मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 9

3
उपासनाखण्डः · 9

राजोपदेशकथनं नाम नवमोऽध्यायः

सूत उवाच

ततो भृगुः क्षणं ध्यात्वां पुनस्तं प्राह भूपतिम् ।

अत्यन्त विव्हलो दुःख वीक्ष्य तत्पूर्वकर्मजम्

॥१॥

भृगुरुवाच

क्व पापनिकरास्ते तु क्वोपायाः कथिता मया ।

तथाऽप्येकं ब्रवीमि त्वामुपायमघनाशनम्

॥२॥

गणेशस्य पुराणन्त्वं श्रोष्यसे यदि सत्वरम् ।

तदैव मोक्ष्यसे दुःखसागरान्नात्र संशयः

॥३॥

इत्युक्त्वां तं गणेशस्य नामाष्टशतमुत्तम् ।

जप्त्वा जलं मन्त्रयित्वा सिषेच नृपतिं तदा

॥४॥

सिक्तमात्रे जले तेन तन्नासारन्ध्रतो लघुः ।

कृष्णास्यः प्राप तद्भूमौ ववृधे तत्क्षणादसौ

॥५॥

सप्ततालप्रमाणोऽभूद् व्यादितास्यो भयङ्करः ।

करालजिव्हो रक्ताक्षो दीर्घबाहुर्जटाधरः

॥६॥

मुखादुरू वमन्नग्निं क्षणाच्च पूयशोणिते ।

नेत्राणामन्धतां कुर्वन्नन्धकार इवापरः

॥७॥

आलोक्य दुद्रुवुः सर्वे तदाश्रमनिवासिनः ।

दंष्ट्रारावैर्दशदिशः पूरयन्तं तमद्भुतम्

॥८॥

अपृच्छत् तं द्विजवरस्तत्समक्षं तु पूरुषम् ।

विद्वानपीति कोऽसित्वं नाम ते किं वदस्व मे

॥९॥

प्रत्युवाच मुनिं तं तु परिपृष्टो द्विजेन सः ।

प्राणिमात्रशरीरस्थो नाम्नाऽहं पापपूरुषः

॥१०॥

त्वन्मन्त्रजलपातेन नि।

सृतो राजदेहतः ।

क्षुधातुरो भक्ष्यमीहे देहि महयं न चेत् तदा

॥११॥

भक्षयिष्ये मुने लोकान् सोमकान्त तवाग्रतः ।

वद मे वसतिं रम्यामितो निःसारितस्यच

॥१२॥

ततस्तु बहिरभ्येत्य तमुवाच मुनिः पुनः ।

अस्मिन् रसाले सरले विरसे वस कोटरे

॥१३॥

गलितानिच पत्राणि भक्षयस्व ममाज्ञया ।

नोचेत् त्वां भस्मसात् कुर्यां नानृतं मे वचोऽधम

॥१४॥

सूत उवाच

इति तन्मुनि वाक्यान्ते शुष्कं स वृक्षमस्पृशत् ।

भस्मसादभवद्वृक्षो द्विजास्तत्स्पर्शमात्रतः

॥१५॥

मुनेः सन्दर्शनाद्भीतस्तस्मिन् भस्मन्यलीयतः ।

तस्मिन् विलीने स मुनिः सोमकान्तं पुनर्जगौ

॥१६॥

भृगुरुवाच

पुराणश्रवणाद् यत्ते जातं पुण्यं नृपोत्तम ।

अयं यावच्च्यूततरूरत्र चोत्तिष्ठते पुनः

॥१७॥

तावत्सम्पादयास्मिंस्तद्भस्मन्येव दिने दिने ।

विवृद्धेऽस्मिंस्तरौ राजन्निष्पापस्त्वं भविष्यसि

॥१८॥

राजोवाच

गणेशस्य पुराणं यन्नदृष्टं न च वै श्रुतम् ।

कुत्र तल्लभ्यते ब्रह्मन् व्याकर्ता तस्य वा मुने

॥१९॥

मुनिरुवाच

