मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कार्तिकमासमाहात्म्यम्, अध्याय २४

3
वैष्णवखण्डः · कार्तिकमासमाहात्म्यम् · 24

धर्मदत्तेतिहासकथनम्

पृथुरुवाच

यदूर्जव्रतिनः पुंसः फलं महदुदादृतम् ॥

तत्पुनर्ब्रूहि माहात्म्यं केन चीर्णमिदं शुभम्

॥१॥

नारद उवाच

आसीत्सह्याद्रिविषये करवीरपुरे पुरा ॥

ब्राह्मणो धर्मवित्कश्चिद्धर्मदत्तेति विश्रुतः

॥२॥

विष्णुव्रतकरः सम्यग्विष्णुपूजारतः सदा ॥

कदाचित्कार्तिके मासि हरिजागरणाय सः

॥३॥

रात्र्यां तुर्यावशेषायां जगाम हरिमन्दिरम् ॥

हरिपूजोपकरणान्प्रगृह्य व्रजता तदा

॥४॥

तेन दृष्टा समायाता राक्षसी भीमदर्शना ॥

तां दृष्ट्वा भयवित्रस्तः कंपितावयवस्तदा

॥५॥

पूजोपकरणैः सर्वैः पयोभिश्चाहनद्भयात् ॥

संस्मृत्य तद्धरेर्नाम तुलसीयुक्तवारिणा ॥

तेन वै हतमात्रे तु पापं तस्या ह्यगाल्लयम्

॥६॥

अथ संस्मृत्य सा पूर्वजन्मकर्मविपाकजाम् ॥

स्वां दशामब्रवीद्विप्रं दंडवच्च प्रणम्य वै

॥७॥

कलहोवाच

पूर्वकर्मविपाकेन दशामेतां गतास्म्यहम् ॥

तत्कथं नु पुनर्विप्र प्रयास्याम्युत्तमां गतिम्

॥८॥

नारद उवाच

तां दृष्ट्वा प्रणतां सम्यग्वदमानां स्वकर्म तत् ॥

अतीव विस्मितो विप्रस्तदा वचनमब्रवीत्

॥९॥

धर्मदत्त उवाच

केन कर्मविपाकेन त्वं दशामीदृशीं गता ॥

कुत्रत्या का च किं शीला तत्सर्वं कथयस्व मे

॥१०॥

कलहोवाच

सौराष्ट्रनगरे ब्रह्मन्भिक्षुर्नामाऽभवद्द्विजः ॥

तस्याहं गृहिणी पूर्वं कलहाख्याऽतिनिष्ठुरा

॥११॥

न कदाचिन्मया भर्तुर्वचसाऽपि शुभं कृतम् ॥

नाऽर्पितं तस्य मिष्टान्नं भर्तुर्वचनशीलया

॥१२॥

कलहप्रियया नित्यं मयोद्विग्नमना यदा ॥

परिणेतुं यदाऽन्यां स मतिं चक्रे पतिर्मम

॥१३॥

ततो गरं समादाय प्राणास्त्यक्ता मया द्विज ॥

अथ बद्ध्वा बध्यमानां मां निन्युर्यमकिंकराः

॥१४॥

यमश्च मां तदा दृष्ट्वा चित्रगुप्तमपृच्छत

॥१५॥

यम उवाच

अनया किं कृतं कर्म चित्रगुप्त विलोकय ॥

प्राप्नोत्वेषा च तत्कर्म शुभं वा यदि वाऽशुभम्

॥१६॥

कलहोवाच

चित्रगुप्तस्तदा वाक्यं भर्त्सयन्मामुवाच सः ॥

चित्रगुप्त उवाच ॥

अनया तु कृतं कर्म शुभं किंचिन्न विद्यते

॥१७॥

मिष्टान्नं भुंजमानेयं न भर्तरि तदर्पितम् ॥

अतश्च वल्गुलीयोन्यां स्वविष्ठादाऽवतिष्ठतु

॥१८॥

भर्तुर्द्वेषात्तदाप्येषा नित्यं कलहकारिणी ॥

विष्ठादां सूकरीं योनिं तस्मात्तिष्ठत्वियं हरे

॥१९॥

पाकभांडे सदा भुंक्ते भुंक्ते चैका यतस्ततः ॥

तस्मादेषा बिडाल्यस्तु स्वजाताऽपत्यभक्षिणी

॥२०॥

भर्तारमपि चोद्दिश्य ह्यात्मघातः कृतोऽनया ॥

तस्मात्प्रेतशरीरेऽपि तिष्ठत्वेकाऽतिनिंदिता

॥२१॥

अतश्चैषा मरुद्देशं प्रापितव्या भटैरियम् ॥

तत्र प्रेतशरीरस्था चिरं तिष्ठत्वियं ततः

॥२२॥

ऊर्ध्वं योनित्रयं चैषा भुनक्त्वशुभकारिणी

॥२३॥

कलहोवाच

साहं पंचशताब्दानि प्रेतदेहे स्थिता किल ॥

क्षुतृड्भ्यां पीडिताऽऽविश्य शरीरं वणिजस्य च ॥

आयाता दक्षिणं देशं कृष्णावेण्योश्च संगमम्

॥२४॥

तत्तीरं संश्रिता यावत्तावत्तस्य शरीरतः ॥

शिवविष्णुगणैर्दूरमपकृष्टा बलादहम्

॥२५॥

ततः क्षुत्क्षामया दृष्टो मया हि त्वं द्विजोत्तम ॥

त्वद्धस्ततुलसीवारिसंसर्गगतपापया

॥२६॥

तत्कृत्यं कुरु विप्रेंद्र कथं मुक्तिमियाम्यहम् ॥

योनित्रयादग्रभवादस्माच्च प्रेतदेहतः

॥२७॥

इत्थं विचिंत्य कलहावचनं द्विजाग्र्यस्तत्कर्मपाकभयविस्मयदुःखयुक्तः ॥

तद्ग्लानिदर्शनकृपाचलचित्तवृत्ति ध्यात्वा चिरं स वचनं निजगाद दुःखात्

॥२८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये धर्मदत्तेतिहासकथनंनाम चतुर्विंशोऽध्यायः ॥ २४ ॥