मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 13

3
उपासनाखण्डः · 13

ब्रह्मस्तुतिवर्णनं नाम त्रयोदशोऽध्यायः

व्यास उवाच

पञ्चास्यश्चतुरास्यश्च सहस्रमस्तकोऽपि च ।

गजास्यं वरदं देवं कथमेते प्रतुष्ठुवुः

॥१॥

ब्रह्मोवाच

प्रसादोन्मुखविघ्नेशकृपापाङ्गनिरीक्षणात् ।

प्राप्तबुद्धिप्रसादास्ते केशास्तं नुनुवुस्तदा

॥२॥

ब्रह्मविष्णुमहेश्वरा ऊचुः

अजनिर्विकल्पं निराकारमेकम् निरानन्दमद्वैतमानन्दपूर्णम् ।

परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेशं भजेम्

॥३॥

गुणातीतमाद्यं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् ।

मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेशं भजेम

॥४॥

जगत्कारणं कारणज्ञानरूपं सुरादिं सुखादिं युगादिं गणेशम् ।

जगद्व्यापिनं विश्ववन्द्यं सुरेशं परब्रह्मरूपं गणेशं भजेम्

॥५॥

रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं हृदा चिन्त्यरूपम् ।

जगत्कारकं सर्वविद्यानिधानं परब्रह्मरूपं गणेशं नमामः

॥६॥

सदासत्त्वयोगं मुदा क्रीडमानं सुरारीन् हरन्तं जगन्पालयन्तम् ।

अनेकावतारं निजाज्ञानहारं सदाविष्णु रूपं गणेशं नमामः

॥७॥

तमोयोगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् ।

अनेकागमैः स्वं जनं बोधयन्तं सदा शर्वरूपं गणेशं नमामः

॥८॥

तमस्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मपारम् ।

मुनिज्ञानकारं विदूरे विकारं सदा ब्रह्मरूपं गणेशं नमामः

॥९॥

निजैरौषधीस्तर्पयन्तं करौघैः सुरौघान् कलाभिः सुधास्राविणीभिः ।

दिनेशांशुसन्तापहारं द्विजेशं शशाङ्कस्वरूपं गणेशं नमामः

॥१०॥

प्रकाशस्वरूपं नभोवायुरूपं विकारादिहेतुं कलाकालभूतम् ।

अनेकक्रियाऽनेकशक्तिस्वरूपं सदा शक्तिरूपं गणेशं नमामः

॥११॥

प्रधानस्वरूपं महत्तत्त्वरूपं धरावारिरूपं दिगीशादिरूपम् ।

असत्सत्स्वरूपं जगद्धेतुभूतं सदा विश्वरूपं गणेशं नताःस्मः

॥१२॥

त्वदीये मनः स्थापयेदङ्घ्रियुग्मे जनोविघ्नसङ्घान्न पीडां लभेत ।

लसत्सूर्यबिम्बे विशाले स्थितोऽयं जनो ध्वान्तपीडां कथं वा लभेत

॥१३॥

वयं भ्रामिताः सर्वथाऽज्ञानयोगाद्लब्ध्वास्तवाङ्घ्रिं बहुन् वर्षपूगान् ।

इदानीमवाप्तास्तवैव प्रसादात् प्रपन्नान् सदा पाहि विश्वम्भराद्य

॥१४॥

ब्रह्मोवाच

एवं स्तुतो गणेशस्तु सन्तुष्टोऽभून्महामुने ।

कृपया परयोपेतोऽभिधातुं तान् प्रचक्रमे

॥१५॥

श्रीमद्गणेश उवाच

यदर्थं क्लेशिता यूयं यदर्थमिह चागताः ।

प्रीतोऽहमनया स्तुत्या वरं मत्तो वृणीत तम्

॥१६॥

कृतं च मम यत् स्तोत्र भवद्धिर्भावितात्मभिः ।

स्तोत्रराजमितिख्यातं भविष्यति मदाज्ञया

॥१७॥

इदं यः पठेत् प्रातरुत्थाय धीमान् त्रिसन्ध्यं सदा भक्तिर्युक्तो विशुद्धः ।

स पुत्रान् श्रियं सर्वकामान् लभेत परब्रह्मरूपो भवेदन्तकाले

॥१८॥

ब्रह्मोवाच

इति तद्वचनं श्रुत्वा सन्तुष्टास्ते तमब्रुवन् ।

तदीक्षया रजः सत्त्वतमोगुणसमुद्भवाः

॥१९॥

त्रय ऊचुः

यदि तुष्टोऽसि देवेश ! सृष्टिसंहारकारक ।

तवाङ्घ्रिकमले नोऽस्तु भक्तिरव्यभिचारिणी

॥२०॥

किं चास्माभिः प्रकर्तव्यमाज्ञापयतु नो भवान् ।

अयमेव वरोऽस्माकं वाञ्छितो द्विरदानन

