चन्द्राङ्गदोपाख्याने त्रिपञ्चाशत्तमोऽध्यायः
हिमवानुवाच
इदानीं कथयिष्यामि राज्ञा चन्द्राङ्गदेन च ।
तत्त्पत्न्या च कृतं ह्येतदिन्दुमत्या शुभानने
॥१॥मालवे विषये ख्यातं नगरं कर्णनामकम् ।
तत्र चन्द्राङ्गदो राजा बभूवातिपराक्रमी
॥२॥अणिमादिगुणापेतः सर्वशास्त्रार्थतत्त्ववित् ।
यज्वा दानी महाज्ञानी वेदवेदाङ्ग पारगः
॥३॥अतिक्रान्ता सभा यस्य सुधर्मामतिमानुषीम् ।
मुष्णाति चक्षुषस्तेजो रविकान्तमरीचिभिः
॥४॥अतिस्वच्छानि वासांसि रत्नस्तम्भाश्रयात्सुते ।
नीललोहितपीतत्वाच्चित्रतां यान्ति कानिचित्
॥५॥अतिसाध्वी महाभागा पतिशुश्रूषणेरता ।
धर्मशीला व्रतपरा श्वश्रूश्वशुरसेविनी
॥६॥गृहकृत्येषु चाव्यग्रा देवतातिथिपूजिका ।
नाम्ना चेन्दुमति ख्याता सर्वावयवसुन्दरा ।
धर्मशीलोऽपि नृपतिरमात्यैः प्रार्थितो भृशम् ।
जीवहिंसा महाघोरां पापर्द्धिं परिवर्जय
॥७॥कदाचिद्दैवयोगेन मृगयां क्रीडितुं ययौ ।
तरक्षुरुरुवाराहमृगपक्षियुतं वनम्
॥८॥नीलकञ्चुकसंवीतो नीलोष्णीषोत्तरच्छदः ।
बद्धगोधाङ्गुलित्राणः शस्त्रिकाखड्गखेटवान्
॥९॥जवेनाश्वसमारुढो शरचापकरो बली ।
तादृशैर्वीरनिकरैरमात्यैः सेवकैर्वृतः
॥१०॥निघ्नन् मृगान् वराहांश्च प्रेषयन्नगरं प्रति ।
भ्रममाणो वने राजा दृष्टो राक्षसपुङ्गवैः
॥११॥चकम्पे राक्षसान् दृष्ट्वा शीतज्वरयुतो यथा ।
दरीमुखान् गर्तनेत्रान् व्यादितास्यान् नभस्पृशः
॥१२॥दृष्टवा तान् विद्रुताः सर्वे वीराः सेविजना आपि ।
केचिद् यमक्षयं याता मूर्छिताः केऽपि भूगताः
॥१३॥तत्रैका राक्षसी क्रूरा दृष्ट्वा कामातिसुन्दरम् ।
तं नृपं परिरभ्यैव चुचुम्बे काममोहिता
॥१४॥तस्यामात्यान् भगे कृत्वा भक्षयामास सेवकान् ।
एतस्मिन्नन्तरे राजा पलायनपरो ययौ
॥१५॥कासारमध्ये मग्नोऽभून्नाद्राक्षीद् राक्षसी च तम् ।
स धृतो नागकन्याभिर्नीतः पातालमन्दिरम्
॥१६॥भूषितो नागकन्याभिर्वस्त्रालङ्कारभूषणैः ।
पप्रच्छुर्नागकन्यास्तं कुत आगमनं तव
॥१७॥कोऽसि कस्यासि किं नाम वद सत्यं नरोत्तम ।
इति तद्वचनं श्रुत्वा तां जगाद नराधिपः
॥१८॥अहं चन्द्राङ्गदो नाम हेमाङ्गदसुतो बली ।
मालवे विषये कर्णनगरे वसतिर्मम
॥१९॥राक्षसीभयवित्रस्तः प्रविष्टः सलिलं महत् ।
भवतीभिरिहानीतो यत्पृष्टं तन्निवेदितम्
॥२०॥भक्षिताः सर्वलोका मे मृगयाभिरतस्य ह ।
सरोजलप्रसादेन जीवंस्तिष्ठामि साम्प्रतम्
