स्वप्नकथनं नाम चतुर्विंशोऽध्यायः
भीम उवाच
दक्षेण मुनिशार्दूल राजपुत्रेण धीमता ।
अनुष्ठानं कृतं कुत्र कथं वा कस्य वा मुने
॥१॥एतद्विस्तार्य ब्रूहि त्वं शृण्वंस्तृप्याम्यहं न च ।
विश्वामित्र उवाच ।
अविदूरे पुरस्तस्याः कौण्डिन्यस्य महावनम्
॥२॥रम्य नानावृक्षयुतं नानाश्वापदसङ्कुलम् ।
नानापक्षिगणैर्युक्तं लताजालविराजितम्
॥३॥सन्मनोनिर्मलपयः सरोवापीविराजितम् ।
जीर्णप्रासादमध्यस्थगजाननविराजितम्
॥४॥तत्र स्थित्वा तपश्चक्रे गजाननसुतोषकम ।
मुद्गलेनोपदिष्टेन मन्त्रेणकाक्षरेण सः
॥५॥तोषयामास तं देवं वर्ष्यैर्द्वादशसम्मितैः ।
स्नानैर्वस्त्रैः सुगन्धैश्च माल्यैर्धूपैश्च दीपकैः
॥६॥नैवेद्यं कन्दमूलैश्च भक्षणीयैरकल्पयत् ।
मनसा कल्पयामास दक्षिणां क्षत्रियर्षभः
॥७॥एवं तस्यागमन् भूप दिनानि त्वेकविंशतिः ।
ततः प्रभातसमये स्वयमेवं ददर्श सः
॥८॥एकं महामतङ्गञ्च सिन्दूराक्तं सुशोभितम् ।
मदस्राविसुगण्डाभ्यां सुन्दरं गिरिसन्निभम्
॥९॥चारूप्रसन्नवदनं दन्तशोभिमहत्करम् ।
भ्रमरालिसमाकीर्णं गजाननमिवापरम् ।
तेन तत्कण्ठदेशे तु रत्नमाला समर्पिता
॥१०॥तत उत्थाप्य तं स्कन्धे स्थापयामास दन्तिराट् ।
स दन्ती नगरं यातः पताकाध्वजशोभितम्
॥११॥ततः स प्रतिबुद्धः सन् पप्रच्छ जननीं निजाम् ।
कमले वद मातस्त्वमस्याभिप्रायमद्य मे
॥१२॥आरोहणं गजस्कन्धे शुभं वा यदि वाऽशुभम् ।
कमलोवाच ।
धन्यस्त्वमसि दृष्टोऽयं गजरूपी विनायकः
॥१३॥आरोहणफलं राज्यप्राप्तिरेव न संशयः ।
दक्ष उवाच ।
यदि राज्यस्य प्राप्तिः स्यात्तदा तुभ्यं ददाम्यहम्
॥१४॥नरयानं तथा ग्रामान् दीपिकां मौक्तिकस्रजम् ।
धर्मं च कारयिष्यामि गवाष्टापददानतः
॥१५॥व्रतानि नियमांश्चैव दानान्यन्यान्यनेकशः ।
मुनिरूवाच ।
श्रुत्वेत्थं कमला हृष्टा जगाद तनयं प्रति
॥१६॥त्वयि राज्य स्थिते पुत्र परमानन्दता मम ।
सद्धर्मे रमतां चेतः सतः सराभृतस्तव ।
आयुष्य विपुलं तेऽस्तु द्विजदेवार्चने रतिः
॥१७॥इति श्रीगणेशपुराणे उपासनाखण्डे स्वप्नकथनं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