मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 65

3
उपासनाखण्डः · 65

पञ्चषष्टितमोऽध्यायः

कौडिन्य उवाच

कस्मिंश्चित्समये देवि सुखासिनं गजाननम् ।

नारदो मुनिरभ्यागाद् द्रष्टुं तं बहुवासरैः

॥१॥

साष्टाङ्गं प्रणिपत्यैनं प्राहनः सार्थकं जनुः ।

यत् पुण्यनिचयैर्जातं दर्शनं ते गजानन

॥२॥

इत्युक्त्वा स्वाञ्जलिं बध्वा तस्थौ तत् पुरतो मुनिः ।

धृत्वा करेण तत्पाणिमुपावेशयदासने

॥३॥

गजाननो महाभागो महाभागं महामुनिम् ।

नारदो भगवांस्तेन सन्तुष्टो मुनिपुङ्गवः

॥४॥

उवाच तं गणाधीशमाश्चर्यं हृदिमेस्तियत् ।

तन्निवेदितुमायातो नत्वा त्वां पुनराव्रजे

॥५॥

गजानन उवाच

किमाश्चर्यं त्वया दृष्टं हृदि किं तेऽभिवर्तते ।

वद सर्वं विशेषेण ततो व्रज निजाश्रमम्

॥६॥

नारद उवाच

मैथिले विषये देव जनको राजसत्तमः ।

अतिमानी वदान्यश्च वेदवेदाङ्गपारगः

॥७॥

अन्नदानरतो नित्यं ब्राह्मणान् पूजयत्यसौ ।

नानालङ्कारवासोभिर्दक्षिणाभिरनेकशः

॥८॥

दीनान्धकृपणेभ्यश्च बहु द्रव्यं ददात्यसौ ।

याचकैर्याच्यते यद् तत् तत् तेन प्रदीयते

॥९॥

तथापि न व्ययं याति द्रव्यं तस्य महात्मनः ।

गजाननस्य सन्तुष्ट्या द्रव्यं तद्वर्धते नु किम्

॥१०॥

इत्याश्चर्यं महद्रष्टुं प्रयातस्तद्गृहानहम् ।

ब्रह्मज्ञानाभिमानेन उपहासं ममाऽकरोत्

॥११॥

अहं च तमुवाचेत्थं धन्योऽसि नृपसत्तम ।

चिन्तितं तेऽपि भक्त्याऽयं प्रयच्छति गजाननः

॥१२॥

स तु गर्वादुवाचेत्थमहमीशो जगत्त्रये ।

अहं दाता च भोक्ता च पाता दापयिता तथा

॥१३॥

मत्स्वरूपं विना नान्यद् विद्यते भुवनत्रये ।

कर्ता च कारणं चाहं करणं मुनिसत्तम

॥१४॥

नारद उवाच

इति तद्वचनं श्रुत्वा क्रोधेनाहं जगाद तम् ।

ईश्वराज्जगतः कर्ता नान्यः कश्चन विद्यते

॥१५॥

त्वं तु धर्ममिमं राजन् दम्भेनैव करोषि किम ।

दर्शयिष्ये साक्ष्यमस्य स्वल्पकालेन तेऽनघ

॥१६॥

इत्युक्त्वा तमहं यातस्त्वदन्तिकमिभानन ।

कौण्डिन्य उवाच ।

आकर्ण्येत्थं मुनेर्वाक्यं पूजयामास तं विभुः

॥१७॥

अर्घ्यादिभिरलङ्कारैर्दिव्यैःपुष्पैः सचन्दनैः ।

मुनिराज्ञां प्रगृह्यैव वैकुण्ठं विष्णुमभ्यगात्

॥१८॥

गजाननोऽपि मिथिलां राजभक्तिं परीक्षितुम् ।

कुत्सितं वेषमादाय सर्वज्ञोऽपि समाययौ

॥१९॥

अनेकक्षतसंयुक्तं स्त्रवद्रक्तममङ्गलम् ।

मक्षिकानिचयाक्रान्तं रदहीनमिवातुरम्

॥२०॥

गच्छन्तं तादृशं दृष्ट्वा नरा नासानिरोधनम् ।

कुर्वन्ति वाससा केचित् ष्ठीवनं च यथातथा

॥२१॥

स्खलन् मूर्छन् पतन् गच्छन्नर्भकावलिसंयुतः ।

नृपद्वारं समागम्य द्वारपालानुवाच सः

॥२२॥

राज्ञे निवेद्यतां दूता अतिथि मां समागतम् ।

