मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कार्तिकमासमाहात्म्यम्, अध्याय २६

3
वैष्णवखण्डः · कार्तिकमासमाहात्म्यम् · 26

चोलराजविष्णुदासब्राह्मणविवादकथनम्

नारद उवाच

इत्थं तद्वचनं श्रुत्वा धर्मदत्तः सविस्मयः ॥

प्रणम्य दण्डवद्भूमौ वाक्यमेतदुवाच ह

॥१॥

धर्मदत्त उवाच

आराधयंति सर्वेऽपि विष्णुं भक्ताऽर्तिनाशनम् ॥

यज्ञैर्दानैर्व्रतैस्तीर्थैस्तपोभिश्च यथाविधि

॥२॥

विष्णुप्रीतिकरं तेषां किंचित्सान्निध्यकारकम् ॥

यत्कृत्वा तानि चीर्णानि सर्वाण्यपि भवंति हि

॥३॥

गणावूचतुः

साधु पृष्टं त्वया विप्र शृणुष्वैकाग्रमानसः ॥

सेतिहासकथां पुण्यां कथ्यमानां पुराभवाम्

॥४॥

कांचिपुर्यां पुरा चोलश्चक्रवर्ती नृपोऽभवत् ॥

यस्याख्ययैव ते देशाश्चोला इति प्रथां गताः

॥५॥

यस्मिञ्छासति भूचक्रं दरिद्रो वाऽपि दुःखितः ॥

पापबुद्धिः सरुग्वापि नैव कश्चिदभून्नरः

॥६॥

यस्याप्युन्नतयज्ञस्य ताम्रपर्ण्यास्तटावुभौ ॥

सुवर्णयूपैः शोभाढ्यावास्तां चैत्ररथोपमौ

॥७॥

स कदाचिदगाद्राजा ह्यनंतशयनं द्विज ॥

यत्राऽसौ जगतां नाथो योगनिद्रामुपाश्रितः

॥६॥

तत्र श्रीरमणं देवं संपूज्य विधिवन्नृपः ॥

मणिमुक्ताफलैर्दिव्यैः स्वर्णपुष्पैश्च शोभनैः

॥९॥

प्रणम्य दण्डवद्भूमावुपविष्टः स तत्र वै ॥

तावद्ब्राह्मणमायांतमपश्यद्देवसन्निधौ

॥१०॥

देवार्चनार्थं पाणौ तु तुलस्युदकधारिणम् ॥

स्वपुरीवासिनं तत्र विष्णुदासाह्वयं द्विजम्

॥११॥

स तत्राभ्येत्य विप्रर्षिर्देवदेवमपूजयत् ॥

विष्णुसूक्तेन संस्नाप्य तुलसीमंजरीदलैः

॥१२॥

तुलसीपूजया तस्य रत्नपूजां पुरा कृताम् ॥

आच्छादितां समालोक्य राजा कुद्धोऽब्रवीदिदम्

॥१३॥

चोल उवाच

माणिक्यस्वर्णपूजाऽत्र शोभाढ्या या कृता मया ॥

विष्णुदास कथं सेयमाच्छन्ना तुलसीदलैः

॥१४॥

विष्णुभक्तिं न जानासि वराकोऽसि मतो मम ॥

यस्त्विमामतिशोभाढ्यां पूजामाच्छादयस्यहो

॥१५॥

इति तद्वचनं श्रुत्वा सक्रोधः स द्विजोत्तमः ॥

राज्ञो गौरवमुल्लंघ्य जगाद वचनं तदा

॥१६॥

विष्णुदास उवाच

राजन्भक्तिं न जानासि गर्वितोऽसि नृपश्रिया ॥

कियद्विष्णुव्रतं पूर्वं त्वया चीर्णं वदस्व तत्

॥१७॥

गणावूचतुः

तद्ब्राह्मणवचः श्रुत्वा प्रहस्य स नृपोत्तमः ॥

विष्णुदासं तदा गर्वादुवाच वचनं द्विजम्

॥१८॥

राजोवाच

इत्थं चेद्वदसे विप्र विष्णुभक्त्याऽतिगर्वितः ॥

भक्तिस्ते कियती विष्णोर्दरिद्रस्याऽधनस्य च

॥१९॥

यज्ञदानादिकं नैव विष्णोस्तुष्टिकरं कृतम् ॥

नाऽपि देवालयं पूर्वं कृतं विप्र त्वया क्वचित्

॥२०॥

ईदृशस्याऽपि ते गर्व एष तिष्ठति भक्तितः ॥

तच्छृण्वंतु वचो मेऽद्य सर्वेऽप्येते द्विजातयः

॥२१॥

साक्षात्कारमहं विष्णोरेष वादो गमिष्यति ॥

पश्यंतु सर्वेऽपि ततो भक्तिं ज्ञास्यंति चावयोः

॥२२॥

गणावूचतुः

इत्युक्त्वा स नृपोऽगच्छन्निजराजगृहं तदा ॥

आरभद्वैष्णवं सत्रं कृत्वाऽऽचार्यं तु मुद्गलम्

॥२३॥

ऋषिसंघसमाजुष्टं बह्वन्नं बहुदक्षिणम् ॥

यच्च ब्रह्मकृतं पूर्वं गयाक्षेत्रे समृद्धिमत्

॥२४॥

विष्णुदासोऽपि तत्रैव तस्थौ देवालये व्रती ॥

यथोक्तनियमान्कुर्वन्विष्णोस्तुष्टिकरान्सदा

॥२५॥

माघोर्जयोर्व्रतं सम्यक्तुलसीवनपालनम् ॥

एकादश्यां हरेर्जाप्यं द्वादशाक्षरविद्यया

॥२६॥

उपचारैः षोडशभिर्नृत्यगीतादिमंगलैः ॥

नित्यं विष्णोस्तथा पूजां व्रतान्येतानि सोऽकरोत्

॥२७॥

नित्यं संस्मरणं विष्णोर्गच्छन्भुवि स्वपन्नपि ॥

सर्वभूतस्थितं विष्णुमपश्यत्समदर्शनः

॥२८॥

माघकार्तिकयोर्नित्यं विशेषनियमानपि ॥

अकरोद्विष्णुतुष्ट्यर्थं सोद्यापनविधिं तथा

॥२९॥

एवं समाराधयतोः श्रियः पतिं तयोश्च चोलेश्वरविष्णुदासयोः ॥

अगाद्धि कालः सुमहान्व्रतस्थयोस्तन्निष्ठसर्वेंद्रियकर्मणोस्तदा

॥३०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये चोलराजविष्णुदासब्राह्मणविवादकथनंनाम षड्विंशोऽध्यायः ॥ २६ ॥