मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 31

3
उपासनाखण्डः · 31

शक्रशापवर्णनं नामैतत्रिंशतितमोऽध्यायः

रूक्माङ्गद उवाच

आगते गौतमे को वा वृत्तान्तोऽभून्महामुने ।

वद मे सकलं तं तु जिज्ञासा महती मम

॥१॥

नारद उवाच

नित्यकर्म समाप्यैव स्वाश्रमं गौतमो ययौ ।

आकार्य निजपत्नीं तां देहि पादोदकं मम

॥२॥

किमर्थ नागताऽद्य त्वं सम्मुखं मम पूर्ववत् ।

नानीतमासनं कस्मात्कथं चारु न भाषसे

॥३॥

श्रुत्वेत्थं वचनं तस्य वेपमाना लतेव सा ।

अधोमुखी विनिर्गर्म्य मुहूर्तान्मुनिमाययौ

॥४॥

साष्टाङ्गं पतिता भमौ तत्पादोपरिमस्तका ।

विह्वला शापभीता सा शनैरथ जगौ मुनिम्

॥५॥

उषसि त्वं प्रयातोऽसि स्नानं कर्तुं निजं विधिम् ।

तवरुपधरो दुष्टो देवेन्द्रो मामुवाच ह

॥६॥

दृष्टा वराऽप्सरोभ्योऽपि सुन्दरी कामिनी मया ।

न मे मनो जपे दैवे विधौ नित्ये स्थिरं भवेत् ।

परावृत्यागतस्तस्माद्रतिं मे देहि शोभने

॥७॥

त्वमेवेति मया भ्रान्त्या कृतं वाक्यं तथैव तत् ।

दिव्यगन्धानुपाघ्राय विकल्पो मेऽभवत्पुनः

॥८॥

दुरात्मन् कोऽसि नो ब्रूहि नोचेद्भस्म भविष्यसि ।

इति शापभयाज्जातः प्रकटो बलसूदनः

॥९॥

तावदेव भवद्वाक्यं श्रुतं तु मुनिसत्तम ।

लज्जयाऽनागता शीघ्रमपराधं क्षमस्व मे

॥१०॥

स्वयं निवेदनेऽदोषोदोषोऽपर निवेदने ।

मन्त्रायुर्गृहरन्ध्रश्रीरतयश्चौषधानि च

॥११॥

मानापमानदानानि प्रकटानि न कारयेत् ।

इत्थं निशम्य स मुनिः कोपव्याकुलितेन्दियः

॥१२॥

शशाप वनिनां स्वीयां दुःशीलं त्वं शिला भव ।

नाज्ञासीर्मे स्वरूपं तं स्वभावं चेष्टितानि च

॥१३॥

परे पुंसि निमग्नं ते यतश्चेतोऽतिकामुके ।

यदा दाशरथी रामो भ्रमद्राजा वने वने

॥१४॥

तस्याङ्घ्रि स्पर्शनादेव स्वं रूपं प्रतिपत्स्यसे ।

नारद उवाच ।

तदैव सा शिला जाता तपोनिधीवचोबलात्

॥१५॥

तस्याः शापं समाकर्ण्य चकम्पे पाकशासनः ।

प्रकम्पनस्य संयोगाद् हिमवत् पर्वतो यथा

॥१६॥

तर्कयामास मनसि कथं कार्यं मयाऽधुना ।

समुद्रमध्ये कूपे वा तडागे कमलेऽथवा

॥१७॥

लीनो भूत्वा तदा स्थास्ये तदा ज्ञास्यति मां मुनिः ।

अतो बिडालरूपेण विचचार स वज्रभृत

॥१८॥

गौतमस्तमचक्षाणो गृहे द्वारी तथाश्रमे ।

क्व गतो दानवरिपुर्यो मे भार्या विदूषकः

॥१९॥

ध्यानेन बुबुधे तं तु क्षणेन मुनिसत्तमः ।

न ते भस्म करिष्यामि देवेन्द्रोऽसि यतःखलः

॥२०॥

शपामि त्वां शचीभर्तः सहस्रभगवान्भव ।

श्रुतवान्वचनं यावद्रोषेण मुनिनेरितम्

॥२१॥

तावद्ददर्श स्वं देहं सहस्रभगचिन्हितम् ।

ततो दुःखार्णवे मग्नः शुशोच बल वृत्रहा

॥२२॥

इन्द्र उवाच

अहं शिक्षापितो वृद्धैर्नानाधर्माननेकशः ।

वृद्धानां वचनं यन्मे न विचारितमादरात्

॥२३॥

स्वबुद्धीर्हितकृत्सर्वा विनाशाय परेरिता ।

गुरोर्गरीयसी बुद्धिः क्षयदा कामिनीमतिः

॥२४॥

कुतो नारदवाक्येन यातोऽहं तामनिन्दिताम् ।

देवराजोऽभवन्नास्यं लोकान्ना दर्शये कथम्

॥२५॥

दिव्यदेहो गतः क्वाद्य निजभार्यां वदे नु किम् ।

धिग् मां च धिक्स्मरं येन प्रापितो गर्हितां दशाम्

॥२६॥

प्राणिभिर्भुञ्ज्यते कर्म शुभं वा यदि वाऽशुभम् ।

तिर्यङ्ग्योनि समासाद्य क्षपयिष्येऽघमात्मनः

॥२७॥

नलिनीकुड्मले तिष्ठे हीन्द्रगोपकरूपधृक

॥२८॥

इति श्रीगणेशपुराणे उपासनाखण्डे शक्रशापवर्णनं नामैतत्रिंशतितमोऽध्यायः ॥ ३१ ॥