मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कार्तिकमासमाहात्म्यम्, अध्याय १२

3
वैष्णवखण्डः · कार्तिकमासमाहात्म्यम् · 12

धात्रीमाहात्म्यवर्णनम्

शौनक उवाच

कार्तिकस्य च माहात्म्यं महत्पुण्यफलप्रदम् ॥

कदा धात्री समुत्पन्ना कथं सा ख्यातिमागता

॥१॥

कस्मादियं पवित्रा च कस्मात्पापप्रणाशिनी ॥

आमर्दकी कृता केन कथयस्वात्र विस्तरात्

॥२॥

सूत उवाच

कथयामि द्विजश्रेष्ठ यथा चेयं हि पुण्यदा ॥

ऊर्जशुक्लचतुर्दश्यां धात्रीपूजां समाचरेत्

॥३॥

आमर्दकीमहावृक्षः सर्वपापप्रणाशनः ॥

वैकुण्ठाख्यचतुर्दश्यां धात्रीछायां गतो नरः

॥४॥

पूजयेत्तत्र देवेशं राधया सहितं हरिम् ॥

प्रदक्षिणां ततः कुर्याच्छतमष्टोत्तरं तथा

॥५॥

सुवर्णरजतैर्वापि फलैरामलकैस्तथा ॥

शतमष्टोत्तरं कुर्यादेकैकेन प्रदक्षिणाम्

॥६॥

साष्टांगं प्रणतो भूत्वा प्रार्थयेत्परमेश्वरम् ॥

धात्रीछायां समाश्रित्य शृणुयाच्च कथामिमाम्

॥७॥

ब्राह्मणान्भोजयेत्पश्चाद्यथाशक्त्या च दक्षिणाम् ॥

ब्राह्मणेषु च तुष्टेषु तुष्टो मोक्षप्रदो हरिः ॥

अत्र ते कथयिष्यामि कथां पुण्यफलप्रदाम् ॥

आमर्दकीफलं वक्तुं ब्रह्मा चाऽपि न पार्यते

॥९॥

एकार्णवे पुरा जाते नष्टे स्थावरजंगमे ॥

नष्टे देवाऽसुरगणे प्रणष्टोरगराक्षसे

॥१०॥

तत्र देवाधिदेवेशः परमात्मा सनातनः ॥

जजाप ब्रह्म परममात्मनः परमाव्ययम्

॥११॥

ततोऽस्य ब्रह्म जपतो निरगाच्छ्वसितं पुरः ॥

तद्दर्शनाऽनुरागेण नेत्राभ्यामगमज्जलम्

॥१२॥

प्रेमाश्रुभरनिर्भिन्नो भूमौ बिंदुः पपात सः ॥

तस्माद्बिंदो समुत्पन्नः स्वयं धात्री नगो महान्

॥१३॥

शाखाप्रशाखाबहुलः फलभारेण पीडितः ॥

सर्वेषामेव वृक्षाणामादिरोहः प्रकीर्तितः

॥१४॥

ब्रह्मा तमसृजत्पूर्वं तत्पश्चाच्चाऽसृजत्प्रजाः ॥

देवदानवगन्धर्वयक्षराक्षसपन्नगान्

॥१५॥

असृजद्भगवान्देवो मानुषांश्च तथामलान् ॥

आजग्मुस्तत्र देवास्ते यत्र धात्री हरिप्रिया

॥१६॥

तां दृष्ट्वा ते महाभागाः परमं विस्मयं गताः ॥

न जानीम इमं वृक्षं चिंतयन्तो मुहुर्मुहुः

॥१७॥

एवं चिंतयतां तेषां वागुवाचाऽशरीरिणी ॥

आमर्दकी नगो ह्येष प्रवरो वैष्णवो यतः

॥१८॥

अस्य वै स्मरणादेव लभेद्गोदानजं फलम् ॥

दर्शनाद्द्विगुणं पुण्यं त्रिगुणं भक्षणात्तथा

॥१९॥

तस्मात्सर्वप्रयत्नेन सेव्या आमर्दकी सदा ॥

सर्वपापहरा प्रोक्ता वैष्णवी पापनाशिनी

॥२०॥

तस्या मूले स्थितो विष्णुस्तदूर्ध्वं च पितामहः ॥

स्कन्धे च भगवान्रुद्रः संस्थितः परमेश्वरः

॥२१॥

शाखासु सवितारश्च प्रशाखासु च देवताः ॥

पर्णेषु देवताः संति पुष्पेषु मरुतस्तथा

