प्रायोपवेशनं नामाष्टाविंशतितमोऽध्यायः
ब्रह्मोवाच
ततो रूक्माङ्गदोऽपश्यदृषिं वाचक्नविं शुभम् ।
मुकुन्दां तस्य पत्नीं च स्निग्धमञ्जुलभाषिणीम्
॥१॥अतिश्रान्तो नरपतिर्नमश्चक्र उभावपि ।
तस्मिन्मुनौ गते स्नातुं ययाचे नृपसत्तमः
॥२॥मातुर्मुकुन्दे मे देहि शीतलं जलमुत्तमम् ।
विना जलं मम प्राणा गमिष्यन्ति यमक्षयम्
॥३॥आकर्ण्य तस्य वाचं सा जगाद मदनातुरा ।
त्वादृशं पुरुषं क्वापि मारादप्यतिसुन्दरम्
॥४॥न देवेषु न नागेषु यक्षगन्धर्वपुञ्जयोः ।
पश्यामि चारू सर्वाङ्गमतो मे हृदयं त्वयि
॥५॥अत्यासक्तं त्वदधरामृतपाने च देहि तत् ।
मुनिरूवाच ।
व्यलीकं स तु श्रुत्वैव श्रान्तत्वाद्भृशदुःखित
॥६॥तिलोत्तमोत्तमा तां स जितेन्द्रियतया जगौ ।
त्यज प्रौढिं न मे चित्तं पारदार्ये विगर्हिते
॥७॥विनायक प्रभावेण सक्तं नैवात्र कर्हिचित् ।
न जलं पातुमिच्छामि त्वया दत्तं सुदुष्टया
॥८॥ऋषेराश्रम इत्येवं यातो यास्य इतो शुभे ।
तं गन्तुमुद्यतं पाणिं धृत्वाऽवीवददातुरा
॥९॥मुकुन्दोवाच
बलात्कारेण योऽन्यस्य स्त्रियं धर्षितुमिच्छति ।
स एव नरकं याति न स्वयं याति तामपि
॥१०॥कृते त्रेतायुगे ब्रह्मा स्त्रीणां स्वातन्त्र्यमभ्यधात् ।
न करोषि यदा वाक्यं तदा भस्म भविष्यसि
॥११॥अथवा राज्यविभ्रष्टं करिष्ये वनचारिणम् ।
मनिरूवाच ।
इत्युक्त्वा धावमाना सा काममार्गेणपीडिता
॥१२॥रभसाऽऽलिङ्गयामास चुचुम्बे वदनं हठात् ।
ततो रूक्माङ्गदस्तां तु बलाच्चिक्षेप दूरतः
॥१३॥मूर्छिता पतिता भूमौ रम्भेव मरूता हता ।
उत्थितां तां तदा प्राह परदारविरक्तधीः
॥१४॥रूक्माङ्गदो महाभागे मुनिपत्न्यविवेकिनि ।
परपुंसि मनो यस्याः सा वै निरयभाग्भवेत्
॥१५॥न मे मनश्चलेत् क्वापि यदि शुष्येन् महोदधिः ।
एवं निराकृता तेन तं शशाप रुषान्विता
॥१६॥ययाऽहं कष्टमगमं तथा त्वं कुष्ठभाग् भव ।
यतस्ते हृदयं वज्रात् सारभूतं न च द्रुतम्
॥१७॥इत्थं वदन्ती तां राजा निर्भर्त्स्य बहुधा ततः ।
त्वरया निर्गतस्तस्मादाश्रमाद् भृशदुःखितः
॥१८॥स्वं ददर्श शरीरं स श्वेतं बकशरीरवत् ।
कुष्ठरोगयुतं कान्त्या हीनं च भृशकुत्सितम्
॥१९॥चिन्तार्णवे तदा मग्न इदमाह गजाननम् ।
अपराद्धं मया किं ते कथमत्रागतोऽप्यहम्
॥२०॥प्राप्तः कथं नु दुष्टाया मुनिपत्न्याः समागमम् ।
त्वया नूनं सिद्धिपते दुष्टाः संवर्धिता भृशम्
॥२१॥अवतारांश्च साधूनां रक्षणाय बिभर्षि हि ।
इयं न नाशिता दुष्टा स्वैरिणी रूपगर्विता
॥२२॥कथं मम शरीरं तत् काञ्चनस्पर्द्धि सुन्दरम् ।
इवामवस्था सम्प्राप्तः केन वा दुष्टकर्मणा
॥२३॥तव भक्तिं यथा पूर्वं सदा कुर्वे यथाविधि ।
त्वदन्यं नैव शरणं यामि नाथ गजानन
॥२४॥नेदं शरीरं वक्त्रं वा दर्शयिष्ये जनं प्रति ।
प्रायोपवेशनेनेदं शोषयिष्ये कलेवरम्
॥२५॥निश्चित्यैवं नरपतिरास न्यग्रोधसन्निधौ ।
भृत्या इतस्ततोऽधावन्नेक्षन्ते स्म च तं नृपम्
॥२६॥प्रवृत्तायां निशायां च जग्मुः स्वं स्वं निकेतनम् ।
स्वामि सेवकयोर्जाता गतिश्चक्राह्वयोरिव
॥२७॥इति श्रीगणेशपुराणे उपासनाखण्डे प्रायोपवेशनं नामाष्टाविंशतितमोऽध्यायः ॥ २८ ॥