ब्रह्मणा कथितं पूर्वं वेदव्यासाय धीमते ।

व्यासाच्च विदितं मह्यं पुराणं पापनाशनम्

॥२०॥

अहं तेच प्रवक्ष्यामि तीर्थे स्नानं समाचर ।

श्रोष्ये पुराणमितिच सङ्कल्पं कुरू सुव्रत

॥२१॥

सूत उवाच

भृगुणानोदितः स्नात्वा भृगुतीर्थेऽति विश्रुते ।

सोमकान्तो मुदायुक्तस्ततः सङ्कल्पमाचरत्

॥२२॥

गणेशस्य पुराणं यत् तच्छ्रोष्येऽद्य प्रभृत्यहम् ।

सङ्कल्पमात्रे तु कृतें बभौ राजा निरामयः

॥२३॥

भृगुप्रसादान्नीरक्तः कृमिक्षतविसर्जितः ।

गृहीत्वा तं भृगुरगाद्विस्मितं हर्षितं नृपम्

॥२४॥

उपविश्यासने स्वीयेऽदापयत्तस्य चासनम् ।

उपविष्टो बभाषे तं दिव्यकान्तिर्नृपोत्तमः

॥२५॥

राजोवाच

भवत्प्रसादात्सकला गरिष्ठा सङ्कल्पमात्रेण गता व्यथा मे ।

आश्चर्यभूतं सकलं वदस्व पुराणमेतद् द्विरदाननस्य

॥२६॥

भगुरुवाच

श‍ृणुष्वावहितो भूत्वा तत्पुराणं वदाम्यहम् ।

अनन्तपुण्यनिचयैर्यस्य श्रवणगोचरा

॥२७॥

मतिरुत्पद्यते पुसां नान्यथा पापकारिणाम् ।

यस्याकर्णनमात्रेण सप्तजन्मार्जितान्यपि

॥२८॥

लघुशुष्कार्दस्थूलानि पापानिच महान्त्यपि ।

तत्क्षणाद् विलयं यान्ति गणेशस्य प्रसादतः

॥२९॥

अव्ययस्याऽप्रमेयस्य निर्गुणस्य निराकृतेः ।

मनोवागनिरुप्यस्य केवलानन्दरूपिणः

॥३०॥

यस्य स्वरूपं न विद्रुर्ब्रह्मेशानादयः सुराः ।

सहस्रवदनो यस्य महिमानं न च क्षमः

॥३१॥

यावद् विशेषविदपि प्रवक्तुं राजसत्तम ।

मया यथा श्रुतं पूर्वं तत्पुराणं सुपुण्यदम्

॥३२॥

अतीन्द्रियज्ञानवतो व्यासाच्चाऽमिततेजसः ।

यज्ञविध्वंसशोकार्तो दक्षः सुश्राव मुद्गलात्

॥३३॥

यस्य भक्तिर्दृढा राजन् गणेशे सर्वसिद्धिदे ।

स एतच्छृणुयान्नित्यं न वाच्यं तादृशेतरे

॥३४॥

यदि सर्वेऽपि कुर्वीरन् विघ्नराजस्य सेवनम् ।

क्व तदा विघ्ननिचया विहरेयुर्यथासुखम्

॥३५॥

दुःखान्यनुभवेयुः के नानाविरहजान्युत ।

चकारेदं पुरा व्यासो भूतभव्यभविष्यवित्

॥३६॥

वेदार्थज्ञानरहितान् वेदाध्ययनवर्जितान् ।

वर्णाश्रमाचारशून्यान् जातिसङ्करकारिणः

॥३७॥

कलौ विलोक्य तु जनान् कुटिलान् पापकारिणः ।

अष्टादशपुराणानि कृतवान् धर्मगुप्तये

॥३८॥

तावन्त्युपपुराणानि ततोऽर्थान् बुबुधुर्जनाः ।

तत एव गणेशस्य रूपं जानन्त्यमी जनाः

॥३९॥

इति श्रीगणेशपुराणे उपासनाखण्डे राजोपदेशज्ञानोपदेशकथनं नाम नवमोऽध्यायः ॥ ९ ॥