॥२२॥

प्रजानां पतयः सर्वे फलेष्वेवं व्यवस्थिताः ॥

सर्वदेवमयी ह्येषा धात्री वै कथिता मया

॥२३॥

अतः सा पूजनीया च सर्वकामार्थसिद्धये ॥

एकदा नारदो योगी ब्रह्मणः पुरतः स्थितः ॥

नमस्कृत्वा जगन्नाथं पप्रच्छातीव विस्मितः

॥२४॥

श्रीनारद उवाच

यथा प्रियं सुतुलसीकाननं सर्वदा हरेः ॥

तथा धात्रीवनं मासे कार्तिके श्रीहरिप्रियम्

॥२५॥

ब्रह्मोवाच

धात्रीवने हरेः पूजा धात्री छायासु भोजनम् ॥

कार्तिके मासि यः कुर्यात्तस्य पापं विनश्यति

॥२६॥

तीर्थानि मुनयो देवा यज्ञाः सर्वेऽपि कार्तिके ॥

नित्यं धात्रीं समाश्रित्य तिष्ठंत्यर्के तुलास्थिते

॥२७॥

यत्किंचित्कुरुते पुण्यं धात्रीछायासु मानवः ॥

तत्कोटिगुणितं भूयान्नाऽत्र कार्या विचारणा

॥२८॥

अत्रैवोदाहरन्तीममितिहासं पुरातनम्

॥२९॥

अयोध्यानगरे कश्चिद्वैश्यश्चासीद्विजोत्तम ॥

पुत्रदारविहीनश्च दैवाद्दारिद्र्यपीडितः

॥३०॥

भिक्षया चोदराग्निं स शमयामास नारद ॥

कदाचिद्वणिजो वैश्यो ययाचे क्षुत्प्रपीडितः

॥३१॥

भिक्षाप्तचणकान्गृह्य धात्रीछायामगात्किल ॥

तत्र तान्भक्षयामास कार्तिके मासि नारद

॥३२॥

केचिदुर्वरितास्तेपु चणकास्तत्र नारद ॥

वैश्येन तेन दत्ता हि क्षुत्क्षामाय द्विजातये

॥३३॥

तेन पुण्यप्रभावेन राजाऽऽसीद्धनिकः क्षितौ ॥

तस्माद्दानं प्रकर्तव्यं कार्तिके मासि सर्वदा

॥३४॥

धात्रीवने मुनिश्रेष्ठ सर्वकामार्थसिद्धये ॥

धात्रीछायां समाश्रित्य कार्तिके च हरेः कथाम् ॥

यः शृणोति स पापेभ्यो मुच्यते द्विजसूनुवत्

॥३५॥

नारद उवाच

कोऽभूद्द्विजसुतो ब्रह्मन्किं पापं कृतवान्पुरा ॥

तस्य जाता कथं मुक्तिरेतद्विस्तरतो वद

॥३६॥

ब्रह्मोवाच

पुरा द्विजवरश्चासीत्कावेर्या उत्तरे तटे

॥३७॥

देवशर्मेति विख्यातो वेदवेदांगपारगः ॥

तस्य पुत्रो दुराचारस्तमाह च पिता हितम्

॥३८॥

इदानीं कार्तिको मासो वर्तते हरिवल्लभः ॥

तत्र स्नानं च दानं च व्रतानि नियमान्कुरु

॥३९॥

तुलसीपुष्पसहितां कुरुपूजां हरेः सुत ॥

दीपदानं च विविधं नमस्कारं प्रदक्षिणाम्

॥४०॥

एवं पितुर्वचः श्रुत्वा पुत्रः क्रोधसमन्वितः ॥

पितरं प्राह दुष्टात्मा चलदोष्ठो विनिंदयन्

॥४१॥

पुत्र उवाच

न करिष्याम्यहं तात कार्तिके पुण्यसंग्रहम् ॥

इति पुत्रवचः श्रुत्वा सक्रोधः प्राह तं सुतम्

॥४२॥

मूषको भव दुर्बुद्धे वने वृक्षस्य कोटरे ॥

इति शापभयाद्भीतो नत्वा पितरमब्रवीत्

॥४३॥

दुर्योनेर्मम मुक्तिः स्यात्कथं तद्वद मे गुरो ॥

इति प्रसादितो विप्रः प्राह निष्कृतिकारणम्

॥४४॥

यदोर्ज्जव्रतजं पुण्यं शृणोषि हरिवल्लभम् ॥

