मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 6

3
उपासनाखण्डः · 6

भृगोराश्रम गमनं नाम षष्टोऽध्यायः

सूत उवाच

इति तद्वचनं श्रुत्वा च्यवनो भृगुनन्दनः ।

त्वरया स्वमुपादाय कलशं जलसम्भृतम्

॥१॥

दुःखित परदुःखेन तूष्णीमेवागमद् गृहम् ।

तं भृगुः परिपप्रच्छ विलम्बकारिणं सुतम्

॥२॥

भृगुरुवाच

किमपूर्वं त्वया दृष्टं लक्ष्यसे चकितो यथा ।

विलम्बश्च कथं जातो वद पुत्र ममाग्रतः

॥३॥

पुत्र उवाच

सौराष्ट्रदेशे विख्याते दैवते नगरे मुने ।

सोमकान्त इति ख्यातो राजा राजीव लोचनः

॥४॥

चक्रे राज्यं बहुतिथं धर्मेण पालयन् प्रजाः ।

दुर्भगत्वं गतो दैवात् पुत्रे राज्यं निवेश्य सः

॥५॥

पत्न्या सुधर्मया युक्तो भर्तुराज्ञाभृता पितः ।

सुबलज्ञानगम्याम्भ्यां प्रकृतिभ्यामिहागतः

॥६॥

गलत्कुष्ठी कृमियुतो विभ्रमन् दुर्गमं सरः ।

सहस्रभगतां प्राप्तो यथेन्द्रो गौतमान मुनैः

॥७॥

क्व सा सुधर्मा चार्वङ्गी क्व गलत्कुष्ठवान् पतिः ।

इति मे पृच्छतो वृत्तं तदीयं गतवान् क्षणः

॥८॥

तदीयैः करुणावाक्यैर्मनो मे कलिलं त्वभूत् ।

ततोऽहं कलशं पूर्णं कृत्वा शीघ्रमुपागतः

॥९॥

सुत उवाच

सर्वं चाकथयत् तस्मै तया यत् कथितं वचः ।

श्रुत्वा तच्च पुनः पुत्रं च्यवनं भृगुरब्रवीत्

॥१०॥

भृगुरवाच

सर्वानानय तां शीघ्रं पुत्र ! गच्छ ममाज्ञया ।

द्रक्ष्यामि कौतुकं तेषां स्वीयं वा दर्शयामि तान्

॥११॥

सूत उवाच

इत्थं स चोदितः पित्रा च्यवनः करूणानिधिः ।

जगाम सरसो भूमिं सुधर्मां द्रष्टुमुत्सुकः

॥१२॥

तस्मिन्नेव क्षणेऽमात्यौ फलकन्दभरान्वितौ ।

सुबलज्ञानगम्यौ तावागतौ राजसन्निधिम्

॥१३॥

तत् ऊचे स तु मुनिः सुधर्मां चारुलोचनाम् ।

पिता मे स्वाश्रमं सर्वानाकारयति सुव्रते

॥१४॥

इति तद्वचनं श्रुत्वा सुधर्मा शोकविव्हला ।

तदैव सावधानाऽभूत् तनुः प्राण इवागते

॥१५॥

सुशीला राजपत्नी सा पीत्वा तद्वचनामृतम् ।

अगमत् सा सुचार्वङ्गी प्रकृतिद्वयसंयुता

॥१६॥

सोमकान्तेन पतिना मुनिपुत्रपुरःसरा ।

गणेशस्कन्दसहिता शिवेव शिवसंयुता

॥१७॥

शुशुभे मार्गमध्ये सा वाचस्पतिपुरःसरा ।

मन्त्रघोषयुतं प्राप भृगोराश्रममण्डलम्

॥१८॥

नानापुष्पलताकीर्णं नानापक्षिनिनादितम् ।

मार्जारा नकुलाः श्येना गजा गावो मयूरकाः

॥१९॥

भुजङ्गाः पक्षिणः सिंहा व्याघ्राः क्रीडन्ति यत्र च ।

न च वायुर्भृशं वाति न सूर्यस्तपते भृशम्

॥२०॥

न वर्षति भृशं मेघो वर्षते च तदिच्छया ।

विविशुस्ते हर्षयुता मुनिपुत्र पुरःसराः

॥२१॥

तत्राद्भुतं व्याघ्रमृगाजिनस्थं ददर्श सूर्यप्रतिमं भृगुं तम् ।

राजाऽथ पत्नी प्रकृतिद्वयञ्च ननाम बद्धाञ्जलिरब्रवीच्च

॥२२॥

राजोवाच

अद्याशिषो मे सुफला द्विजेन्द्र ! द्विजेरिता धर्मचयस्तपोऽपि ।

आजन्मतोऽहं परिपूत एष पितुर्जनन्याश्च सुजीवितं मे

॥२३॥

भवदृशिः सम्प्रति हन्त्यथैनः पूर्वार्जितैः पुण्यचयैः कृताऽपि ।

आगामिकल्याणकरी मुनीन्द्र ! कालत्रये जन्म करोति पूतम्

॥२४॥

सौराष्ट्रदेशे खलु देवताख्ये पुरे कृतं राज्यममोघदृष्टे ।

भीतेन पापाद् द्विजदेवतादिपूजा कृता नीतिमता मुनीन्द्र

॥२५॥

आकस्मिकं मे दुरितं किमेतत् प्रादुर्बभूवोग्रतरं दुरन्तम् ।

येनाऽहमीदृक् कुदशां प्रणीतो जाने न किञ्चित् प्रतिकारमात्र

॥२६॥

अपायतां यान्ति कृता उपाया युष्मत्कृतोपायमुपायमीहे ।

निर्वैरतां यान्ति हि जातिवैरास्तवाश्रमे वां शरणं प्रपन्नः

॥२७॥

सूत उवाच

श्रुत्वेति वचनं तस्य भृगुस्तु करूणायुतः ।

उवाच सोमकान्तं तं ध्यानेनालोक्य सुव्रतः

॥२८॥

भृगुरुवाच

उपायं वच्मि नृपते न चिन्तां कर्तुमर्हसि ।

ममाश्रमगता दुःखं न हि विन्दन्ति जन्मिनः

॥२९॥

जन्मान्तरकृतं चैव दुरितं ते नृपोत्तम ।

येनेमाङ्गमितोऽवस्थां कथयिष्ये तदप्यहम्

॥३०॥

कुर्वन्तु भोजनं सर्वे चिरकालं बुभुक्षिताः ।

वनात् वनान्तरं याताः श्रान्ता क्लान्तानना भृशम्

॥३१॥

सूत उवाच

इत्युक्त्वा स्नापयामास सुतैलाभ्यङ्गपूर्वकम् ।

भोजयामास चान्नानि षड्रसानि त्वनेकशः

॥३२॥

बुभुजुस्तेऽपि विश्रान्ता भृगोरमिततेजसः ।

आज्ञया मुनिवर्यस्य सम्प्राप्ताः सुष्ठवलङ्कृताः

॥३३॥

सुषुपुर्मृदुशय्यायां हित्वा चिन्तां दुरत्ययाम् ।

मुनिना कल्पितायां ते स्वराज्यङ्गमिता इव

॥३४॥

इति श्रीगणेशपुराणे उपासनाखण्डे भृगोराश्रमगमनं नाम षष्ठोऽध्यायः ॥ ६ ॥