मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कार्तिकमासमाहात्म्यम्, अध्याय १५

3
वैष्णवखण्डः · कार्तिकमासमाहात्म्यम् · 15

जलंधरविजयप्राप्तिर्

नारद उवाच

ये देवैर्निर्जिताः पूर्वं दैत्याः पातालसंस्थिताः ॥

तेऽपि भूमंडलं याता निर्भयास्तमुपाश्रिताः

॥१॥

कदाचिच्छिन्नशिरसं राहुं दृष्ट्वा स दैत्यराट् ॥

पप्रच्छ भार्गवं तत्र तच्छिरश्छेदकारणम्

॥२॥

स शशंस समुद्रस्य मथनं देवकारितम् ॥

रत्नापहरणं चैव दैत्यानां च पराभवम्

॥३॥

स श्रुत्वा क्रोधरक्ताक्षः स्वपितुर्मथनं तदा ॥

दूतं संप्रेषयामास घस्मरं शक्रसन्निधौ

॥४॥

दूतस्त्रिविष्टपं गत्वा सुधर्मां प्राविशद्वराम् ॥

जगादाखर्वमौलिस्तु देवेंद्रं वाक्यमद्भुतम्

॥५॥

घस्मर उवाच

जलंधरोऽब्धितनयः सर्वदैत्यजनेश्वरः ॥

दूतोऽहंप्रेषितस्तेन स यदाह शृणुष्व तत्

॥६॥

कस्मात्त्वया मम पिता मथितः सागरोऽद्रिणा ॥

नीतानि सर्वरत्नानि तानि शीघ्रं प्रयच्छ मे

॥७॥

इति दूतवचः श्रुत्वा विस्मितस्त्रिदशाधिपः ॥

उवाच घस्मरं रौद्रं भयरोषसमन्वितः

॥८॥

इंद्र उवाच

शृणु दूत मया पूर्वं मथितः सागरो यथा ॥

अद्रयो मद्भयात्त्रस्ताः स्वकुक्षिस्थाः कृतास्तथा

॥९॥

अन्येऽपि मद्द्विषस्तेन रक्षिता दितिजाः पुरा ॥

तस्माद्यत्तत्प्रजातं तु मयाऽप्यपहृतं किल

॥१०॥

शंखोऽप्येवं पुरा देवानद्विषत्सागरात्मजः ॥

ममाऽनुजेन निहतः प्रविष्टः सागरोदरम्

॥११॥

तद्गच्छ कथयस्वाऽस्य सर्वं मथनकारणम् ॥

नारद उवाच ॥

इत्थं विसर्जितो दूतस्तदेंद्रेणाऽगमद्भुवम्

॥१२॥

तदिदं वचनं सर्वं दैत्यायाकथयत्तदा ॥

तन्निशम्य तदा दैत्यो रोषात्प्रस्फुरिताऽधरः

॥१३॥

दैत्यसेनासमायुक्तो ययौ योद्धुं त्रिविष्टपम् ॥

ततो युद्धे महाञ्जातो देवदानवसंक्षयः

॥१४॥

तत्र युद्धे मृतान्दैत्यान्भार्गवस्तूदतिष्ठपत् ॥

विद्यया मृतजीविन्या मंत्रितैस्तोयबिंदुभिः

॥१५॥

देवानपि तथा युद्धे तत्राऽजीवयदंगिराः ॥

दिव्यौषधी समानीय द्रोणाद्रेः स पुनःपुनः

॥१६॥

दृष्ट्वा देवांस्तथा युद्धे पुनरेव समुत्थितान् ॥

जलंधरः क्रोधवशो भार्गवं वाक्यमब्रवीत्

॥१७॥

जलंधर उवाच

मया युद्धे हता देवा उत्तिष्ठंति कथं पुनः ॥

तव संजीविनीविद्या न वाऽन्यत्रेति विश्रुतम्

॥१८॥

शुक्र उवाच

दिव्यौषधीः समानीय द्रोणाद्रेरंगिराः सुरान् ॥

जीवयत्येव तच्छीघ्रं द्रोणाद्रिं त्वमपाहर

॥१९॥

नारद उवाच

इत्युक्तः स तु दैत्येंद्रो नीत्वा द्रोणाचलं तदा ॥

प्राक्षिपत्सागरे तूर्णं पुनरागान्महाहवम्

॥२०॥

अथ देवान्हतान्दृष्ट्वा द्रोणाद्रिमगमद्गुरुः ॥

तावत्तत्र गिरींद्रं तु न ददर्श सुरार्चितः

॥२१॥

ज्ञात्वा दैत्यहृतं द्रोणं धिषणो भयविह्वलः ॥

आगत्य दूराद्व्याजह्रे श्वासाऽऽकुलितविग्रहः

॥२२॥

पलायध्वं हवाद्देवा नाऽयं जेतुं क्षमो यतः ॥

रुद्रांशसंभवो ह्येष स्मरध्वं शक्रचेष्टितम्

॥२३॥

श्रुत्वा तद्वचनं देवा भयविह्वलितास्तदा ॥

दैत्येन वध्यमानास्ते पलायंते दिशो दश

॥२४॥

देवान्विद्रावितान्दृष्ट्वा दैत्यैः सागरनंदनः ॥

शंखभेरीजयरवैः प्रविवेशाऽमरावतीम्

॥२५॥

प्रविष्टे नगरीं दैत्ये देवाः शक्रपुरोगमाः ॥

सुवर्णाद्रिगुहां प्राप्ता न्यवसन्दैत्यतापिताः

॥२६॥

ततश्च सर्वेष्वसुरोऽधिकारेष्विंद्रादिकानां विनिवेशयत्तदा ॥

शुंभादिकान्दैत्यवरान्पृथक्पृथक्स्वयं सुवर्णाद्रिगुहामगात्पुनः

॥२७॥

इति श्री स्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरविजयप्राप्तिर्नाम पञ्चदशोऽध्यायः ॥ १५ ॥