षट्सप्ततितमोऽध्यायः
दूता ऊचुः
गौडे तु विषये गौडनगरेऽभूत् पूरा द्विजः ।
तपस्वी ज्ञानवान् प्राज्ञो देवब्राह्मण पूजकः ।
तस्य पुत्रोऽयमजनि जननी चास्य शाकिनी
॥१॥तस्य पत्नी तु सावित्री सावित्रीव पतिव्रता ।
एकपुत्रस्नेहवशादलङ्कारैरलङ्कृतः
॥२॥अत्यन्तसुन्दरतरो रतिभर्तेव शोभते ।
तन्मातापितरौ तस्य वियोगं नेच्छतः क्षणम्
॥३॥स तु यौवनमापन्नो निजभार्यां विहाय ताम् ।
परदाररतो नित्यं परनिन्दापरायणः
॥४॥अभवत् पापनिष्ठश्च पितृवाक्यावमर्दनः ।
एकदा नगरे तस्मिन् वेश्या नरविमोहिनी
॥५॥आगता तद्गतमना यच्चक्तेऽसौ शृणुष्व तत् ।
स्वालङ्कारान् पेटिकायां निष्कास्याऽस्थापयत् बलात्
॥६॥मातापित्रोः समक्षं च पश्चाच्चौर्यं पुनश्च तान् ।
वेश्यायै प्रतिपाद्यैतांश्चिक्रीड सुभृशं तया
॥७॥हित्वेन्द्रियार्थान् सकलान् सुगन्धद्रव्यसंयुतः ।
तदेकनिष्ठः सञ्जातो योगी ब्रह्मपरो यथा
॥८॥कामाग्नि विव्हलश्चासीत् क्षीबो मद्यबलाद् यथा ।
पिता तु खेदसम्पन्नः क्षुत्तृड्भ्यां परिवर्जितः
॥९॥विलोकयामास सुतं नगरे प्रतिमन्दिरम् ।
अलब्धदर्शनस्तस्य श्वासोच्छ्वासपरायणः
॥१०॥निशीथे स्वप्रियां प्राह बुधः पुत्रो गतः क्व नु ।
विना तेन वृथा गेहं विना दीपं यथा निशा
॥११॥विना जलं वृथा वापी विनापत्यं यथाऽबला ।
कदा नु दर्शनं तस्य भविता प्राणरक्षकम्
॥१२॥शाकिन्युवाच
क्षुधा तृषा परिश्रान्ता चिन्ताशोकसमन्विता ।
तिष्ठामि नाथ नो जाने क्व गतः प्रियबालकः
॥१३॥यदि मे दर्शनं तस्य स्याज्जीवामि न चान्यथा ।
पुनश्चचाल दूर्वः स यष्टिमादाय मुष्टिना
॥१४॥यं यं पश्यति मार्गेऽस्मिं स्तं तं पृच्छति चात्मजम् ।
यदा श्रान्तः क्षुधाक्रान्तस्तदा भ्रान्तश्च सोऽभवत्
॥१५॥अतिवृद्धो महाभीमो नाम्ना भीमोऽन्त्यवर्णजः ।
स तेन पृष्टस्तनयं तेनाप्युक्तं परं स्फुटम्
॥१६॥भीम उवाच
वेश्यागृहे ते तनयो बुधोऽसौ, बुधः सुखं क्रीडति कामसक्तः ।
कस्यात्मजो वा जननी पिता वा वृथैव खेदं कुरुषे द्विजेन्द्र
॥१७॥दूर्व उवाच
कथं मम सुतो जातो वेश्यायां निरतो बुधः ।
तस्या गृहं जगामाशु दृष्ट्वाँस्तत्र तं सुतम्
॥१८॥उन्मत्तं मदिरारक्तनयनं मदविव्हलम् ।
पिता दधार तं हस्ते रुषाऽशिक्षापयत् सुतम्
॥१९॥त्वत्तः कण्टकवृक्षोऽयं पाषाणो वा मतोऽधिकः ।
कथं न त्यजसे प्राणान् किं स्यात्तैर्जीवितं खलु
॥२०॥ब्रह्मोवाच
पितृवाक्यं समाकर्ण्य रोषाविष्टो बुधः सुतः ।
तलप्रहारं तुण्डेऽस्य दत्तवान् पितुरेव सः
॥२॥उक्तवान कृमिकीटादी साधारणमुखे कथम् ।
कृतवानसि मे विघ्नं क्रीडाकाले नराधम
॥२२॥अकस्मात् काकस्य शकृत् पतितं मयि वा कथम् ।
पुनर्लत्ताप्रहारेण प्राणाँस्तस्य गृहीतवान्
॥२३॥पित्रा प्राणेषु त्यक्तेषु हरेश्वरेति सोऽवदत् ।
ननन्द स सुतः पादे बद्ध्वा तं दूरतोऽक्षिपत्
॥२४॥मधु पीत्वा पुना रेमे वेश्यया स यथेच्छकम् ।
