मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 27

3
उपासनाखण्डः · 27

रक्माङ्गदाभिषेक वर्णनं नाम सप्तविंशोऽध्यायः

व्यास उवाच

क उपायस्तु मुनिना विश्वामित्रेण धीमता ।

कृपावता तु भीमाय कथितस्तं वदस्व मे

॥१॥

मन्मनोमोहपटलं मृत्योरिव विनिःसृतम् ।

तत्कथामृतपानेन पितामह मृता यथा

॥२॥

ब्रह्मोवाच

भीमाय कथितस्तेन य उपायः श‍ृणुष्वतम् ।

एकाक्षर महामन्त्रं भीमाया कथयन्मुनिः

॥२॥

पाराशर्य मुनिश्रेष्ठ कथयामि श‍ृणुष्वतम् ।

उवाच तं प्रसन्नात्मा विश्वामित्रः सुधर्मवित्

॥३॥

विश्वामित्र उवाच

अनेनाराधय विभुं दैवतं गणनायकम् ।

अनुष्ठानं कुरुष्व त्वं प्रासादे दक्षनिर्मिते ।

विनायकः प्रसन्नस्ते सर्वान् कामान् प्रदास्यति

॥५॥

धर्ममर्थं तथा कामं मोक्षमन्यदपेक्षितम् ।

गच्छ वा स्वपुरं भीम चिन्तां कामपि मा कुरू

॥६॥

ब्रह्मोवाच

इत्युक्तः स तदा तेन तं प्रणम्य ययौ नृपः ।

सपत्नीको ददर्शाऽथ पत्तनं स्वं जहर्ष च

॥७॥

अमात्यौ सेनया सार्द्धं नागरैरीयतुर्नृपम् ।

आलिलिङ्गुर्नृपं केचिन्नेमुर्दूरात्तथाऽन्तिके

॥८॥

प्रविवेश पुरं राजा सर्वैः साकं ध्वजालिमत् ।

सिक्तमार्गं चारुगन्धं नानावादित्रशब्दितम्

॥९॥

ऊचुः परस्परं लोकाः पुरीयं शोभतेऽधुना ।

यथा नारी पतिं प्राप्य यथाऽन्धो वाऽपि सदृशम्

॥१०॥

इति श‍ृण्वन्नृयानस्थस्तथा सा चारुहासिनी ।

वस्त्रालङ्कारशोभाढ्यौ स्तूयमानौ मृदान्वितौ

॥११॥

उभौ विविशतू रम्यं पुरं नानर्द्धिसङ्कुलम् ।

विसृज्य सर्वलोकं तौ वस्त्रालङ्कारमौक्तिकैः

॥१२॥

ताम्बूलैस्तेषु यातेषु भवनं स्वमगच्छताम् ।

ततः शुभेदिने राजा दक्षप्रासादमागतम्

॥१३॥

यत्कौण्डिन्यपुरेऽकारि पुरा दक्षेण धीमता ।

तत्रार्चयामास विभुं सर्वदा तं विनायकम् ।

उपवासपरो नित्यं तन्मन्त्रमवलोडयन्

॥१४॥

भोजन शयने याने वचने श्वसनेऽपि च ।

तमेव चिन्तयन् नित्यमनन्यमनसा नृपः

॥१५॥

जले स्थले नभोमार्गे स्वर्गे देवे नरे द्रुमे ।

भक्ष्ये पेये नृपोऽपश्यद् विनायकमनुत्तमम्

॥१६॥

यं यं पश्यति तं नौति दृढालिङ्गनतत्परः ।

नगरे तं जनाः सर्वे पिशाच इति मेनिरे

॥१७॥

ततो विनायकोऽभ्येत्य धृत्वा पाणितले नृपम् ।

आह तं नृप मुक्तोऽसि किं वाञ्छसि वदस्व तत्

॥१८॥

तमुवाच नृपो नान्यं जाने त्वच्चरणाम्बुजात् ।

ततो विनायकः प्राह पुत्रस्ते चारुदर्शनः

॥१९॥

भविता मत्प्रसादेन गुणी स्वर्णतनुर्नृपः ।

व्रज स्वं भवनं देवद्विजपूजापरो भव

॥२०॥

स गत्वा भवनं राजा तच्चकार तथैव च ।

देवानां ब्राह्मणानां च पूजनं तर्पणं तथा

॥२१॥

अकरोत् सर्वभावेन गणेशः प्रीयतामिति ।

अल्पेनैव तु कालेन पुत्रस्तस्याऽभवच्छुभः

॥२२॥

ददौ दानान्यनेकानि पुत्रजन्मनिमित्ततः ।

रुक्माङ्गदेति नामाऽस्य चक्रे द्विजवरोदितम्

॥२३॥

ववृधे बालको नित्य शुक्लपक्षे यथा शशी ।

चकार गुरूसात् तं स शिक्षार्थं नृपतिः सुतम्

॥२४॥

स च श्रवणमात्रेण जग्राह गुरूणोदितम् ।

सर्वविद्यानिधानेन दत्तं यत्कपिलेन च

॥२५॥

सोऽपि विद्यानिधिरभूद गजकर्णं इवापरः ।

रूक्माङ्गदोऽति बलवान् सर्वशास्त्रविशारदः

॥२६॥

तस्मै पट्टाभिषेकं स चकार गुणराशये ।

ददौ च द्विजमुख्येभ्यो वासोरत्नधनानि च

॥२७॥

ततोऽधिकां महाभक्तिं सोऽपि चक्रे विनायके ।

जजापैकाक्षरं मन्त्रं पितुः प्राप्तं दिने दिने

॥२८॥

एकस्मिन्दिवसेऽरण्यं युवराजा विवेश ह ।

मृगयां व्यचरद्भूरि जघान गवयान् मृगान्

॥२९॥

अतिश्रान्तो ददर्शाऽथ मुनेः कस्यचिदाश्रमम् ।

नानावृक्षलताजालं त्यक्तवैरमृगान्वितम्

॥३०॥

इति श्रीगणेशपुराणे उपासनाखण्डे रक्माङ्गदाभिषेकवर्णनं नाम सप्तविंशोऽध्यायः ॥ २७ ॥