मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कार्तिकमासमाहात्म्यम्, अध्याय ३१

3
वैष्णवखण्डः · कार्तिकमासमाहात्म्यम् · 31

कार्तिके शुक्लनवमी तत्राऽभूद्द्वापरं युगम्

वालखिल्या ऊचुः

कार्तिके शुक्लनवमी तत्राऽभूद्द्वापरं युगम् ॥

पूर्वाऽपराह्णगा ग्राह्या क्रमाद्दानोपवासयोः

॥१॥

अत्र कूष्मांडकोनाम हतो दैत्यस्तु विष्णुना ॥

तद्रोमभिः समुद्भूता वल्ल्यः कूष्मांडसंभवाः

॥२॥

तस्मात्कूष्मांडदानेन फलमाप्नोति निश्चितम् ॥

अस्यामेव नवम्यां तु कुर्यात्कृष्णोत्सवं नरः

॥३॥

स्वशाखोक्तेन विधिना तुलस्याः करपीडनम् ॥

कन्यादानफलं तस्य जायते नात्र संशयः

॥४॥

कार्तिके शुक्लनवमीमवाप्य विजितेंद्रियः ॥

हरिं विधाय सौवर्णं तुलस्या सहितं शुभम्

॥५॥

पूजयेद्विधिवद्भक्त्या व्रती तत्र दिनत्रयम् ॥

एवं यथोक्तविधिना कुर्याद्वैवाहिकं विधिम्

॥६॥

ग्राह्यं त्रिरात्रमत्रैव नवम्याद्यनुरोधतः ॥

मध्याह्नव्यापिनी ग्राह्या नवमी पूर्ववेधिता

॥७॥

धात्र्यश्वत्थौ य एकत्र पालयित्वा समुद्वहेत् ॥

न नश्यते तस्य पुण्यं कल्पकोटिशतैरपि

॥८॥

कनकस्य सुता पूर्वमेकादश्यां किशोरिका ॥

चकार भक्तितः सायं तुलस्युद्वाहजं विधिम्

॥९॥

तेन वैधव्यदोषेण निर्मुक्ताऽऽसीत्सुलोचना ॥

तस्मात्सायं प्रकर्तव्यस्तुलस्तुद्वाहजो विधिः

॥१०॥

अवश्यमेव कर्तव्यः प्रतिवर्षं तु वैष्णवैः ॥

विधिं तस्य प्रवक्ष्यामि यथा सांगा क्रिया भवेत

॥११॥

विष्णोस्तु प्रतिमां कुर्यात्पलस्य स्वर्णजां शुभाम् ॥

तदर्द्धार्द्धं तदर्द्धार्द्धं यथाशक्त्या प्रकल्पयेत्

॥१२॥

प्राणप्रतिष्ठां कृत्वैव तुलसीविष्णुरूपयोः ॥

तत उत्थापयेद्देवं पूर्वोक्तैश्च स्तवादिभिः

॥१३॥

उपचारैः षोडशभिः पूजयेत्पुरुषोक्तिभिः ॥

देशकालौ ततः स्मृत्वा गणेशं तत्र पूजयेत्

॥१४॥

पुण्याहं वाचयित्वाथ नांदीश्राद्धं समाचरेत् ॥

वेदवाद्यादिनिर्घोषैर्विष्णुमूर्तिं समानयेत्

॥१५॥

तुलसीनिकटे सा तु स्थाप्या चांऽतर्हिता पटैः ॥

आगच्छ भगवन्देव अर्चयिष्यामि केशव

॥१६॥

तुभ्यं दास्यामि तुलसीं सर्वकामप्रदो भव ॥

दद्यात्त्रिवारमर्घ्यं च पाद्यं विष्टरमेव च

॥१७॥

तत आचमनीयं च त्रिरुक्त्वा च प्रदापयेत् ॥

ततो दधि घृतं क्षीरं कांस्यपात्रपुटीकृतम्

॥१८॥

मधुपर्कं गृहाण त्वं वासुदेव नमोस्तु ते ॥

हरिद्रालेपानाभ्यंगकार्यं सर्वं विधाय च

॥१९॥

गोधूलिसमये पूज्यौ तुलसीकेशवौ पुनः ॥

पृथक्पृथक्तथा कार्यौ संमुखौ मंगलं पठेत्

॥२०॥

ईषद्दृश्ये भास्करे तु संकल्पं तु समुच्चरेत् ॥