तदा ते भविता मुक्तिस्तत्कथाश्रवणात्सुत

॥४५॥

स पित्रा चैवमुक्तस्तु तत्क्षणान्मूषकोऽभवत् ॥

बहुवर्षसहस्राणि गह्वरे विपिने वसन्

॥४६॥

एकदा कार्तिके मासि विश्वामित्रः सशिष्यकः ॥

स्नात्वा नद्यां हरिं चार्च्य धात्रीछायां समाश्रितः

॥४७॥

कथयामास माहात्म्यं शिष्येभ्यश्चोर्ज्जसंभवम् ॥

तदा कश्चिद्दुराचारो व्याधोऽगान्मृगयां चरन्

॥४८॥

दृष्ट्वा ऋषिगणान्हंतुं कृतेच्छः प्राणिघातकः ॥

तेषां दर्शनमात्रेण सुबुद्धिरभवत्तदा

॥४९॥

अथोवाच द्विजान्नत्वा भवद्भिः क्रियतेऽत्र किम् ॥

तेनैवमुक्तो विप्रेंद्रो विश्वामित्रस्तमब्रवीत्

॥५०॥

विश्वामित्र उवाच

सर्वेषामेव मासानां कार्तिकः श्रेष्ठ उच्यते ॥

तस्मिन्यत्क्रियते कर्म वर्धते वटबीजवत्

॥५१॥

कार्तिके मासि यः कुर्यात्स्नानं दानं च पूजनम् ॥

विप्राणां भोजनं चैव तदक्षय्यफलं भवेत्

॥५२॥

व्याधप्रयुक्तमाकर्ण्य धर्मं च ऋषिणा द्विजः ॥

मौषकं देहमुत्सृज्य दिव्यदेहोऽभवत्तदा

॥५३॥

विश्वामित्रं प्रणम्याथ स्ववृत्तांतं निवेद्य च ॥

अनुज्ञातोऽथ ऋषिणा विमानस्थो दिवं ययौ

॥५४॥

विस्मितो गाधिपुत्रस्तु व्याधश्चैव विशेषतः ॥

व्याधोऽप्यूर्जव्रतं कृत्वा जगाम हरिमंदिरम्

॥५५॥

तस्मात्सर्वप्रयत्नेन कार्तिके केशवाऽग्रतः ॥

धात्रीछायां समाश्रित्य कथाश्रवणमाचरेत्

॥५६॥

मूषकोऽपि च दुर्योनेर्मुक्त ऊर्जकथाश्रुतेः ॥

शृणुयाच्छ्रावयेद्यो वा मुक्तिभागी न संशयः

॥५७॥

धात्रीछायां समाश्रित्य वनभोजनमाचरेत् ॥

आदौ कृत्वा तथा स्नानमुदके वनसंस्थिते ॥

कृत्वा कर्माणि नित्यानि माधवं पूजयेत्ततः

॥५८॥

धात्रीछायां समाश्रित्य हरौ भक्तिसमन्वितः ॥

शृणुयाच्च कथां दिव्यां मासमाहात्म्यशंसनीम्

॥५९॥

ततस्तु ब्राह्मणान्भक्त्या भोजयेद्ब्रह्मवित्तमान् ॥

ततो भुंजीत विप्रेंद्र स्वयं हरिमनुस्मरन्

॥६०॥

एवंकृते व्रते विप्र कार्तिके हरिवल्लभे ॥

यत्पापं नश्यते पुत्र सावधानमना शृणु

॥६१॥

हरेर्नार्पितभोगाच्च भोजने सूर्यदर्शनात् ॥

रजस्वलावाक्छ्रवणपापाद्भोजनके तथा

॥६२॥

भोजनावसरे चान्यस्पर्शदोषस्तु यद्भवेत् ॥

निषिद्धभोजनात्तस्माद्भोजने चाऽन्नदूषणात्

॥६३॥

शुद्धस्यापि तथा त्यागात्पुण्यकाले हरिप्रिये ॥

एतैर्यत्साधितं पापं तत्सर्वं नश्यति धुवम्

॥६४॥

तस्मात्सर्वप्रयत्नेन धात्र्यां भोजनमाचरेत्

॥६५॥

कार्तिके मासि वै विप्रो धात्रीमालां तु यो वहेत् ॥

तथैव तुलसीमालां तस्य पुण्यमनंतकम्

॥६६॥

धात्रीछायां समाश्रित्य दीपमालार्पणं नरः ॥

करिष्यति विशेषेण तस्य पुण्यमनंतकम्

॥६७॥

राधादामोदरौ पूज्यौ तुलस्यधो विशेषतः ॥