प्रातर्जगाम स्वगृहं ददर्श जननी च तम्
॥२५॥आलिलिङ्ग सुतं हर्षात् स्नेहस्नुतपयोधरा ।
बभाण क्व गतश्चाऽसि क्व स्थितः किं कृतं त्वया
॥२६॥वद मे विस्तराद् वत्स पिता ते दुःखितो भृशम् ।
अहं चापि निराहारा निर्जला निशि जाग्रती
॥२७॥प्रतीक्षमाणा वत्स त्त्वां पिताऽन्वेष्टुं गतश्चिरात् ।
गच्छ त्वं पितरं द्रष्टुं इत्युवाच पुनःपुनः
॥२८॥तयाज्ञप्तमिति क्रोधाच्छुष्ककाष्ठेन तां सुतः ।
ताडयामास शिरसि पतिता सा धरातले
॥२९॥निश्चेतनां परिज्ञाय बद्ध्वा पाशेऽक्षिपद् बहिः ।
स्वयं वेश्यागृहं गत्वा चिक्रीड भृशहर्षितः
॥३०॥ददहुस्ते जनाः सन्तो दम्पती स्वस्वकाष्ठतः ।
न शास्ति राजा दण्ड्यं तं ब्राह्मणत्वाद् द्विजाधमम्
॥३१॥पुनर्गृहागतं तं तु पत्नीवाक्यं शनैर्जगौ ।
सावित्र्युवाच ।
प्राणनाथ वदाम्येकं तद् छृणुष्व महामते
॥३२॥अतिख्यातेऽतिविमले वर्णे जन्म भवादृशाम् ।
आचारश्चान्यथा दुष्टस्त्यक्तव्यः स विवेकतः
॥३३॥इह लोके तु तत्कार्यं येन सौख्यं परे भवेत् ।
पूर्व वयसि तत्कार्यं येन शं वार्धके भवेत्
॥३४॥अष्टमासेषु तत्कुर्याद् येन वर्षासु शं भवेत् ।
दिवसे कर्म तत्कार्यं येन रात्रौ सुखं भवेत्
॥३५॥पितुः प्रियत्वाद् राजाऽपि ब्राह्मणत्वात् क्षमत्यसौ ।
सर्वावयवसम्पूर्णा सुन्दरीमनुसारिणीम्
॥३६॥त्यक्वा मां धर्मपत्नीं त्वं वेश्यायां निरतः कथम् ।
लोको निन्दति सर्वत्र भयात्त्वां न वदत्यसौ
॥३७॥स मां जनः प्रतिब्रूते पतिस्ते कीदृशः शुभे ।
लज्जयाऽधोमुखी प्राणांस्त्यक्तुमीहे तदैव च
॥३८॥यथेष्टं चेन्मया सार्द्धं रमसेऽहर्निशं पते ।
न कोऽपि किञ्चिद् ब्रूयात् त्वां दोषो वा न भवेन्महान्
॥३९॥हितं चेत्कुरू मद्वाक्यं त्यक्त्वा तां स्वविवेकतः ।
अज्ञानाद् वा प्रमादाद् वा कृतं कर्म त्यजेद् बुधः
॥४०॥इदं कृतं ममैव स्यादिष्टं नैव कृतं यदि ।
अनिष्टं सर्वथा मे स्यात् तन्न कार्यं विनिश्चयात्
॥४१॥अन्यथा कुर्वतः पुंस इहलोको न वा परः ।
इति स्त्रिया वाक्यबाणैर्बुधो विद्धो हि मर्मसु
॥४२॥रोषाविष्टो महाक्रूरो जगाद प्रज्वलन्निव ।
बुध उवाच ।
निर्लज्जे निष्ठुरे प्रौढे दुष्टे रुष्टे मयि स्फुटम्
॥४३॥गमिष्यसि गतिं तां त्वं यथा तौ पितरौ गतौ ।
सावित्र्युवाच ।
येन पित्रोर्न मर्यादा शिक्षित्रोश्च स्वतन्त्रयोः
॥४४॥रक्षिता तद्विपरीतां स मां त्राता कथं भवेत् ।
भर्तृहस्तान्मृतिः श्रेयः परत्रेह च सत्स्त्रियाः
॥४५॥ब्रह्मोवाच
एवं ब्रुवन्त्यां पत्न्यां स धम्मिल्लं सहसाऽग्रहीत् ।
काष्ठैर्लोष्ठैर्मुष्टिभिश्च पाषाणैस्तामताडयत्
॥४६॥सा रामं भर्तृरूपेण संस्मार पूर्वपुण्यतः ।
प्राणांस्तत्याज सहसा भिन्ना मर्मसु तेन ह
॥४७॥स्वर्गं गत्वा दिव्यदेहा बुभुजे परमं सुखम् ।
आकृष्य चरणे तां स चिक्षेप दूरतो निशि
॥४८॥निरङ्कुशो हर्षयुतो रेमे वेश्यासमन्वितः ।