॥२१॥

इति श्रुत्वा वचस्तेषां पुनः प्राह गजाननः ।

भविष्यति महाभागा मयिभक्तिर्दृढा हि वः

॥२२॥

सङ्कष्टानि यथा यूयं तरिष्यथ महान्त्यपि ।

भवत्ख्यात्यै प्रवक्ष्यामि कार्याणिच पृथक् पथक्

॥२३॥

सृष्टिकर्ता भव ब्रह्मन् रजोगुणसमुद्भवः ।

पालनं कुरु विष्णो त्वं व्यापकः सत्त्वसंश्रयः

॥२४॥

हर संहर सर्वं त्वं तमोगुणसमुद्भवः ।

ब्रह्मोवाच ।

वेदशास्त्रपुराणानि सृष्टिसामर्थ्यमेव च

॥२५॥

ददौ गणशोन्यां विद्यां ब्रह्मणे मत्द्यमादरात् ।

विष्णवे भगवान् प्रादात् योगात् स्वच्छन्दरूपताम्

॥२६॥

एकाक्षरं षडर्णञ्च मन्त्रं सर्वागमाँस्तथा ।

हराय भगवान् प्रादाच्छक्तिं संहरणेऽपि च

॥२७॥

ततश्चाहं दीनमनास्त्रैलोक्येशं जगद्गुरुम् ।

उवाच प्राञ्जलीर्भूत्वा वरदं तमिभाननम्

॥२८॥

ब्रह्मोवाच

यथागृहीतशक्तिस्तु वाच्यावाच्यं विवक्ति न ।

तथाऽनेकविधां सृष्टिमद्दष्ट्वा क्वापि किञ्चन

॥२९॥

कर्तुं वापि विभोराज्ञाविभेदं कथमुत्सहे ।

इतः कूप इतो वापीत्येवं प्राप्तं मया कथम्

॥३०॥

ततो गजाननः प्राह दिव्यं चक्षुः प्रदाय तम् ।

ब्रह्माणं वेदशास्त्रज्ञ तथा व्याकुलितं प्रभुः

॥३१॥

गजानन उवाच

बहिरन्तः शरीरे मे सङ्ख्यातीतानि पद्मज ।

ब्रह्माण्डानि त्वमद्यैव विभ्रमन्ति विलोकय

॥३२॥

ब्रह्मोवाच

ततो गजाननेनाऽहं स्वोदरे श्वासवायुना ।

नीतो ददर्श धाताऽपि ब्रह्माण्डानि त्वनेकशः ।

औदुम्बराणीव तरौ तेषु वा मशकानिव

॥३३॥

भेदयामास तत्रैकं परमेण स्वतेजसा ।

तदन्तः सकलां सृष्टिं ददर्शाऽथ पुनः पुनः

॥३४॥

ब्रह्माणं चापरं तत्र विष्णुमिन्द्रं प्रजापतिम् ।

शङ्करं भास्करं वायुं वनानि सरितोंऽम्बुपम्

॥३५॥

सागरान् यक्षगन्धर्वानप्सरःकिन्नरोरगान् ।

ऋषीन् पुण्यजनान् साध्यान् मनुष्यान् पर्वतान् द्रुमान्

॥३६॥

उद्भिज्जान् जारजान् जन्तून स्वेदजानण्डजानपि ।

पृथ्वीञ्च सप्तपातालान्यव्ययान्येकविंशतिम्

॥३७॥

ददर्श विश्वं चाहं वै भावाभावं चराचरम्

॥३८॥

यद्यच्चाहं भेदयामास चांण्डं तस्मिन्स्तस्मिन् सर्वमेवं ददर्श ।

दृष्ट्वा भ्रान्तिं पूर्ववत् सम्प्रपेदे तेषामन्तं सर्वाथा नाध्यगच्छम्

॥३९॥

न स्थातुं नैव वा गन्तुं शशाक कमलासनः ।

उपविश्य ततो ब्रह्मन् तुष्टाव द्विरदाननम्

॥४०॥

ब्रह्मोवाच

वन्दे देवं देवदेवं गणेशं ब्रह्माण्डानां नैव सङ्ख्या यदङ्गे ।

अभ्रोडुनां सागरे वा झषाणां कः सङ्ख्याता शर्कराणां च तीरे

॥४१॥

लज्जा न मे त्राऽस्ति सुरेन्द्रवन्द्य पादारविन्दं तव यद्विलोक्य ।

भ्रान्तोऽभवं ज्ञाननिधौ प्रसन्ने मोक्षोऽपि तुच्छः किमुताऽन्यवार्ता

॥४२॥

दृष्टं च नानार्थयुतं सुरेश ब्रह्माण्डकूटं जठरे त्वदीये ।

स्थातुं बहिर्गन्तुमपीह नेशस्त्वदन्यदेवं शरणं न चैमि

॥४३॥

ततः प्रसन्नो भगवाननन्तो वै गजाननः ।

बहिर्निष्कासयामास तदा मां खिन्नमानसम्

॥४४॥

नासिकारन्ध्रमार्गेण हरिं मदनुयायिनम् ।

तामसं च हरं देवो विष्णुना सह सङ्गतम्

॥४५॥

निःसारयामास विभुः श्रुतिरन्ध्राद्गजाननः ।

शयाते स्म तदङ्गे तावुभौ हरिहरौ सुखम्

॥४६॥

इति श्रीगणेशपुराणे उपासनाखण्डे ब्रह्मस्तुतिवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