस्वनं श्रुत्वा शङ्करो हर्षनिर्भरः

॥२२॥

त्वां समाह्वयते देवो गानं श्रोतुं तवानघ ।

आवाभ्यां सह याहि त्वं शीघ्रं याम तदन्तिकम्

॥२३॥

तयोर्वाक्यमिति श्रुत्वा गन्धर्वो हरिभक्तिमान् ।

ताभ्यां सह ययौ तत्र यत्र देवो महेश्वरः

॥२४॥

ददर्श पार्वतीकान्तं चन्द्रार्धकृतशेखरम् ।

गजचर्मपरीधानं रुण्डमाला विभूषितम्

॥२५॥

राजत्पिङ्गटजटाभारं सर्पयज्ञोपवीतिनन् ।

ननाम भुविविश्वेशं प्रणतार्तिविनाशनम्

॥२६॥

उत्थाप्य गिरिशः स्वेन पाणिना तमधोक्षजम् ।

आसनञ्च ददौ तस्मै पूजयामास शङ्करः

॥२७॥

ततो जगाद स हरिरद्य मे सफलं जनुः ।

यतोऽद्य दर्शनं तेऽभूद् धर्मकामार्थमोक्षदम्

॥२८॥

तोषयामास तं देवोगन्धर्वो गानतत्परः ।

वीणारवैः कलपदैरालापैर्विविधैरपि

॥२९॥

स्कन्दं गणेश्वरं देवीं पार्वतीं च सुरानृषीन् ।

ततो महेश्वरः प्रीत्याऽऽलिलिङ्ग प्रकटं हरिम्

॥३०॥

शङ्खचक्रगदापद्मपीताम्बरधरं शुभम् ।

उवाच च हरे ! मत्तो वृणु कामानशेषतः

॥३१॥

दास्यामि तव गानेन परांमुदमुपागतः ।

भृगुरूवाच ।

तत ऊचे स्वभूस्तन्तु वृत्तान्तं दैत्ययोः परम्

॥३२॥

हरिरुवाच

मयि क्षीराब्धिशयने निद्रिते मधुकैटभौ ।

उत्पन्नौ कर्णमलतो ब्रह्माणं भक्षितुं गतौ

॥३३॥

तेन निद्रा स्तुता भर्ग तयाऽहं प्रतिबोधितः ।

युद्धं च कृतवाँस्ताभ्यां मल्ललीलामुपागतः

॥३४॥

नास्मि शक्तो विजेतुं तौ तत एतत्कृतं मया ।

इदानीं तद्वधोपायं वद मे करुणानिधे

॥३५॥

भर्ग उवाच

विनायकमनर्च्यैव गतोऽसि रणभूमिकाम् ।

शक्तिहीनश्व तेनाऽसि सुभृशं क्लेशवानपि

॥३६॥

गणेशं पूजयित्वैव व्रज युद्धाय मारिष ।

स च तौ माययाऽऽमोह्य वशतां प्रापयिष्यति

॥३७॥

मत्प्रसादेन दुष्टौ तौ वधिष्यसि न संशयः ।

हरिरुवाच ।

कथं विनायकं देवमुपासे भर्ग तद्वद

॥३८॥

ईश्वर उवाच

उक्ता गणेश्वरस्यैव मन्त्राणां सप्तकोटयः ।

तत्रापि च महामन्त्रास्तेष्वप्येकाक्षरो महान्

॥३९॥

षडक्षरश्व भगवन्स्तयोरेकं वदामि ते ।

तत एकाक्षरं त्यक्त्वा सिद्धारिचक्रयोगतः

॥४०॥

ऋणं धनं शोधयित्वा तं जगाद षडक्षरः ।

महामन्त्रं गणेशस्य सर्वंसिद्धिप्रदं शुभम्

॥४१॥

अस्यानुष्ठानमात्रेण कार्यं ते सिद्धिमेष्यति ।

ततो जगाम स हरिरनुष्ठानाय सत्वरः

॥४२॥

इति श्रीगणेशपुराणे उपासनाखण्डे मन्त्रोपदेशो नाम सप्तदशोऽध्यायः ॥ १७ ॥