कार्तिकवैभववर्णनम्
ब्रह्मोवाच
भूयः शृणुष्व विप्रेंद्र कार्तिकस्य च वैभवम् ॥
दशमीदिनमारभ्य दशम्यां तु समापयेत्
॥१॥पौर्णमासीं समारभ्य पौर्णमास्यां समापयेत् ॥
आश्विनस्य हरिदिनीं समारभ्य तु भक्तिमान्
॥२॥दामोदरं नमस्कृत्य कुर्यात्संकल्पमादितः ॥
दामोदर नमस्तेऽस्तु सर्वपापविनाशन
॥३॥कार्तिकस्य व्रतं कर्तुमनुज्ञां दातुमर्हसि ॥
निर्विघ्नं कुरु देवेश आमासं पुरुषोत्तम
॥४॥इति संप्रार्थ्य विधिना कार्तिकव्रतमाचरेत् ॥
अनूरुं वदता प्रोक्तं भास्करेण श्रुतं मया ॥
कलौ च स्वर्गगमनकारणं श्रूयतां हि तत्
॥५॥सूर्य उवाच
द्वादशानां तु मासानां मार्गशीर्षोऽतिपुण्यदः
॥६॥तस्मात्पुण्यफलः प्रोक्तो वैशाखो नर्मदातटे ॥
ततो लक्षगुणः प्रोक्तः प्रयागे माघमासकः
॥७॥तस्मान्महाफलः प्रोक्तः कार्तिको जलमात्रके ॥
एकतः सर्वदानानि व्रतानि नियमास्तथा
॥८॥एकतः कार्तिकस्नानं ब्रह्मणा तुलया धृतम् ॥
संततिश्चैव संपत्तिः कलौ येषां प्रजायते
॥९॥अवश्यं तैः कृतं विद्धि कार्तिकस्नानमादरात् ॥
स्नानं च दीपदानं च तुलसीवनपालनम्
॥१०॥भूमिशय्या ब्रह्मचर्य्यं तथा द्विदलवर्जनम् ॥
विष्णुसंकीर्तनं सत्यं पुराणश्रवणं तथा
॥११॥कार्तिके मासि कुर्वंति जीवन्मुक्तास्त एव हि ॥
न कार्तिकसमं धर्म्यमर्थ्यं नो कार्तिकात्परम्
॥१२॥न कार्तिकसमं काम्यं मोक्षदानं न कार्तिकात् ॥
युधिष्ठिरेण धर्मार्थमर्थार्थं च ध्रुवेण च
॥१३॥श्रीकृष्णेन तु कामार्थं मोक्षार्थं नारदेन च ॥
कृतमेतद्व्रतं तस्माच्छ्रेष्ठं कृष्णप्रियं च हि
॥१४॥अरुण उवाच
ब्रूहि भास्कर सर्वात्मन्कदाऽऽरभ्य व्रतं कृतम् ॥
सफलं जायते सम्यक्का च पूज्याऽत्र देवता
॥१५॥भास्कर उवाच
अहं विष्णुश्च शर्वश्च देवी विघ्नेश्वरस्तथा ॥
एकोऽहं पंचधा जातो नाट्ये सूत्रधरो यथा
॥१६॥अस्माकं सर्व एवैते भेदा विद्धि खगेश्वर ॥
तस्मात्सौरैश्च गाणेशैः शाक्तैः शैवैश्च वैष्णवैः
॥१७॥कर्तव्यं कार्तिकस्नानं सर्वपापापनुत्तये ॥
सूर्यस्य प्रीतये कार्यं तुलासंस्थे दिवाकरे
॥१८॥इषपूर्णां समारभ्य यावत्कार्तिकपूर्णिमा ॥
तावत्स्नानं विधातव्यं शिवसंतुष्टये नरैः
॥१९॥देवीपक्षं समारभ्य महारात्रिचतुर्दशी ॥
तावत्स्नानं विधातव्यं देवी संप्रीयतामिति
॥२०॥गणपक्षं समारभ्य कृष्णा या कार्तिके भवेत् ॥
चतुर्थी तावदेव स्यात्स्नानं गणपतुष्टये
॥२१॥एकादशीं समारभ्य आश्विनस्याऽसितेतराम् ॥
एकादश्यां कार्तिकस्य शुक्लायां परिपूर्यते ॥
कृतं येन तु तस्य स्यात्परितुष्टो जनार्दनः
॥२२॥न कार्तिकसमो मासो न काशीसदृशी पुरी ॥
न प्रयागसमं तीर्थं न देवः केशवात्परः
॥२३॥प्रसंगाद्वा बलात्कारैर्ज्ञात्वाज्ञात्वा कृतं भवेत् ॥
स्नानं कार्तिकमासस्य न पश्येद्यमयातनाम्
॥२४॥स्नानार्थं चेन्न सामर्थ्यं दत्वान्यस्मै धनादिकम् ॥
स्नातस्य तस्य हस्तस्य ग्रहणा पुण्यभाग्भवेत्
॥२५॥अथवा कार्तिकस्नानं ये कुर्वंति द्विजातयः ॥
