मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कार्तिकमासमाहात्म्यम्, अध्याय ३६

3
वैष्णवखण्डः · कार्तिकमासमाहात्म्यम् · 36

पुराणश्रवणमहिमवर्णनम्

ब्रह्मोवाच

यास्तिस्रस्तिथयः पुण्या अंतिके शुक्लपक्षके ॥

कार्तिके मासि विप्रेंद्र पूर्णिमांताः शुभवहाः

॥१॥

अंतिपुष्करिणी संज्ञा सर्वपापक्षयावहा ॥

कार्त्तिके मासि संपूर्णं यो वै स्नानं करोति ह

॥२॥

तिथिष्वेतासु सः स्नानात्पूर्णमेव फलं लभेत् ॥

सर्वे वेदास्त्रयोदश्यां गत्वा जन्तून्पुनंति हि

॥३॥

चतुर्दश्यां सयज्ञाश्च देवा जंतून्पुनंति हि ॥

पूर्णिमायां सुतीर्थानि विष्णुना संस्थितानि हि

॥४॥

ब्रह्मघ्नान्वा सुरापान्वा सर्वाञ्जंतून्पुनंति हि ॥

उष्णोदकेन यः स्नायात्कार्त्तिक्यादिदिनत्रये

॥५॥

रौरवं नरकं याति यावदिंद्राश्चतुर्दश ॥

आमासनियमाशक्तः कुर्यादेतद्दिनत्रये

॥६॥

तेन पूर्णफलं प्राप्य मोदते विष्णुमंदिरे ॥

यो वै देवान्पितॄन्विष्णुं गुरुमुद्दिश्य मानवः

॥७॥

न स्नानादि करोत्यद्धा स याति नरकं ध्रुवम् ॥

कुटुंबभोजन यस्तु गृहस्थस्तु दिनत्रये

॥८॥

सर्वान्पितॄन्समुद्धृत्य स याति परमं पदम् ॥

गीतापाठं तु यः कुर्यादंतिमे च दिनत्रये

॥९॥

दिनेदिनेऽश्वमेधानां फलमेति न संशयः ॥

सहस्रनामपठनं यः कुर्यात्तु दिनत्रये

॥१०॥

न पापैर्लिप्यते क्वाऽपि पद्मपत्रमिवांऽभसा ॥

देवत्वं मनुजैः कैश्चित्कैश्चित्सिद्धत्वमेव च

॥११॥

तस्य पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि ॥

यो वै भागवतं शास्त्रं शृणोति च दिनत्रयम्

॥१२॥

कैश्चित्प्राप्तो ब्रह्मभावो दिनत्रयनिषेवणात् ॥

ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा

॥१३॥

अथ वा कार्त्तिके मासि दिनत्रयनिषेवणात् ॥

कार्त्तिके हरिपूजां तु यः करोति दिनत्रये

॥१४॥

न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ॥

कार्त्तिके मासि विप्रेंद्र सर्वमंत्यदिनत्रये

॥१५॥

पुण्यं तत्राऽपि वैशेष्यं राकायां वर्ततेऽनघ ॥

प्रातःकाले समुत्थाय शौचं स्नानादिकं चरेत्

॥१६॥

समाप्य सर्वकर्माणि विष्णुपूजां समाचरेत् ॥

उद्याने वा गृहे वाऽपि कार्त्तिक्यां विष्णुतत्परः

॥१७॥

मंडपं तत्र कुर्वीत कदलीस्तंभमंडितम् ॥

चूतपल्लवसंवीतमिक्षुदंडैः सुमंडितम्

॥१८॥

चित्रवस्त्रैः स्वलंकृत्य तत्र देवं प्रपूजयेत् ॥

चूतपल्लवपुष्पाढ्यैः फलाद्यैः पूजयेद्धरिम्

॥१९॥

शृणुयादूर्जमाहात्म्यं नियमेन शुचिः पुमान् ॥

