शिवपार्वती संयोगोनाम पञ्चपञ्चाशत्तमोऽध्यायः
हिमवानुवाच
समाप्ते तु व्रते तस्या गणेशस्य प्रसादतः ।
पाताले नागकन्यानामन्यथाऽभून्मतिस्तदा
॥१॥मोचयामास राजानं पुपूजश्च यथाविधि ।
वस्त्रैराभरणैश्चैव नानारत्नमहाधनैः
॥२॥अश्वं मनोजवं दत्त्वा विससर्जुर्नृपं तदा ।
कासाराद्बहिरागत्य बध्वा चाश्वं महाद्रुमे
॥३॥स्नाति यावन्नागरिकैः दृष्टः कतिपयैर्नृपः ।
अपरे प्रणिपत्यैनं पप्रच्छुः को भवानिति
॥४॥कुत्रत्यः कुत आयातः किं नामा वद नः प्रभो ।
इति तेषां वचः श्रुत्वा पप्रच्छ नृपसत्तमः
॥५॥इन्दुमत्याः कुमारस्य कुशलं खेदसंयुतः ।
ततो बुबुधिरे ते तमालिलिङ्गुर्मुदा जनाः
॥६॥ऊचुश्च नृप ते भार्या स्नात्वेदानीं गता गृहम् ।
उपवासव्रतवती कृशा धमनिसंयुता
॥७॥कुमारे जीवमास्थाय जीवमात्रावशेषिता ।
केचिच्च नगरं गत्वा शुभां वार्तामघोषयन्
॥८॥अत्याप्तजनवाक्येन श्रुत्वा सा नृपमागतम् ।
आनन्दाब्धौ निमग्नाऽभूद् ब्रह्मज्ञानीव योगवित्
॥९॥ततोऽमात्यान्पुरस्कृत्य सैन्यान्यप्रेषयच्च तम् ।
चित्रध्वजपताकाभिरशोभयत सा पुरम्
॥१०॥वीथीरासिञ्चयामास सभाः सम्पाद्य यत्नतः ।
स्वात्मानं भूषयामास वासोऽलङ्कार भूषणैः
॥११॥गोभूहिरण्यदानाद्यैस्तोषयित्वा द्विजान् बहून ।
आरार्तिक्यं करे दत्वा पतिवत्स्त्रीजनस्य सा
॥१२॥गीतवादित्रघोषेण पुरात्सर उपागमत् ।
अमात्यास्तु पुरो गत्वा प्रणम्य नृपपुङ्गवम्
॥१३॥आलिलिङ्गुर्मुदा सर्वे प्रणेमुश्च यथाक्रमम् ।
उपविष्टे तु नृपतावुपविष्टास्तदाज्ञया
॥१४॥सर्वान् कुशलप्रश्नाद्यैस्तोषयित्वा यथाक्रमम् ।
मानयित्वा तथा लोकान्दत्वा ताम्बूलवाससी
॥१५॥स्वयं जगाम शिबिरमिन्दुमत्या नृपोत्तमः ।
कारयामास स विधिं द्वादशाब्ददृशैर्द्विजैः
॥१६॥पुण्याहवाचनं कृत्वा गणेशार्चनपूर्वकम् ।
सम्पूज्य शङ्करं सम्यग्द्विजांश्च दक्षिणादिभिः
॥१७॥बभञ्ज श्रीफलं त्यक्त्वा ततस्तत्पुरतो ययौ ।
ददर्श तत्रेन्दुमतीमिन्दोः शेषां कलामिव
॥१८॥नीराजयित्वा राजानं युवतीभिः सभर्तृभिः ।
लाजपुष्पमयीं वृष्टिं ताभिःसाऽकारयत् तदा
॥१९॥प्रमृज्य नयने सम्यगानन्दाश्रुपरिप्लुते ।
हर्षशोकान्वितौ तौ तु परस्परमथोचतुः
॥२०॥परस्पर वियोगाधिं कथयामासतुः शुचा ।
अनिवार्यप्रकृतिभिः सान्त्वितौ बहुलोक्तिभिः
॥२१॥आनयित्वा तु राजानं समारोह्य महागजे ।
नानालङ्कारसंयुक्ते पताकाच्छत्रसंयुते
॥२२॥पादचारैः परिवृते चतुर्घण्टाविराजिते ।
शतं यष्टिधरास्तस्य वारयन्तो ययुः पुरः
॥२३॥अग्निशस्त्रधराश्चाश्वरथारोहा अनेकशः ।
सव्यदक्षिणतो राज्ञो गजलक्षं ययुर्लघु