॥२१॥इति ता वचनं श्रुत्वा पुनरूचुर्नृपं तदा
॥२२॥ताऊचुः
भवास्माकं पतिरिह सर्वंसेत्स्यति ते प्रियम् ।
अस्माकं नागकन्यानां भोगश्चातीव दुर्लभः
॥२३॥तासामिति वचः श्रुत्वा प्रोवाच नृपसत्तमः ।
एकपत्नीव्रतं मेऽस्ति मातरस्तत्कथं त्यजे
॥२४॥सोमवंशप्रसूतानां राज्ञां धर्मान् ब्रवीमि वः ।
परद्रव्यं परद्रोहं परदारांस्तथैव च
॥२५॥परनिन्दां च नेच्छन्ति नृपाः सौम्याश्च साधवः ।
अधीतिर्यजनं दानं शरणागतपालनम्
॥२६॥निषिद्धाचरणं नैव विध्यर्थप्रतिपालनम् ।
एते धर्मास्त्रिवर्णानां याजनादि त्रयं द्विजे
॥२७॥अधिकं सर्ववर्णानामातिथ्यं परमं मतम् ।
इति श्रुत्वा नृपवचोऽखिला नागकुमारिकाः
॥२८॥प्रशेपुस्तं वियुक्तस्त्वं बहुधा स्वस्त्रिया भव ।
बबन्धुर्निगडैस्तं ता दुःखिताः कामविव्हलाः
॥२९॥राक्षसी तु जलं प्राश्य तदर्थे तत्सरोगतम् ।
भक्षयित्वा जलचरान् नातृप्यत्परमं तदा
॥३०॥इमं वृत्तान्तमशृणोद् राज्ञी राजीव लोचना ।
पर्यङ्कस्था स्वदूतात् सा राक्षसीतोऽवशेषितात्
॥३१॥मग्नं निशम्य नृपतिं दुःखिता पतिता भुवि ।
मूर्छामवाप महतीं सखीभिः परिवीजिता
॥३२॥सिक्ता शीतलतोयेन रुदन्तीभिर्मुहुर्मुहुः ।
उपविष्टा प्ररुदती घ्नति वक्षः शिरो मुखम्
॥३३॥शुशोच परमालापैर्भर्तः कान्तेति जल्पती ।
क्व गतः प्राणनाथो मे हित्वा मां प्रियवादिनीम्
॥३४॥सर्वावयवसम्पूर्णां प्रणतां प्रियकारिणीम् ।
भर्तृकार्यरतां नित्यं नित्यं चातिथिपूजिकाम्
॥३५॥कुत्र भोक्ष्यति मे नाथो निद्रां वा कुत्र यास्यति ।
काचनं शयनं हित्वा परार्घ्यास्तरणैर्वृतम्
॥३६॥कथं स्नास्यति कान्तो मे हित्वा तैलं सुगन्धितकम् ।
लोकानां पालनं कोऽद्य विना तेन करिष्यति
॥३७॥प्रजानां सर्वलोकानां बाणानां रञ्जनं च कः ।
अस्तं यातो गुणनिधिः प्रतापनिधिरद्य किम्
॥३८॥दिशः शून्याः प्रपश्यामि विना तेन महात्मना ।
क्वाहं सुखं प्रपश्यामि क्व सुखं सोऽपि यास्यति
॥३९॥इहलोकेपरे वापि न सुखं कुलयोषिताम् ।
हीनानां स्वामिनां देव यदेतत् स्वामिना सह
॥४०॥शरणागतगुप्तिं च दीनानां कः करिष्यति ।
एवं बहुविधं दीना रुदती भृशविव्हला
॥४१॥तत्याज त्रोटयित्वा सा भूषणानि च दूरतः ।
कङ्कणानि च सर्वाणि बभञ्ज च मुमूर्छ च
॥४२॥इति श्रीगणेशपुराणे उपासनाखण्डे चन्द्राङ्गदोपाख्याने त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