संपूर्णमथ वाऽध्यायमेकश्लोकमथाऽपि वा

॥२०॥

मुहूर्तं वाऽपि शृणुयात्कथां पुण्यां दिनेदिने ॥

यदि प्रतिदिनं श्रोतुमशक्तः स्यात्तु मानवः

॥२१॥

पुण्यमासेऽथवा पुण्यतिथौ संशृणुयादपि ॥

तेन पुण्यप्रभावेन पापान्मुक्तो भवेन्नरः

॥२२॥

पुराणज्ञः शुचिर्दक्षः शांतो विगतमत्सरः ॥

साधुः कारुणिको वाग्ग्मी वदेत्पुण्यां कथां सुधीः

॥२३॥

व्यासासनं समारूढो यदा पौराणिको भवेत् ॥

आसमाप्तेः प्रसंगस्य नमस्कुर्यान्न कस्यचित्

॥२४॥

न दुर्जनसमाकीर्णे न शूद्रश्वापदावृते ॥

देशे न द्यूतसदने वदेत्पुण्यकथां सुधीः

॥२५॥

श्रद्धाभक्तिसमायुक्ता नाऽन्यकार्येषु लालसा ॥

वाग्यताः शुचयो दक्षाः श्रोतारः पुण्यभागिनः

॥२६॥

अभक्ता ये कथां पुण्यां शृण्वंति मनुजाऽधमाः ॥

तेषां पुण्यफलं नाऽस्ति दुःखं स्याजन्मजन्मनि

॥२७॥

पौराणिकं च मासांते पूजयेद्भक्तितत्परः ॥

गन्धमाल्यैस्तथा वस्त्रैरलंकारैर्धनेन च

॥२८॥

शृण्वंति च कथां भक्त्या न दरिद्रा न पापिनः

॥२९॥

कथायां कीर्त्यमानायां ये गच्छंत्यन्यतो नराः ॥

भोगांतरे प्रणश्यंति तेषां दाराश्च संपदः

॥३०॥

उच्चासनसमारूढो न नरः प्रणतो भवेत् ॥

विषवृक्षस्तथा स्वापे वने चाऽजगरो भवेत्

॥३१॥

कथायां कीर्त्यमानायां विघ्नं कुर्वंति ये नराः ॥

कोट्यब्दनरकान्भुक्त्वा भवंति ग्रामसूकराः

॥३२॥

ये श्रावयंति मनुजाः कथां पौराणिकीं शुभाम् ॥

कल्पकोटिशतं साग्रं तिष्ठंति ब्रह्मणः पदे

॥३३॥

आसनार्थे प्रयच्छति पुराणज्ञस्य ये नराः ॥

कम्बलाजिनवासांसि मंचं फलकमेव वा

॥३४॥

परिधानीयवस्त्राणि प्रयच्छंति च ये नराः ॥

भूषणादि प्रयच्छंति वसेयुर्ब्रह्मसद्मनि

॥३५॥

वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ॥

अतः संतोषयेद्भक्त्या भक्तिश्रद्धान्वितः पुमान् ॥

तस्य पुण्यफलं पूर्णं भवत्येव न संशयः

॥३६॥

यत्फलं सर्वयज्ञेषु सर्वदानेषु यत्फलम् ॥

सकृत्पुराणश्रवणात्तत्फलं विंदते नरः

॥३७॥

कलौ युगे विशेषेण पुराणश्रवणादृते ॥

नास्ति धर्मः परः पुंसां नास्ति मुक्तिपथः परः ॥

पुराणश्रवणाद्विष्णोर्नास्ति संकीर्तनात्परम्

॥३८॥

य एतदूर्जमाहात्म्यं शृणुयाच्छ्रावयेदपि ॥

स तीर्थराज बदरीगमनस्य फलं लभेत्

॥३९॥

सर्वरोगापहं सर्वपापनाशकरं शुभम्

॥४०॥

श्रुत्वा चैकपदे यो वै अगम्यागमने रतः ॥

कन्यास्वस्रोर्विक्रयिणमुभयं तु विमोचयेत्

॥४१॥

माहात्म्यमेतदाकर्ण्य पूजयेद्यस्तु पाठकम् ॥