त्वदर्थं नाशिताः सर्वे बुधस्तामिति सोऽब्रवीत्
॥४९॥ततो बहुगते काले बुधोऽगात् कालभेर्गृहम् ।
तस्मिन् स्नातुं गते दुष्टो भार्यां तस्याऽग्रहीत् कचे
॥५०॥अत्यन्तं सुन्दरतरामालिलिङ्ग चुचुम्ब च ।
निःशङ्कं शयने नीत्वा मर्मद कुचमण्डलीम्
॥५१॥रेमे या यथेष्टं स ततः सा तं शशाप ह ।
सुलभोवाच ।
कथं नाम कृतं दुष्टं पितृभ्यां सुलभेति मे
॥५२॥अहं ते सुलभा जाता दुष्टबुद्धे नराधम ।
स्नातुं गते भर्तरि मे कालभौ मुनिपुङ्गवे
॥५३॥बलात्कारो मयि कृतो दुष्टः कुष्ठी भविष्यसि ।
जन्मान्तरे ते नामापि न गृह्णीयाज्जनः क्वचित्
॥५४॥ब्रह्मोवाच
ततो भितो ययौ वेश्यागृहमेव बुधः पुनः ।
रमेते तया सुरां पीत्वा न किञ्चिदपि चिन्तयन्
॥५५॥एवं दुष्टानि कर्माणि वक्तव्यानि कथं मया ।
पुण्यक्षयो भवेत्तस्य परदोषं य ईरयेत्
॥५६॥स कालान्निधनं प्राप्तो दूतैर्नीतो यमालयम् ।
यमेनोक्तं किमानीतो नीयतां नरकेष्वयम्
॥५७॥यमवाक्यं समाकर्ण्य दूता निन्युस्तदैव तम् ।
चिक्षिपुर्नरके तावद् यावदाभूतसम्प्लवम्
॥५८॥भुक्तभोगः स वैश्यस्य गृहे जन्म समाप्तवान ।
ऋषिपत्न्याः स शापेन कुष्ठी जातो भृशं तदा
॥५९॥पितृहा मातृहा स्त्रीहा मद्यपी गुरूतल्पगः ।
तस्य संस्पर्शनादेव सचैलं स्नानमाचरेत्
॥६०॥नामाप्येतस्य न ग्राहयं महादोषकरं यतः ।
एतादृशोऽयं दुष्टात्मा यदा त्यक्त इतस्तदा
॥६१॥विमानं यास्यते चोर्ध्वं नूनं नास्त्यत्र संशयः
॥६२॥ब्रह्मोवाच
श्रुत्वेत्थं वचनं तेषां दूतानां भृशकम्पितः
॥६३॥शूरसेन उवाचैतान्न मयाऽज्ञायि दुष्कृतम् ।
पुनरुत्थाय राजाऽसौ प्रणनाम भृशातुरः
॥६४॥प्राह तान् देवदूतान् स कृपां कृत्वा वदन्तु मे ।
उपायमस्य दुष्टस्य सर्वदोषापनुत्तये
॥६५॥दूता ऊचुः
उत्तिष्ठोत्तिष्ठ नृपते ब्रूमो दोषापनुत्तये ।
उपायं राजशार्दूल शृणुष्वैकमना भव
॥६६॥गणेशस्य भवेन्नाम यत् ख्यातं चतुरक्षरम् ।
जप तत् कर्णरन्ध्रेऽस्य सर्वदोषक्षयो भवेत्
॥६७॥उदये दिननाथस्य यथा सर्वतमः क्षयः ।
नान्योपायेऽधिकारोऽस्य यतो नामैव जप्यताम्
॥६८॥ब्रह्मोवाच
शूरसेनो दूतवाक्याज्जयपूर्वं जजाप ह ।
त्रिवारं वैश्यकर्णे तु नाम यच्चतुरक्षरम्
॥६९॥गजाननेति श्रुत्वैव दिव्यदेहोऽभवच्च सः ।
भासयँस्तेजसा सर्वमरुणो भुवनं यथा
॥७०॥सर्वपापक्षये जाते नामश्रवणमात्रतः ।
दीपयन् सर्व दिग्देशान् विमानं चाध्यरोहत
॥७१॥तद्विमानं क्षणाद् दूतैः सर्वलोकसमन्वितम् ।
नीतं वैनायकं धाम विघ्नराजस्य शासनात्
॥७२॥इति सर्वं समाख्यातं यद् यत्पृष्टं त्वयाऽनघ
॥७३॥महापुण्यं च सङ्कष्ट चतुर्थीव्रतमुत्तमम् ।
धर्म्यं यशस्यमायुष्यं श्रवणात् सर्व सिद्धिदम्
॥७४॥सर्वपीडाप्रशमनं सर्वविघ्न विनाशनम् ।
दूर्वानामप्रभावश्च किमन्यच्छ्रोतुमिच्छसि
॥७५॥इति श्रीगणेशपुराणे उपासनाखण्डे सङ्कष्टचतुर्थीमाहात्म्यकथनं नाम षट्सप्ततितमोऽध्यायः ॥ ७६ ॥