स्वगोत्रप्रवरानुक्त्वा तथा त्रिपुरुषादिकम्

॥२१॥

अनादिमध्यनिधन त्रैलोक्यप्रतिपालक ॥

इमां गृहाण तुलसीं विवाहविधिनेश्वर

॥२२॥

पार्वतीबीजसंभूतां वृंदाभस्मनि संस्थिताम् ॥

अनादिमध्यनिधनां वल्लभां ते ददाम्यहम्

॥२३॥

पयोघटैश्च सेवाभिः कन्यावद्वर्धिता मया ॥

त्वत्प्रियां तुलसीं तुभ्यं ददामि त्वं गृहाण भोः

॥२४॥

एवं दत्त्वा च तुलसीं पश्चात्तौ पूजयेत्ततः ॥

रात्रौ जागरणं कुर्याद्विवाहोत्सवपूर्वकम्

॥२५॥

ततः प्रभातसमये तुलसीं विष्णुमर्चयेत् ॥

वह्निसंस्थापनं कृत्वा द्वादशाक्षरविद्यया

॥२६॥

पायसाऽऽज्यक्षौद्रतिलैर्जुह्यादष्टोत्तरंशतम् ॥

ततः स्विष्टकृतं हुत्वा दद्यात्पूर्णाहुतिं ततः ॥

आचार्यं च समभ्यर्च्य होमशेषं समापयेत्

॥२७॥

चतुरो वार्षिकान्मासान्नियमो येन यः कृतः ॥

कथयित्वा द्विजेभ्यस्तत्तथाऽन्यत्परिपूरयेत्

॥२८॥

इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो ॥

न्यूनं संपूर्णतां यातु त्वत्प्रसादाज्जनार्दन

॥२९॥

रेवतीतुर्यचरणे द्वादशीसंयुते नरः ॥

न कुर्यात्पारणं कुर्वन्व्रतं निष्फलतां नयेत्

॥३०॥

ततो येषां पदार्थानां वर्जनं तु कृतं भवेत् ॥

चातुर्मास्येऽथवा चोर्जे ब्राह्मणेभ्यः समर्पयेत् ॥

ततः सर्वं समश्नीयाद्यद्यत्त्यक्तं व्रते स्थितम्

॥३१॥

दंपतिभ्यां सहैवाऽत्र भोक्तव्यं च द्विजैः सह

॥३२॥

ततो भुक्त्युत्तरं यानि गलितानि दलानि च ॥

तानि भुक्त्वा तुलस्याश्च स्वयं पापैः प्रमुच्यते

॥३३॥

इक्षुदण्डं तथा धात्रीफलं कोलिफलं तथा ॥

भुक्त्वा तु भोजनस्यांऽते तस्योच्छिष्टं विनश्यति

॥३४॥

एषु त्रिषु न भुक्तं चेदेकैकमपि येन तु ॥

ज्ञेय उच्छिष्ट आवर्षं नरोऽसौ नाऽत्र संशयः

॥३५॥

ततः सायं पुनः पूज्याविक्षुदण्डैश्च शोभितैः ॥

तुलसीवासुदेवौ च कृतकृत्यो भवेत्ततः

॥३६॥

ततो विसर्जनं कृत्वा दत्त्वा दायादिकं हरेः ॥

वैकुण्ठं गच्छ भगवँस्तुलसीसहितः प्रभो ॥

मत्कृतं पूजनं गृह्य संतुष्टो भव सर्वदा

॥३७॥

गच्छगच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर ॥

यत्र ब्रह्मादयो देवास्तत्र गच्छ जनार्दन

॥३८॥

एवं विसृज्य देवेशमाचार्याय प्रदापयेत् ॥

मूर्त्यादिकं सर्वमेव कृतकृत्यो भवेन्नरः

॥३९॥

प्रतिवर्षं तु यः कुर्यात्तुलसीकरपीडनम् ॥

भक्तिमान्धनधान्यैः स युक्तो भवति निश्चितम् ॥

इहलोके परत्राऽपि विपुलं च यशो लभेत्

॥४०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कूष्मांडनवमीतुलसीविवाहविधिवर्णनंनामैकत्रिंशोऽध्यायः ॥ ३१ ॥