गोभूहिरण्यवस्त्रैश्च विष्णुतुल्यो यतो हि सः

॥४२॥

धर्मशास्त्रं पुराणं च वेदविद्यादिकं च यत् ॥

पुस्तकं वाचकायैव दातव्यं धर्ममिच्छता ॥

पुराणविद्यादातारो ह्यनंतफलभोगिनः

॥४३॥

इदं यः पठते भक्त्या श्रुत्वा चैवाऽवधारयेत् ॥

मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति

॥४४॥

न कस्याऽपीदमाख्येयं श्रद्धाहीनाय दुर्मतेः

॥४५॥

अपूजयित्वा गुरुमग्रबुद्ध्या धर्मप्रवक्तारमनन्यबुद्धिः ॥

भुक्त्वा तु भोगान्नरकेषु चैव ततो हि जन्मान्तर दुःखभोगी

॥४६॥

तस्मात्संपूजयेद्भक्त्या गुरुं तत्त्वावबोधकम् ॥

माहात्म्यस्य च लेशोऽयं तव चोक्तो मयाऽनघ

॥४७॥

न शक्यते हि संपूर्णं वक्तुं वर्षशतैरपि ॥

पुरा कैलासशिखरे पार्वत्यै प्रोक्तवाञ्च्छिवः

॥४८॥

कार्तिकस्य तु माहात्म्यं यावद्वर्षशतं वदन् ॥

तथापि नांतमगमदशक्तो विरराम ह

॥४९॥

पुत्रार्थी च धनार्थी च राज्यार्थी स्वफलं लभेत् ॥

किमत्र बहुनोक्तेन मोक्षार्थी मोक्षमाप्नुयात्

॥५०॥

सूत उवाच

इत्युक्तो ब्रह्मणा चैव नारदः प्रेमनिर्भरः ॥

भूयोभूयो नमस्कृत्य ययौ यादृच्छिको मुनिः

॥५१॥

कथितं शंकरेणाऽपि पुत्राय हितकाम्यया ॥

पितुस्तद्वाक्यमाकर्ण्य षण्मुखो हर्षनिर्भरः

॥५२॥

कृष्णेन सत्यभामायै कार्तिकस्य च वैभवः ॥

कथितस्तेन संतुष्टा सत्या व्रतमथाऽकरोत्

॥५३॥

ऋषयो वालखिल्येभ्यः श्रुत्वा माहात्म्यमुत्तमम् ॥

ऊर्जव्रतपरा जातास्तस्मादूर्जोऽतिवल्लभः

॥५४॥

अधीत्य सर्वशास्त्राणि पयःसारमिवोद्धृतम् ॥

नाऽनेन सदृशं शास्त्रं विष्णुप्रीतिकरं शुभम्

॥५५॥

व्यास उवाच

इत्युक्त्वा तानृषीन्सर्वान्सूतो वै धर्मवित्तमः ॥

विरराम ततस्ते तु पूजां चक्रुस्तदास्य च

॥५६॥

ते पुनः स्वाश्रमं गत्वा हृष्टास्ते परमर्षयः ॥

यथा सूतेनोपदिष्टं तथा चक्रुर्व्रतं शुभम्

॥५७॥

अनेन विधिना ये वै कुर्वंति कार्तिकव्रतम् ॥

ते सर्वपापनिर्मुक्ता गच्छंति विष्णुमंदिरम्

॥५८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये पुष्करिणीसंज्ञिकांतिमतिथित्रयमाहात्म्यकथनपूर्वकपुराण श्रवणमहिमवर्णनंनाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥

इति श्रीस्कान्दे महापुराणे द्वितीये वैष्णवखण्डे सटीकं कार्तिकमासमाहात्म्यं समाप्तम् ॥ इति श्रीज्योतिर्वित्कुलावतंसव्यंकटरामात्मजहरिकृष्णशास्त्रिविरचितायां कार्त्तिकमासमाहात्म्यटीकायां पुराणश्रवणमहिमवर्णनंनाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