मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 74

3
उपासनाखण्डः · 74

चतुःसप्ततितमोऽध्यायः

व्यास उवाच

ब्रह्मन् कथं कृतं तेन शूरसेनन भूभुजा ।

सेतिहासं शक्रमुखात् श्रुत्वा सादरमुत्तमम्

॥१॥

ब्रह्मोवाच

ततःस्वदूतान् प्राहेदं गच्छन्तु नगरं प्रति ।

स आनेयस्तु सङ्कष्टचतुर्थीव्रतकारकः

॥२॥

ते दूतास्त्वरया याताः पप्रच्छुस्ते गृहं गृहम् ।

ददृशुर्भ्रममाणास्ते विमानं सुन्दर शुभम्

॥३॥

याऽभवद् दुष्टचाण्डाली गलत्कुष्ठा स्त्रवन्मुखा ।

मक्षिकाकृमिभारेण दुर्गन्धेन समावृता

॥४॥

शुष्कोदरी दीर्घकेशा शुष्कदन्ताक्षिनासिका ।

अत्यन्तमलिना दीर्घश्रोत्ररन्ध्रा घनस्वना

॥५॥

नेतुं तामीदृशीं दूतैरानीतां गणपस्य हि ।

अत्याश्चर्यमिदमिति राजदूताः प्रणम्य ताम्

॥६॥

ऊचुस्ते देवदूताँस्तान् गणनाथस्य किङ्करान् ।

अत्यन्तं कुत्सिता जात्या हीनेयं स्वर्गगा कथम्

॥७॥

केयमासीत्पुरा दूताः कथमीदृग् बभूव च ।

केन पुण्येन युष्माभिः स्वर्गं तु नियते कथम्

॥८॥

एतद् वदन्तु सर्वं नो यदि वक्तुं क्षमं भवेत् ।

देवदूता ऊचुः ।

आसीत् बङ्गालविषये शारङ्गधरनामतः

॥९॥

क्षत्रियस्तस्य कन्येयं सुन्दरा नाम सुन्दरी ।

पिककण्ठा शशिमुखी रतिलावण्यजित्वरी

॥१०॥

यद्दास्य करणे नार्हाः प्रसिद्धा अप्टनायिकाः ।

योगिनामपि या चेतः कटाक्षेन विमोहयेत्

॥११॥

युवानो मुमुचुः शुक्रं केचित् तद्रूपवीक्षणात् ।

जारमार्गेषु निरता साऽभवद् विश्वमोहिनी

॥१२॥

महार्हवस्त्रालङ्कारा नानाविषयभोगिनी ।

बङ्गालनगरे ख्याता वेश्येवासीद् गतत्रपा

॥१३॥

भर्तारं चित्रनामानं वञ्चयत्येव सर्वदा ।

व्ययादसङ्ख्यद्रव्यस्य पित्रा सम्पादितं पुरा

॥१४॥

कदाचिच्छयने तं सा हित्वा सुन्दरवेषभृत् ।

निशीथे चलिता तेन हस्तेऽधारि रूषावशात्

॥५॥

उवाच भर्त्सयंस्तां च चित्रनामा पतिस्तदा ।

धिक् त्वां पापसमाचारे या जारे निरताऽनिशम्

॥१६॥

तद्वाक्यमित्थमाकर्ण्य शान्तकोपाऽभवत् तदा ।

अभक्ष्यभक्षणेनासौ मत्ता बलवती भृशम्

॥१७॥

अन्धे तमसि सङ्गृह्य शस्त्रिकां दक्षहस्ततः ।

तया तदुदरं भित्वा चित्रनामपतेस्तदा

॥१८॥

गता तं पुरुषं रन्तुं यो जारो मनसि स्थितः ।

यावत्सा रमते तत्र तावत्पर्यन्तवासिना

॥१९॥

जाग्रता चरितं तस्या ज्ञात्वा राज्ञे निवेदितम् ।

तददूतास्तमसि स्थित्वा तावत् सा गृहमागता

॥२०॥

दधुस्तां राजदूतास्ते निन्यू राजसमीपतः ।

निजघ्नुस्तां बहिर्नीत्वा दूता राजाज्ञया तदा

॥२१॥

सा नीता नरके घोरे यमदूतैस्तदायज्ञा ।

अधोमुखी स्थिता तत्र सन्दष्टा कृमिभिर्भृशम्

॥२२॥

अत्यन्तं बुभुजे दुःखं स्मरन्ती पूर्वचेष्टितम् ।