ब्राह्मणं क्षुधितं वृद्धमिच्छाभोजनकाङ्क्षिणम्

॥२३॥

ते तद्वाक्यं तथाचख्युर्गत्वा तं जनकं नृपम् ।

आनीयतामिति प्राह दूता द्रष्टुं तु कौतुकम्

॥२४॥

ते दूता प्रापयामासुः कुचैल मलिनं नृपम् ।

ददर्श दूराज्जनको कम्पन्तं मक्षिकावृतम्

॥२५॥

असृक्स्त्रवन्तं वृद्धं तं ब्राह्मणं श्रमवारिणम् ।

तर्कयामास जनक ईश्वरो रूप धृक् नु किम्

॥२६॥

छलितुं मां समायातो यदि पुण्यं भवेन्मम ।

समाधास्ये मनो ह्यस्य भविष्यं नान्यथा भवेत्

॥२७॥

इत्येवं चिन्तयत्येव जनके नृपसत्तमे ।

प्रवेशितो द्वारपालैर्ब्राह्मणः पर्यदृश्यत

॥२८॥

ब्राह्मण उवाच

चन्द्रांशुधवलां कीर्तिं श्रुत्वा तेऽहं समागतः ।

देहि मे भोजनं राजन् क्षुधितस्य चिराद् भृशम्

॥२९॥

मम तृप्तिर्भवेद् यावत् तावदन्नं प्रदीयताम् ।

तव क्रतुशतं पुण्यं भविष्यति नरेश्वर

॥३०॥

कौण्डिन्य उवाच

इति वाचं निशम्यासौ गृहमध्ये निनाय तम् ।

सम्पूज्य विधिवच्चैनं स्वादवन्नमुपवेषयत्

॥३१॥

एकग्रासेन सर्वं स जग्रास द्विजसत्तमः ।

अयाचदन्नमन्यत् स नृपोऽदात् पर्वतोपमम्

॥३२॥

तदप्येकेन जग्रास कवलेन द्विजोत्तमः ।

यावदन्नं स्थितं सिद्धं पर्याप्तमयुतस्य यत्

॥३३॥

तद्दत्तं पुरतस्तस्य बभक्ष तत्क्षणेन सः ।

असङ्ख्यातेषु पात्रेषु पक्तुं क्षिप्ताः सुतण्डुलाः

॥३४॥

दीयते पुरतस्तस्य यः सिद्धश्चोदनोऽभवत् ।

स भक्षयति सर्वं तं तत ऊचे जनो नृपम्

॥३५॥

राक्षसोऽयं भवेत्प्रायः किमर्थं दीयते बहु ।

राक्षसेभ्यः प्रदानेन न किञ्चित् पुण्यमाप्यते

॥३६॥

केचिदूचुस्त्रिभुवने भक्षितेऽप्यस्य नो भवेत् ।

तृप्तिः परमिका राजन् धान्यमस्मै प्रदीयताम्

॥३७॥

ततो धान्यानि सर्वाणि गृहे भूमौ स्थितानि च ।

आनीय चिक्षिपुस्तस्य पुरग्रामगतानि च

॥३८॥

पुंसोऽस्य द्विजरूपस्य सर्वभक्षस्य चाति थेः ।

न तृप्तिमगमत्सोऽथ भक्षितेषु च तेषु च

॥३९॥

ततो दूता नृपं प्रोचुर्धान्यं क्वापि न लभ्यते ।

इति दूतवचः श्रुत्वा जनकेऽधोमुखे स्थिते

॥४०॥

स्वस्तीत्युक्त्वाऽगमद् विप्रो न तृप्तोऽसौ गृहं गृहम् ।

दीयतामन्नमित्याह ते जनास्तं जगुस्तदा

॥४१॥

सर्वेषां गृहगं धान्यं सर्वं राज्ञा समाहृतम् ।

जग्धं त्वयाऽखिलं ब्रह्मन् गम्यतां यत्र ते रुचिः

॥४२॥

द्विज उवाच

कीर्तिरस्य श्रुता लोकान् न दाता जनकात्परः ।

तृप्तिकामः समायातो ह्यतृप्तोऽहं कथं व्रजे

॥४३॥

तूष्णीं भूतेषु लोकेषु बभ्रमन् स ददर्श ह ।

विरोचनात्रिशिरसोर्मन्दिरं द्विजयोर्वरम्

॥४४॥

तन्मध्यं प्राविशत् सोऽपि गृहस्वामीव सत्तया ।

सर्वोपस्काररहितं धातुपात्र विवर्जितम्

॥४५॥

इति श्रीगणेशपुराणे उपासनाखण्डे पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