तुलस्यभावे कर्तव्या पूजा धात्रीतले शुभा

॥६८॥

धात्रीछायातले येन सकृद्भुक्तं तु कार्तिके ॥

दंपत्योर्भोजनं दत्तमन्नदोषात्प्रमुच्यते

॥६९॥

संपूर्णे कार्तिके यस्तु संपूज्यामलकीं शुभाम् ॥

राधादामोदरप्रीत्यै भोजयित्वा च दंपती ॥

पश्चात्स्वयं तु भुंजीत न श्रीस्तस्य क्षयं व्रजेत्

॥७०॥

यः कश्चिद्वैष्णवो लोके धत्ते धात्रीफलं मुने ॥

प्रियो भवति देवानां मनुष्याणां च का कथा

॥७१॥

धात्रीफलविलिप्तांगो धात्रीफलसमन्वितः ॥

धात्रीफलकृताहारो नरो नारायणो भवेत्

॥७२॥

धात्रीफलानि यो नित्यं वहते करसंपुटे ॥

तस्य नारायणो देवो वरमिष्टं प्रयच्छति

॥७३॥

श्रीकामः सर्वदा स्नानं कुर्यादामलकैर्नरः ॥

तुष्यत्यामलकैर्विष्णुरेकादश्यां विशेषतः

॥७४॥

नवम्यां दर्शे सप्तम्यां संक्रांतौ रविवासरे ॥

चन्द्रसूर्योपरागे च स्नानमामलकैस्त्यजेत्

॥७५॥

धात्रीछायां समाश्रित्य कुर्य्यात्पिंडं त यो नरः ॥

प्रयांति पितरो मुक्तिं प्रसादान्माधवस्य तु

॥७६॥

मूर्ध्नि पाणौ मुखे चैव बाह्वोः कंठे तु यो नरः ॥

धत्ते धात्रीफलं वत्स धात्रीफलविभूषितः

॥७७॥

यावल्लुठति कण्ठस्था धात्रीमाला नरस्य हि ॥

तावत्तस्य शरीरे तु प्रीत्या लुंठति केशवः

॥७८॥

धात्रीफलं च तुलसी मृत्तिका द्वारकोद्भवा ॥

सफलं जीवितं तस्य त्रितयं यस्य वेश्मनि

॥७९॥

यावद्दिनानि वहते धात्रीमालां कलौ नरः ॥

तावद्युगसहस्राणि वैकुण्ठे वसतिर्भवेत्

॥८०॥

मालायुग्मं वहेद्यस्तु धात्रीतुलसिसंभवम् ॥

यो नरः कंठदेशे तु कल्पकोटिं दिवं वसेत्

॥८१॥

धात्रीछायां गतो यस्तु द्वादश्यां पूजयेद्धरिम् ॥

तत्रैव भोजनं यस्तु ब्राह्मणानां च कारयेत्

॥८२॥

स्वयं च तत्र भुंक्ते यः सूपभक्षादिकं तथा ॥

न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि

॥८३॥

तुलस्याश्चैव धात्र्याश्च फलैः पत्रैर्हरिं यजेत्

॥८४॥

तुलसी धात्रीयुक्ता हि सिक्ते सति च कार्तिके ॥

विलयं यांति पापानि ब्रह्महत्यादिकानि च

॥८५॥

धर्मदत्तो द्विजः पूर्वं यथा मुक्तिमवाप ह

॥८६॥

नारद उवाच

कार्तिके मासि सा सेव्या पूजनीया सदा नरैः ॥

चातुर्मास्ये न सेव्या सा इत्युक्तं भवता पुरा ॥

तस्मात्सर्वमशेषेण कथयस्व ममाग्रतः

॥८७॥

ब्रह्मोवाच

कार्तिके मासि विप्रर्षे शुक्ला या दशमी शुभा ॥

तद्दिनाऽऽरभ्य सा सेव्या दैवे पित्र्ये च कर्मणि ॥

दशम्यारभ्य तत्पत्रैः फलकैर्मधुसूदनम्

॥८८॥

पूजयंति नरा ये वै ते वै वैकुण्ठगामिनः ॥

समाप्ते कार्तिकव्रते वनभोजनमाचरेत्

॥८९॥

दशम्यां वाऽथ द्वादश्यां पौर्णमास्यामथाऽपि वा ॥