तेषां प्रावरणं दत्त्वा स्नानजं फलमाप्नुयात्
॥२६॥राधादामोदरः पूज्यः कार्तिके तु विशेषतः
॥२७॥स्वर्णस्य वाथ रौप्यस्याऽप्यभावे शुल्बजामपि ॥
मृज्जां वा चित्रजातां वाऽथ वा पिष्टविचित्रिताम्
॥२८॥दामोदरस्य राधायास्तुलस्यधोऽर्चयंति ये ॥
मूर्तिं ते तु नरा ज्ञेया जीवन्मुक्ता न संशयः
॥२९॥अपि पापसहस्राढ्यः कार्तिकस्नानतो नरः ॥
मुक्तोऽवश्यं स भवति नाऽत्र कार्या विचारणा
॥३०॥तुलस्यभावे कर्तव्या पूजा धात्रीतले खग ॥
मुख्यपूजाविधानं तु कर्तव्यं सूर्यमंडले
॥३१॥अप्रत्यक्षाः सर्वदेवाः प्रत्यक्षो भगवानयम् ॥
सर्वे देवाः कालवशाः कालकालो दिवाकरः
॥३२॥एतदाराधनेऽशक्तः प्रतिमां पूजयेन्नरः ॥
प्रतिमातोऽधिकं पुण्यं ब्राह्मणस्य तु पूजने
॥३३॥दरिद्रो दानपात्रं स्याद्विद्यावांस्तु विशेषतः ॥
विप्राभावे पूजनीया गावः कृष्णा मनोहराः
॥३४॥विष्णोर्मूर्तिर्जंगमतः स्थावरा तु प्रशस्यते ॥
शूद्रस्थापितमूर्तीनां नमस्कारं करोति यः ॥
पितृभिर्निरयं याति दशपूर्वैर्दशापरैः
॥३५॥शूद्रार्चितस्य संस्पर्शाद्दहेदासप्तमं कुलम्
॥३६॥तस्माद्विचार्य्य विप्रैर्या स्थापिता तां समर्चयेत् ॥
ततोऽपि या देवताभिः कृता सा भुक्तिमुक्तिदा
॥३७॥मूर्त्यभावे पूजनीयोऽश्वत्थो वाऽथ वटोऽथ वा ॥
अश्वत्थरूपी विष्णुः स्याद्वटरूपी शिवो यतः
॥३८॥कार्तिके तुलसीशाकं तांबूलं वा नराधमः ॥
अज्ञानाज्ज्ञानतो वाऽपि भुञ्जानो निरयं व्रजेत्
॥३९॥शालिग्रामशिलाचक्रे नित्यं सन्निहितो हरिः ॥
तस्मात्सर्वप्रयत्नेन शालिग्रामं प्रपूजयेत्
॥४०॥रुद्रशापवशाद्गावो विष्ठाभक्षणतत्पराः ॥
तथाऽपि ताः पूजनीया लोकद्वयफलप्रदाः
॥४१॥ब्रह्मांऽशकसमुद्भूते पालाशे यस्तु भोजनम् ॥
कुर्यात्कार्तिकमासेऽसौ विष्णुलोकं प्रयास्यति
॥४२॥* अश्वत्थरूपी भगवान्वटरूपी सदाशिवः ॥
तस्मात्सर्वप्रयत्नेन कार्तिकेऽश्वत्थमर्चयेत्
॥४३॥या नारी कार्तिके मासि लक्षं कुर्यात्प्रदक्षिणाः ॥
राधादामोदरं पूज्य मन्दवारे च तत्तले
॥४४॥दम्पती भोजयेद्राधादामोदरस्वरूपिणौ ॥
भोजयित्वा सपत्नीकान्पश्चाद्भुंजीत वाग्यतः
॥४५॥वन्ध्याऽपि लभते पुत्रमितरासां तु का कथा ॥
सदा सन्निहितो विष्णुर्द्विपत्सु ब्राह्मणे यथा
॥४६॥बोधिद्रुमे पादपेषु शालिग्रामे शिलासु च ॥
तस्मादश्वत्थमूले वै कर्तव्यं विष्णुपूजनम्
॥४७॥अश्वत्थपूजा स्पर्शेन कर्त्तव्या शनिवासरे ॥
अन्यवारेऽश्वत्थसंगाद्दरिद्रो जायते नरः
॥४८॥स्नानं जागरणं दीपं तुलसीवनपालनम् ॥
कार्तिके मासि कुर्वंति ते नरा विष्णुमूर्तयः
॥४९॥संमार्जनं विष्णुगृहे स्वस्तिकादिनिवेदनम् ॥
विष्णोः पूजां च ये कुर्युर्जीवन्मुक्तास्तु ते नराः
॥५०॥स्नानकालं प्रवक्ष्यामि तीर्थादिषु च यत्फलम् ॥
स्नानधर्माश्च ये केचित्तान्सर्वान्मे निबोधत
॥५१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कार्तिकवैभववर्णनंनाम तृतीयोऽध्यायः ॥ ३ ॥