॥२४॥नटा नृत्याङ्गना वाद्यवादका बन्दिनः पुरः ।
ततः पश्चाद्गजानीकाः पुरं विविशुरादरात्
॥२५॥सैन्येन रजसा व्याप्ते दिननाथे हतप्रभे ।
अलङ्कृते पुरे तस्मिन्न प्राज्ञायत किञ्चन
॥२६॥ततः परस्परं नत्वा जग्मुः स्वं स्वं निवेशनम् ।
मुख्या राजगृहं नीताः पुना राज्ञा प्रपूजिताः
॥२७॥वस्त्रताम्बूलदानेन तेनाज्ञाता गृहं ययुः ।
राजाऽथ ब्राह्मणान्भोज्य बुभुजे ज्ञातिभिः सह
॥२८॥ततो रात्रौ सुषुपतुः पर्यङ्के चारुनिर्मिते ।
परार्ध्यास्तरणोपेते परिच्छदुपधान्विते
॥२९॥ऊचतुः स्व स्व दुःखं तौ शोचन्तौ च पुनः पुनः ।
पुरोधसा सान्त्वितौ तौ शयाते स्म सुखं ततः
॥३०॥श्रुत्वा विनायकव्रतमहिमानं नृपोत्तमः ।
पत्न्त्याऽनुभूतं सकलं स्वयं कर्तुं मनो दधे
॥३१॥आगते श्रावणे मासि राजा चन्द्राङ्गदस्तदा ।
महोत्सवेन कृतवान व्रतमेतच्छुभानने
॥३२॥ऋषिरुवाच
एवं पितृवचः श्रुत्वा पार्वती भृशहर्षितः ।
नभोमासं समासाद्य चकार व्रतमादरात्
॥३३॥यथोक्तविधिना मूर्तिं कृत्वा पूजां च यत्नतः ।
भक्षयन्ती पयोमात्रं ध्यायन्ती द्विरदाननम्
॥३४॥ततश्चञ्चलतां यातं शङ्करस्यापि मानसम् ।
आससादाश्रमं तस्याः पार्वत्याः शूलभृत् स्वयम्
॥३५॥गणेशस्य चतुर्थ्यां तु सम्पूर्णं तद्व्रते शुभे ।
पश्यति स्म हरं देवी वृषारुढं निजाश्रमे
॥३६॥उत्थाय प्रणनामास्य पादाम्बुज युगं मुदा ।
पूजयामास विधिवच्छङ्करं लोकशङ्करम्
॥३७॥उवाच च महादेवं पार्वती प्रेमविव्हला ।
देव्युवाच ।
कथं मां त्यज्य गतवान् किं मां विस्मृतवानसि
॥३८॥त्वद्वियोगान्निमेषोऽपि कल्पकल्पोऽभवद्विभो ।
गणेशस्य व्रतमिदं पित्राऽऽदिष्टं कृतं मया
॥३९॥वरदस्य प्रसादेन सम्प्राप्तं दर्शनं तव
॥४०॥ब्रह्मोवाच
एतस्मिन्नेव काले तु हिमवानुपजग्मिवान् ।
सत्याः करं करे तस्य न्यवेदयत सादरम्
॥४१॥ततो देवाः सगन्धर्वा द्विरदाननमादरात् ।
पूजयामासुरथ तौ शिवौ शिवकरौ सताम्
॥४२॥देव दुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह ।
सर्वे गजाननं नत्वा स्तुत्वा च विविधैः स्तवैः
॥४३॥जयशब्दैः शङ्करोऽपि तुष्टाव द्विरदाननम् ।
अर्धाङ्गे पार्वतीं कृत्वा वृषमारुह्य सत्वरः
॥४४॥ययौं कैलास शिखरं सर्वे स्वं स्वं पदं ययुः
॥४५॥ब्रह्मोवाच
इति ते कथितं सर्व व्यास पृष्टं त्वया तु यत् ।
महात्म्यं गणनाथस्य व्रतस्य च महामुने
॥४६॥इदानीं पुनरत्यञ्च कथयामि कथानकम् ।
यच्छ्रुत्वा सर्वपापेभ्यो मुक्तः कामाँल्लभेनर
॥४७॥इति श्रीगणेशपुराणे उपासनाखण्डे शिवपार्वतीसंयोगोनाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