पंचम्यां वा महाभाग वनभोजनमाचरेत्

॥९०॥

सर्वोपस्करसंयुक्तो वृद्धबालैश्च संयुतः ॥

वनं प्रवेशयेद्धीमान्धात्रीवृक्षैः सुशोभितम्

॥९१॥

चूतैर्बकैस्तथाऽश्वत्थैः पिचुमंदैः कदंबकैः ॥

न्यग्रोधतिंतिणीवृक्षैः समंतात्परिशोभितम्

॥९२॥

तत्र गत्वा महाप्राज्ञ पुण्याऽहं कारयेत्पुरा ॥

वास्तुपीठं तथा पूज्यं धात्रीमूले तु कारयेत्

॥९३॥

वेदिकां चतुरस्रां च हस्तमात्रायतां शुभाम् ॥

तथोपवेदिकां कृत्वा वेदिकाग्रे महामते

॥९४॥

उपवेशाय देवस्य ह्यलं कार्यं तु धातुभिः ॥

वेदिकापश्चिमेभागे कारयेत्कुण्डमंडपम्

॥९५॥

मेखलात्रयसंयुक्तं पिप्पलच्छदसंयुतम् ॥

हस्तमात्रायतं सौम्य एवं कुण्डं तु कारयेत्

॥९६॥

पश्चात्स्नात्वा ततो जप्त्वा देवपूजां समाचरेत् ॥

पश्चादग्निं समाधाय होमं कुर्याद्यथाविधि

॥९७॥

पायसाऽऽज्यगुडसूपपालाशसमिधा तथा ॥

ग्रहाणां वास्तुदेवेभ्यश्चरुं कृत्वा प्रयत्नतः

॥९८॥

धात्री शांतिस्तथा कांतिर्माया प्रकृतिरेव च ॥

विष्णुपत्नी महालक्ष्मी रमा मा कमला तथा

॥९९॥

इंदिरा लोकमाता च कल्याणी कमला तथा ॥

सावित्री च जगद्धात्री गायत्री सुधृतिस्तथा

॥१००॥

अंतज्ञा विश्वरूपा च सुकृपा ह्यब्धिसंभवा ॥

प्रधानदेवताभिस्तु रक्षाहोमं समारभेत्

॥१॥

संसृष्टेति च मंत्रेण ऋषभं मेति मंत्रतः ॥

अपूपं गुडसूपाभ्यां संयुतं जुहुयाद्धविः

॥२॥

अष्टोत्तरशतं हुत्वा मूलमंत्रेण पायसम् ॥

ततो ग्रहादि देवांस्तु यथासंख्येन होमयेत्

॥३॥

धात्रीहोमे महाप्राज्ञ रक्षाहोमे तु पायसम् ॥

ततः स्विष्टकृतं हुत्वा बलिदानं समाचरेत्

॥४॥

इंद्रादि लोकपालांश्च रक्षा पूज्या प्रयत्नतः ॥

धात्रीवृक्षस्य सर्वत्र वेदिकासंयुतस्य च

॥५॥

सूपेन गुडमिश्रेण बलिं पश्चान्निवेदयेत् ॥

देवि धात्रि नमस्तुभ्यं गृहाण बलिमुत्तमम्

॥६॥

मिश्रितं गुडसूपाभ्यां सर्वमंगलदायिनि ॥

पुत्रान्देहि महाप्राज्ञान्यशो देहि शुभप्रदम्

॥७॥

प्रज्ञां मेधां च सौभाग्यं विष्णुभक्तिं च देहि मे ॥

नीरोगं कुरु मे नित्यं निष्पापं कुरु सर्वदा

॥८॥

वर्चस्कं कुरु मां देवि धनवंतं तथा कुरु ॥

इति तां प्रार्थयेद्देवीं प्रादक्षिण्याद्बलिं न्यसेत्

॥९॥

बलिप्रदानकाले तु ये कुर्वंति प्रदक्षिणम् ॥

ते यांति विष्णुसालोक्यं पितृभिः सार्द्धमेव च

॥११०॥

ततः पूर्णाहुतिं कृत्वा होमशेषं समापयेत्

॥११॥

धात्रीवृक्षस्य मूलस्थं मंदस्मितरमापतिम् ॥

ते यांति विष्णुसायुज्यं ये पश्यंतीह चक्षुषा

॥१२॥

वैश्वदेवं ततः कृत्वा पूजयेद्वनदेवताः ॥

गंधाक्षतांस्ततो दत्त्वा विप्रेभ्यः पद्मसंभव

॥१३॥

ब्राह्मणान्भोजयेत्पश्चात्स्वयं भुंजीत बंधुभिः ॥

