वरदाख्यानं नाम सप्तत्रिंशत्तमोऽध्यायः
ब्रह्मोवाचः ।
भ्रमन्मुनिर्ददर्शाग्रे वनं पुष्पकसंज्ञितम् ।
नानाद्रुमलताकीर्णं पुष्पप्रकारशोभितम्
॥१॥शोभितं निर्झरजलैर्निर्जरैर्मुनिसत्तमैः ।
ननाम तान् गृत्समदो न्यवसच्च तदाज्ञया
॥२॥तत्र स्नात्वा जपं चक्रे पादाङ्गुष्ठाग्रनिर्भरः(धिष्ठितः) ।
स्थिरेण मनसा ध्यायन्देवं विघ्नेश्वरं विभुम्
॥३॥नासाग्रन्यस्तदृष्टिः सन्निरीक्षन् स दिशोदिश ।
जितेन्द्रियो जितश्वासो जितात्मा मारुताशनः
॥४॥दिव्यवर्षसहस्रं स तपस्तेपे सुदारुणम् ।
उन्मील्य नयनेऽपश्यद् यदा गृत्समदो मुनिः
॥५॥तदा नेत्रोद्धवो वह्नीस्त्रिदशान् पर्यतापयत् ।
शशङ्किरे तदा देवाः कस्यायं पदभाग् भवेत्
॥६॥अपरं गलितं पत्रं भक्षयन्नेकमेव च ।
यत्नमास्थाय परमं स्थाणुभुतोऽतिनिश्चलः
॥७॥दशपञ्चसहस्राणि तेपे निश्चलमानसः ।
ततोविनायको दृष्ट्वा तपनं तस्य दुर्घटम्
॥८॥अनुग्रहाय तस्याऽथ प्रादुरासीत् सुदीप्तिमान् ।
यथा धेनुर्वत्सरवं श्रुत्वा धावति सत्वरम्
॥९॥तथा विनायको देवः शीघ्र गृत्समदं ययौ ।
भासयँस्तेजसा विश्वं सहस्ररविसन्निभः
॥१०॥चलत्कर्णतालो बृहद्दन्तिलीलो मुदा चारूखेलो लसच्चन्द्रभालः ।
बृहत्पद्ममालो जगत्कार्यमूलः करकञ्जनालो नमत्सेविमेलः
॥११॥सिंहारूढो दशभुजो व्यालयज्ञोपवीतवान् ।
कुङ्कुमागरुकस्तूरीचारूचन्दनचर्चितः
॥१२॥सिद्धिबुद्धि युतः श्रीमान् कोटिसूर्याधिकद्युतिः ।
अनिर्वाच्यस्वरुपोऽपि लिलयाऽऽसीत्पुरो मुने
॥१३॥तत्तेजसा हृतं तेजा मुनेस्तस्य महात्मनः ।
ब्रध्नस्य तेजसा यद्वन् नाक्षत्रं चान्द्रजं महः
॥१४॥निमील्य नयने सोऽथ चकम्पे भृशविव्हलः ।
पपात मूर्छितो भूमौ विस्मृत ध्यानमङ्गलः
॥१५॥पुनश्च मनसा ध्यायन् गजाननमनामयम् ।
मनसा तर्कयन् विघ्ननिमित्तं व्याकुलो मुनिः
॥१६॥किमेतत् क्षोभजननं सहसा समुपस्थितम् ।
अद्य प्रभृति यत् तप्तं तत्कथं मे वृथा गतम्
॥१७॥पाहि देवेश सर्वात्मन् विघ्नादस्माद् भयानकात् ।
त्वामृते शरणं यामि कमन्यं जगदीश्वरम्
॥१८॥महद्दुःखं मया देव प्राप्त केन च हेतुना ।
नास्मत्पङ्क्तौ पूजनीय इति यद् दहते मनः
॥१९॥ब्रह्मोवाच
इति तद्वचनं श्रुत्वा जगाद स विनायकः ।
गणेश उवाच ।
अनुग्रहाय सम्प्राप्तं विद्धि मां गणनायकम्
॥२०॥सनकादिभिरप्राप्यं चिरं नियममास्थितैः ।
त्यक्त्वा भयं ब्रूहि यत् ते वाञ्छितं मुनिसत्तम
॥२१॥एकाङ्गुष्ठेन तपसा तोषितोऽहं त्वयाऽनिशम् ।
ब्रह्मोवाच ।
निशम्येत्थं वचस्तस्य देवदेवस्य शोभनम्
॥२२॥दण्डवत् प्रणनामैनं निजानन्दपरिप्लुतः ।
उवाच परमप्रीतो वरदं तं विनायकम्
॥२३॥गृत्समद उवाच
अद्य मे सफलं जन्म तपसो नियमस्य च ।
अखण्डानन्दरूपो यो ब्रह्मभूयो निराकृतिः
॥२४॥मुञ्चन्नश्रूणि नेत्राभ्यामानन्देन ननर्त च ।
