पञ्चविशोऽध्यायः
विश्वामित्र उवाच
शृणु राजन् महाश्चर्यं दैवकालकृतं शुभम् ।
कौण्डिन्ये नगरे राजा चन्द्रसेनो महामतिः
॥१॥स्वकर्मपरिपाकेन निधनं कालयोगतः ।
अगमद् दिव्ययानेन धर्मबाहुल्यतो दिवम्
॥२॥तच्च नागरिकाः श्रुत्वा हाहाकारं प्रचक्रिरे ।
धावमाना ययुस्तत्र त्यक्त्वा कार्याण्यनेकशः
॥३॥शिरांसि च विनिघ्नन्तः पाणिभिः शोककर्षिताः ।
चस्खलुश्च पतन्तश्च ददृशुः प्रेतभूपतिम्
॥४॥नेमुः पादौ प्रगृह्यैव दुःखमोहवशं गताः ।
केचिद्धस्तं गृहीत्वैव स्वस्वमूर्ध्निन्यवेशयन्
॥५॥रूरुदुः सुस्वरं केचित् पाणिपृष्ठमुखस्वनाः ।
मृता इव निपेतुश्च स्नेहातिशयतोऽपरे
॥६॥तस्य पत्नी तु सुलभा रुरोद करुणस्वरा ।
पाणिभ्यां निघ्नती स्वीयं हृदयं भृशदुःखिता
॥७॥विकीर्णभूषणा मूर्च्छामागता पतिता भुवि ।
समानव्यसनाभिः सा पुरस्रीभिर्धृता तदा
॥८॥विललाप तदा कान्ता चन्द्रसेनस्य सुन्दरी ।
निर्लज्जा निरनुक्रोशा नाथनाथेति जल्पती
॥९॥रे धातर्न दया तेऽस्ति बालवच्चरितं तव ।
युनङ्क्षि स्नेहभावेन विनियुङ्क्ष्यकृतार्थकम्
॥१०॥राजन् न पृष्ट्वा क्व गतो वद मां करूणानिधे ।
दिने दिने वदस्येव यामि भद्रासनं प्रिये
॥११॥अद्य निष्ठुरतां केन गमितोऽस्यागसा मम ।
तत्क्षमस्व नमाम्येषा जनमध्ये गतत्रपा
॥१२॥नय मां यत्र यातोऽसि प्रियां ते प्रियकारिणीम् ।
त्रिलोकीं पश्यतीं शून्यामपुत्रां पतिता विना
॥१३॥मुनिरूवाच
सुमन्तुः प्रकृतिस्तस्य मनोरञ्जन एव च ।
द्वावप्यवोदितां तत्र किं राजस्य भविष्यति
॥१४॥आवाभ्यामविचार्यैव क्व गतो नृपसत्तमः ।
कस्मान्न वदसे राजन् किमर्थं मौनमास्थितः
॥१५॥न पश्यसि प्रियां भार्यामनाथामिव विव्हलाम् ।
सहैव यावो नृपते त्यक्त्वा सर्वं गृहाश्रमम्
॥१६॥अनाथं नगरं तेऽद्य राष्ट्रं वा कोऽथ पास्यति
॥१७॥मुनिरुवाच
एतस्मिन्नन्तरे तत्र बभाण ब्राह्मणः सुधीः
॥१८॥वेदशास्त्रार्थतत्त्वज्ञः प्रस्तुतं निष्ठुरं वचः ।
सर्वे स्वार्थपरा यूयं नाप्तः कश्चन विद्यते
॥१९॥सुहृदां रोदनाश्रूणि मुखे प्रेतस्य यान्ति हि ।
पृथिव्यां भारतां याति प्राणहीनं कलेवरम्
॥२०॥ब्रह्माण्डगोलके को नु मृतमन्योऽनुगच्छति ।
इयं च सुलभा राज्ञी रोदते जीविताशया
॥२१॥मृतकस्यानुगत्यर्थं न सा रोदिति कर्हिचित् ।
यूयं सर्वे नागरिकाः स्वकार्य गमनाकुलाः
॥२२॥सूर्यवंश्याः सोमवंश्या राजानो मृता न किम् ।
तस्मादुत्थाय सर्वेऽपि राज्ञः कुर्वन्तु संस्कृतिम्
॥२३॥मृतसंस्कारकारी यः स एवाप्तो न चापरः ।
एतदर्थं हि लोकस्य ज्यायसी पुत्रगृध्नुता
॥२४॥तस्मादानीयतां धर्मपुत्रो वाऽप्यन्य एव च ।
स हि क्रियामारभतु सर्वैर्देयस्तिलाञ्जलिः
॥२५॥मुनिरूवाच
ततस्ते नागराः सर्वे द्वावमात्यो स्त्रियश्च ताः ।
प्रबोधिता ब्राह्मणेन चक्रुस्तस्यौर्ध्वदेहिकम्
॥२६॥सुमन्तुना कृतं सर्वं सर्वैर्दत्तस्तिलाञ्जलिः ।
पुनःस्नात्वा तु ते सर्वे नगरं विविशुश्चिरात्
॥२७॥अश्नन्ति पिचुमन्दस्य पत्रं नत्वेश्वरं जनाः ।
सान्तयित्वा तु सुलभां ययुः स्वं स्वं निकेतनम्
॥२८॥त्रयोदशाहे निर्वृत्ते राज्ञ्यै दत्त्वाऽम्बराणि ते ।
चक्रुस्ते भोजनं प्रीत्या प्रत्यहं बहुवासरम्
॥२९॥एकदा नागराः सर्वे द्वावमात्यौ नृपप्रिया ।
सर्वे संशयिता आसन् प्रजापालन कर्मणि
॥३०॥एतस्मिन्नन्तरे तत्र मुद्गलो मुनिराययौ ।
उवाच सर्वाशयविदस्य राज्ञो महागजः
॥३१॥गहनो नाम गृह्णातु मालां पुष्करनिर्मिताम् ।
समाजे यस्य कण्ठे तां निक्षिपेत् स नृपो भवेत्
॥३२॥तथेति च तदा सर्वे साधु साध्वित्यपूजयन् ।
अतीन्द्रियज्ञानवतो वचो मुद्गलशर्मणः
॥३३॥इति श्रीगणेशपुराणे उपासनाखण्डे पञ्चविशोऽध्यायः ॥ २५ ॥