मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

उपासनाखण्डः, अध्याय 16

3
उपासनाखण्डः · 16

देवीप्रार्थनं नाम षोडशोऽध्यायः

राजोवाच

श्रुत्वा कथां गणेशस्य हर्षश्चेतसि जायते ।

पुनश्च वद विप्रर्षे न तृप्यामि कथामृतम्

॥१॥

अन्तर्हिते भगवति गणेशे परमात्मनि ।

कथं विनिर्ममे सृष्टिं ब्रह्मा तद् वर्णय प्रभो

॥२॥

यच्चाग्रे कथयामास व्यासायाख्यानं विधिः ।

तदहं विस्तरेणैव श्रोतुमिच्छामि सन्मुने

॥३॥

भृगुरुवाच

सिद्धक्षेत्रस्य माहात्म्यं व्यासायाऽकथयत्प्रभुः ।

आनुपूर्व्येण तत् तेऽहं कथयिष्येऽसृजच्च यत्

॥४॥

स ब्रह्मा निर्ममे पूर्वं मनसा सप्त पुत्रकान् ।

आहतान्सृष्टिसाहाय्यं सृजध्वं स्वस्वबुद्धितः

॥५॥

ते तु तद्वचनं श्रुत्वा तपसे कृत निश्चयाः ।

तपस्तप्त्वाऽऽसु विपुलं परं ब्रह्म समागताः

॥६॥

ततोऽन्यान् कल्पयामास सप्त पुत्रान् प्रजापतिः ।

तेऽत्यन्त ज्ञानसम्पन्ना न चक्रुः सृष्टिमुत्तमाम्

॥७॥

ततः स्वयं समारेभे सनकादीन् विलोक्य तान् ।

मुखतो ब्रह्मणानग्निमसृजत् कमलासनः

॥८॥

बाहुरुपादतोऽन्याँस्त्रीन् वर्णां श्चन्द्रमसं हृदः ।

चक्षुभ्याञ्ज रविं श्रोत्रान्मारुतं प्राणमेव च

॥९॥

अन्तरिक्षं तथा नाभेः शिरसो दिवमेव च ।

भूमिं पद्भ्यां दिशः श्रोत्रादन्याँल्लोकानकल्पयत्

॥१०॥

अन्यदुच्चावचं विश्वं स्थावरं जङ्गमं च यत् ।

समुद्रान् सरितः शैलाँस्तृणगुल्ममहीरुहान्

॥११॥

ततः कतिपयाहःसु गतेषु मुनिसत्तमाः ।

निद्रितस्य महाविष्णोः श्रोताज्जातो महासुरौ

॥१२॥

मधुकैटभनामानौ विख्यातौ भुवनत्रये ।

द्रँष्ट्राकरालवदनौ पिङ्गाक्षौ दीर्घनासिकौ

॥१३॥

महाकायौ महारावावत्युच्चौ पर्वताविव ।

वर्षामुदिरशब्दौ तौ गर्जन्तौ भृशगर्वितौ

॥१४॥

वचोभिर्बहुभिर्दुष्टौ धिक्कारं तस्य चक्रतुः ।

विप्रान् देवान् ऋषीन् साधून् शास्त्राणिच निनिन्दतुः

॥१५॥

तयोः शब्देन धरणी चकम्पे शेष एव च ।

उद्विग्नमासीत् सकलं ब्रह्माण्डं स्वनतस्तयौः

॥१६॥

ततस्तौ क्रोधरक्ताक्षौ कं तं खादितुमुद्यतौ ।

ततोऽसौ वरदां देवीं विष्णुमोहनकारिणीम्

॥१७॥

विष्णुनेत्रगतां निद्रां तुष्टाव कमलासनः ।

मधुकैटभनाशाय प्रबोधाय हरेरपि

॥१८॥

गजानन प्रसादेन विष्णुहस्तात् तयोर्वधम् ।

ज्ञात्वा सम्यग्विचार्यैव चिन्ताहर्षसमन्वितः

॥१९॥

ब्रह्मोवाच

स्वाहास्वधारूपधरा सुधा त्वं मात्रार्धमायास्वरूपिणी च ।

कर्त्री च हर्त्री जननी जनस्य सतोऽसतः शक्तिरसि त्वमेव

॥२०॥

श्रुतिः स्वरा कालरात्रिरनादिनिधनाऽक्षया ।

जगन्माता जगद्धात्री सृष्टिस्थित्यन्तकारिणी

॥२१॥

सावित्री च तथा सन्ध्या महामाया तृषा क्षुधा ।

सर्वेषां वस्तुजातानां शक्तिस्त्वमसि पार्वति

॥२२॥

त्रैलोक्यकर्त्ता त्वन्नाथो दैत्यदानवसूदनः ।

निद्रया व्याप्तचित्तोऽसौ ज्ञानविज्ञानवान् हरिः

॥२३॥

जगदुत्पाद्यते येन पाल्यते ह्रियतेऽपि च ।

सोऽपि त्वयावताराणां सङ्कटे विनियोज्यते

॥२४॥

दुष्टात्मानौ मोहयैतौ त्वं दैत्यौ मधुकैटभौ ।

हन्तुमेतौ दुराधर्षौ ज्ञानमस्य प्रदीयताम्

॥२५॥

अहमाराधितश्चाभ्यां पूर्वजन्मन्यतन्द्रितम् ।

वरान् बहुविधान प्रादामवध्यौ मम तावुभौ

॥२६॥

तयोरुच्चावचान् शब्दानतोऽहमसहं बहु ।

मामेव हन्तुकामौ तौ स्तुतौ नानाविधैः स्तवैः

॥२७॥

तथापि मद्वधातौ न निवृत्तौ दुष्टभावतः ।

अतस्त्वां प्रार्थये देवि विष्णुबोधनहेतवे

॥२८॥

इति श्रीगणेशपुराणे उपासनाखण्डे देवीप्रार्थनं नाम षोडशोऽध्यायः ॥ १६ ॥