चिदानन्दघनो वेद शास्त्राणामप्यगोचरः
॥२५॥सद्यो दृष्टो मया साक्षादतः किं प्रार्थये विभो ।
तवाज्ञया तथाऽप्येकं प्रार्थये द्विरदानन
॥२६॥चतुरशीतिलक्षासु योनिषु श्रेष्ठतासु च ।
मनुष्याणां महाभाग वर्णास्तत्र महत्तराः
॥२७॥तत्रापि ब्राह्मणाः श्रेष्ठास्तत्रापि ज्ञानिनः पराः ।
ज्ञानिष्वनुष्ठानपरास्तेषु च ब्रह्मवेदिनः
॥२८॥ब्रह्मज्ञानं तथा ज्ञानं दे हि मे जगदीश्वर ।
त्वयि भक्तिञ्च सुदृढामविस्मरणमेव च
॥२९॥तव भक्तेषु सर्वेषु श्रेष्ठतां च गजानन ।
अन्यं चैकं वरं याचे तं च मे देहि शङ्कर
॥३०॥तव भक्त्यैकनिलयं त्रैलोक्याकर्षणक्षमम् ।
विख्यातं त्रिषु लोकेषु नमस्यं सुरमानुषैः
॥३१॥एवं मां करू विघ्नेश यदि तुष्टोऽखिलार्थकृत् ।
वनं च पुष्पकं नाम्ना ख्याति यातु सुरेश्वर
॥३२॥अस्मिन् स्थित्वा च भक्तानां कामान्पूरय नित्यदा ।
इदं च पुष्पकपुरं चतुर्दिक्षु विशेषतः
॥३३॥गणेशपुरमित्येवं प्रथां यातु गजानन ।
ब्रह्मोवाच ।
इति तद्वचनं श्रुत्वा जगाद द्विरदाननः
॥३४॥गणेश उवाच
साधु साधु महाबाहो प्रसन्ने मयि दुर्लभम् ।
भक्तानां त्रिषु लोकेषु न किञ्चिन् मुनिपुङ्गव
॥३६॥त्वया यत्प्रार्थितं विप्र तत्ते सर्वं भविष्यति ।
विप्रत्वं दुर्लभतरं प्रसन्नेन मयाऽर्पितम्
॥३६॥गणानान्त्वेति मन्त्रस्य वैदिकस्य यतस्त्वया ।
जपः कृतो मुनेऽतस्त्वमृषिरस्य भविष्यसि
॥३७॥ब्रह्मादिषु च देवेषु वसिष्ठादि मुनिष्वपि ।
ख्यातिं यास्यसि सर्वत्र परं श्रैष्ठयमुपागतः
॥३८॥सर्वेष्वारब्धकार्येषु पूर्वं ते मम चापरम् ।
स्मरणं ये करिष्यन्ति तेषां सिद्धिर्भविष्यति
॥३९॥ऋते ज्ञानाद् देवतर्षिच्छन्दसां कर्म निष्फलम् ।
पुत्रश्च बलवान सर्वदेवानां सुभयङ्करः
॥४०॥भविष्यति महाख्याति त्रिषु लोकेषु यास्यति ।
अजेयः सर्वदेवानां विना रुद्रं भविष्यति
॥४१॥मद्भतो मद्गतप्राणो मन्निष्ठो मत्परायणः ।
इदं च नगरं देव युगे पुष्पकसंज्ञितम्
॥४२॥त्रेतायां मणिपूरं च भानकं द्वापरेऽपि च ।
कलौ तु भद्रकं नाम ख्यातं लोके भविष्यति
॥४३॥अत्र स्नानेन दानेन सर्वान् कामानवाप्नुयात् ।
ब्रह्मोवाच ।
एवं दत्वा वरांस्तस्मै तत्रैवाऽन्तर्दधे विभुः
॥४४॥तस्मिन्नन्तर्हिते तत्र स्थापयामास वै मुनिः ।
गणेशमूर्तिं प्रासादं कारयामास सुन्दरम्
॥४५॥वरदेति च तन्नाम स्थापयामास शाश्वतम् ।
सिद्धिस्थानं च तत्रासीद्गणेशस्य प्रसादतः
॥४६॥कामान्पुष्णाणि सर्वेषां पुष्पकं क्षेत्रमित्यपि ।
पूजयामास तां मूर्ति भक्तिभाव समन्वितः
॥४७॥इमां कथां यः शृणुयान् मुनीन्द्र श्रीविघ्नराजस्य वरप्रकाशम् ।
लभेत कामानखिलान् गणेशभक्तिं दृढा संसृतिमोचनीं च
॥४८॥इति श्रीगणेशपुराणे उपासनाखण्डे वरदाख्यानं नाम सप्तत्रिंशत्तमोऽध्यायः ॥ ३७ ॥