कल्पान्ते मृत्युलोकेऽभूच्चाण्डाली दुर्भगा भृशम

॥२३॥

एकदा मदिरां पीत्वा मत्ता सुप्ता दिवैव सा ।

निशायां प्रथमे यामे प्रबुद्धा क्षुधिता भृशम्

॥२४॥

तदैव भिक्षितुं याता गृहं सा व्रतकारिणः ।

तेनान्नमस्यै दत्तं यत् तया भुक्तं विधूदये

॥५॥

गणेशेति च जल्पन्त्या स्वेच्छया दैवयोगतः ।

तदैव गणनाथेन विमानं प्रेषितं शुभम्

॥२६॥

ब्रह्मोवाच

देवदूतवचः श्रुत्वा पुनरूचुर्नमस्य ते ।

राजदूता ऊचः ।

इदमत्यद्भुतं दृष्टमस्माभिः कार्यकारिभिः

॥२७॥

राज्ञा यदुपदिष्टं नो वाक्यमेतन्निबोधत ।

शक्रो गृत्समदं दृष्टुं विमानवरमास्थितः

॥२८॥

भृशण्डिमाययौ देवैर्दृष्ट्वा नत्वा प्रपूज्य तम् ।

तदनुज्ञां च पूजां च गृहीत्वा स्वां पुरीं ययौ

॥२९॥

गच्छतस्तस्य यानं तच्छूरसेनपुरेऽपतत् ।

कुष्ठिनो वैश्यपुत्रस्य दृष्टिपातेन तत् क्षणात्

॥३०॥

शूरसेनो गतस्तत्र नमस्कृत्य प्रपूज्य तम् ।

विमान पतनेऽपृच्छदुपायं गमनेऽपि च

॥३१॥

इन्द्रेणोक्तं तु सङ्कष्टचतुर्थी व्रत सम्भवात् ।

पुण्यात् प्रस्थास्यते यानं तदर्थे यत्नमाचर

॥३२॥

वयं तदाज्ञया दूतास्तं गवेषितुमागताः ।

अनया चेद् व्रतमिदं देवदूताः कृतं यदि

॥३३॥

तर्हीयं नीयतां शूरसेनं भूमिपतिं प्रति ।

श्रेयो दास्यति चाण्डाली सङ्कष्टीव्रतसम्भवम्

॥३४॥

पुनर्द्विगुणपुण्येयं विमानं प्रति यास्यति ।

विमानमपि शक्रस्य स्वपुरीमागमिष्यति

॥३५॥

युष्माकमस्या अस्माकं कार्यं राज्ञः शचीपतेः ।

एवं कृते तु भविता क्रियतां यदि रोचते

॥३६॥

इति तद्वचनं श्रुत्वाऽभिदधुर्देवसेवकाः ।

आज्ञानो नो गणेशस्यास्तीमां दातुं परस्य हि

॥३७॥

इत्युक्त्वा तां समुत्थाय विमाने निदधुर्यदा ।

तदैव सा दिव्यकान्तिर्दिव्यवस्त्राङ्गभूषणा

॥३८॥

देवदूतैस्तु सा नीता दिव्यवादित्रनिःस्वनैः ।

गजाननसमीपे सा राजदूता यथागतम्

॥३९॥

ययुस्ते शूरसेनं तं वृत्तान्त समनुब्रुवन् ।

ब्रुवत्सु तेषु तद्यानं चाण्डाल्या सह संव्रजेत्

॥४०॥

तदृशुस्ते दीप्यमानं भासयत् प्रदिशो दिशः ।

तस्या दृष्टिर्निपतिता तस्मिन् याने शचीपतेः

॥४१॥

विमानवायुसंस्पर्शाद् विमानमूर्ध्वमाययौ ।

पश्यत्सु सर्वलोकेषु विस्मितेषु सुरर्षिषु

॥४२॥

स्वं स्वं स्थानं ययुः सर्वे शक्रे यातेऽमरावतीम् ।

साऽपि वैनायकं धामं सम्प्राप्ता दिव्यदेहभाक्

॥४३॥

पापं हित्वा तु सङ्कष्टचतुर्थीव्रतपुण्यतः ।

इदं यः श‍ृणुयात् सम्यक् श्रावयेद् वा प्रयत्नतः

॥४४॥

प्राप्नुयात् सकलान् कामान् सङ्कष्टनाशनं नरः

॥४५॥

इति श्रीगणेशपुराणे उपासनाखण्डे चाण्डाल्युपाख्यानं नाम चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