गृहं प्रवेशयेत्पश्चाद्वृद्धान्बालादिकैः सह

॥१४॥

ब्रह्मचारी भवेद्रात्रौ क्षितिशायी भवेत्ततः ॥

ग्रामस्थैश्च मिलित्वा च स्वयं वा कारयेद्बुधः

॥१५॥

सर्वपापविमुक्त्यर्थं वनभोजनमुत्तमम् ॥

कृत्वैवं सकलं कर्म कृष्णाय च समर्पयेत्

॥१६॥

अश्वमेधसहस्रस्य राजसूयशतस्य च ॥

यत्फलं समवाप्नोति तत्फलं वनभोजने

॥१७॥

अतो धात्री महाभाग पवित्रा पापनाशनी ॥

धात्री चैव नृणां धात्री धात्रीवत्कुरुते क्रियाम्

॥१८॥

ददात्यायुः पयःपानात्स्नानाद्वै धर्मसंचयम् ॥

अलक्ष्मीनाशनं स्नानमात्रैर्निर्वाणमाप्नुयात् ॥

विघ्नानि नैव जायंते धात्रीस्नानेन वै नृणाम्

॥१९॥

तस्मात्त्वं कुरु विप्रेंद्र धात्रीस्नानं हि यत्नतः ॥

प्रयास्यसि हरेर्द्धाम देवत्वं प्राप्य नारद

॥१२०॥

यत्रयत्र मुनिश्रेष्ठ धात्रीस्नानं समाचरेत् ॥

तीर्थे वाऽपि गृहे वाऽपि तत्रतत्र हरिः स्थितः

॥२१॥

धात्रीस्नानेन विप्रर्षे यस्यास्थीनि कलेवरे ॥

प्रक्षाल्यंते मुनिश्रेष्ठ न स गर्भगृहं वसेत्

॥२२॥

धात्रीजलेन विप्रेंद्र येषां केशाश्च रंजिताः ॥

ते नराः केशवं यांति नाशयित्वा कलेर्मलम्

॥२३॥

धात्रीफलं महापुण्यं स्नानं पुण्यतमं स्मृतम् ॥

पुण्यात्पुण्यतरं वत्स भक्षणे मुनिसत्तम

॥२४॥

न गंगा न गया काशी न वेणी न च पुष्करम् ॥

एकैव हि यथा पुण्या धात्री माधववासरे

॥२५॥

धात्रीस्नानं हरेर्नाम तथैवैकादशी सुत ॥

गयाश्राद्धं तथा वत्स समानि मुनयो विदुः

॥२६॥

संस्पृशन्यस्तु वै धात्रीमहन्यहनि मानवः ॥

मुच्यते पातकैः सर्वैर्मनोवाक्कायसंभवैः

॥२७॥

धात्रीफलैरमावास्यासप्तमीनवमीषु च ॥

रविवारे च संक्रांतौ न स्नायान्मुनिसत्तम

॥२८॥

यस्मिन्गृहेमुनिवर धात्री तिष्ठति सर्वदा ॥

तस्मिन्गृहे न गच्छंति प्रेतकूष्मांडराक्षसाः

॥२९॥

धात्रीफलकृतां मालां कंठस्थां यो वहेन्नहि ॥

स वैष्णवो न विज्ञेयो विष्णोर्भक्तिपरो यदि

॥१३०॥

न त्याज्या तुलसीमाला धात्रीमाला विशेषतः ॥

तथा पद्माक्षमालाऽपि धर्मकामार्थमीप्सुभिः

॥३१॥

यावद्दिनानि वहते धात्रीमालां कलौ नरः ॥

तावद्युगसहस्राणि वैकुण्ठे वसतिर्भवेत्

॥३२॥

सर्वदेवमयी धात्री वासुदेवमनःप्रिया ॥

आरोपणीया सेव्या च पूजनीया सदा नरैः

॥३३॥

एतत्ते सर्वमाख्यातं धात्रीमाहात्म्यमुत्तमम् ॥

श्रोतव्यं च सदा भक्तैश्चतुर्वर्गफलप्रदम्

॥३४॥

धात्रीछायां समाश्रित्य कार्तिकेऽन्नं भुनक्ति यः ॥

अन्नसंसर्गजं पापमावर्षं तस्य नश्यति

॥१३५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये धात्रीमाहात्म्यवर्णनंनाम द्वादशोऽध्यायः ॥ १२ ॥