मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कार्तिकमासमाहात्म्यम्, अध्याय ३५

3
वैष्णवखण्डः · कार्तिकमासमाहात्म्यम् · 35

त्रिपुरीपूर्णिमाव्रतविधानकथनम्

ब्रह्मोवाच

वैकुण्ठाख्यचतुर्दश्या माहात्म्यं ते वदाम्यहम् ॥

वालखिल्यैः पुरा प्रोक्तं संक्षेपेण शृणुष्व तत्

॥१॥

वालखिल्या ऊचुः

कार्तिकस्य सिते पक्षे चतुर्दश्यां समागमत् ॥

वैकुण्ठेशस्तु वैकुण्ठाद्वाराणस्यां कृते युगे

॥२॥

रात्र्यां तुर्यांशशेषायां स्नात्वाऽसौ मणिकर्णिके ॥

गृहीत्वा हेमपद्मानां सहस्रं वै ततोऽव्रजत्

॥३॥

अतिभक्त्या पूजयितुं शिवया सहितं शिवम् ॥

विधाय पूजां वैश्वेशीं ततः पद्मैरपूजयत्

॥४॥

सहस्रसंख्यां कृत्वादावेकनाम्ना ततः परम् ॥

आरब्धं पूजनं तेन शिवस्तद्भक्तिमैक्षत

॥५॥

एकं पद्मं पद्ममध्यान्निलीयाऽऽत्तं हरेण तु ॥

ततः पूजितवान्विष्णुरेकोनं कमलं त्वभूत्

॥६॥

इतस्ततस्तेन दृष्टं पद्मं तिष्ठति न क्वचित् ॥

कमलेषु भ्रमो जातोऽथवा नामसु मे भ्रमः

॥७॥

क्षणं विचार्य स हरिर्न मे नामभ्रमोऽभवत् ॥

पद्मे चैव भ्रमो जातो विचार्यैवं पुनःपुनः

॥८॥

सहस्रपद्मसंकल्पः पूजार्थं तु कृतो मया ॥

अर्च्यः कथं महादेव एकोनकमलैर्मया

॥९॥

यद्यानेतुं गमिष्यामि भंगः स्यादासनस्य तु ॥

अतः परं किं विधेयं चिन्तोद्विग्नो हरिस्तदा

॥१०॥

एकः प्रकार उत्पन्नो हृदयेऽस्य मुनीश्वराः ॥

पुण्डरीकाक्ष इत्येवं मां वदंति मुनीश्वराः

॥११॥

नेत्रं मे पद्मसदृशे पद्मार्थे त्वर्पयाम्यहम् ॥

इति निश्चित्य मनसा दत्त्वा तर्जनिकां स तु

॥१२॥

नेत्रमध्यात्तदुत्पाट्य महादेवस्तु पूजितः ॥

ततो महेश्वरस्तुष्टो वाक्यमेतदुवाच ह

॥१३॥

महादेव उवाच

त्वत्समो नास्ति मद्भक्तस्त्रैलोक्ये सचराचरे ॥

राज्यं दत्तं त्रिलोक्यास्ते भव त्वं लोकपालकः

॥१४॥

अन्यं वरय भद्रं ते वरं यन्मनसेप्सितम् ॥

अवश्यमेव दास्यामि नात्र कार्या विचारणा

॥१५॥

मद्भक्तिं तु समालंब्य ये द्विषंति जनार्दनम् ॥

ते मद्द्वेष्या नरा विष्णो व्रजेयुर्नरकं ध्रुवम्

॥१६॥

विष्णुरुवाच

त्रैलोक्यरक्षाकरणं ममादिष्टं महेश्वर ॥

दुमर्दाश्च महासत्त्वा दैत्या मार्याः कथं मया

॥१७॥

शिव उवाच

एतत्सुदर्शनं चक्रं महादैत्यनिकृंतनम् ॥

गृहाण भगवन्विष्णो मया तुभ्य निवेदितम्

॥१८॥

अनेन सर्वदैत्यानां भगवन्कदनं कुरु ॥

एवं चक्रं हरेर्दत्त्वा ततो वचनमब्रवीत्

॥१९॥

शिव उवाच

वर्षे च हेमलंबाख्ये मासे श्रीमति कार्तिके ॥

शुक्लपक्षे चतुर्दश्यामरुणाभ्युदयं प्रति

॥२०॥

महादेवतिथौ ब्राह्मे मुहूर्ते मणिकर्णिके ॥

स्नात्वा वैश्वेश्वरं लिंगं वैकुण्ठादेत्य पूजितम्

॥२१॥

सहस्रकमलैस्तस्माद्भविष्यति मम प्रिया ॥

विख्याता सर्वलोकेषु वैकुण्ठाख्या चतुर्दशी

॥२२॥

अन्यं वरं प्रयच्छामि शृणु विष्णो वचो मम ॥

पूर्वरात्रेषु ते पूजा कर्तव्या सर्वजातिभिः

॥२३॥

उपवासं दिवा कुर्यात्सायंकाले तवार्चनम् ॥

पश्चान्ममार्चनं कार्यमन्यथा निष्फलं भवेत्

॥२४॥

ग्राह्या तु हरिपूजायां रात्रिव्याप्ता चतुर्दशी ॥

अरुणोदयवेलायां शिवपूजां समाचरेत्

॥२५॥

सहस्रकमलैर्विष्णुरादौ यैः पूजितो नरैः ॥

पश्चाच्छिवः पूजितश्चेज्जीवन्मुक्तास्त एव हि

॥२६॥

सायं स्नात्वा पंचनदे बिंदुमाधवमर्चयेत् ॥

स्नात्वा यो विष्णुकांच्यां वाऽनंतसेनं समर्चयेत्

॥२७॥

रुद्रकांच्यां ततः स्नात्वा प्रणवेशं समर्चयेत् ॥

आदौ स्नात्वा वह्नितीर्थे यजेन्नारायणं ततः

॥२८॥

रेतोदके ततः स्नात्वा केदारेशं समर्चयेत् ॥

आदौ स्नात्वा सूर्यपुत्र्यां वेणीमाधवमर्चयेत्

॥२९॥

जाह्नव्यां च ततः स्नात्वा संगमेशं प्रपूजयेत् ॥

सर्वाः श्रियस्तस्य वश्याः सत्यं विष्णो मयोदितम्

॥३०॥

एवं तस्मै वरान्दत्त्वा ह्यंतर्धानं ययौ शिवः ॥

तस्मात्सर्वप्रयत्नेन पूज्यौ हरिहरावुभौ

॥३१॥

कलौ दशसहस्राणि विष्णुस्त्यजति मेदिनीम् ॥

तदर्द्धं जाह्नवीतोयं तदर्द्धं ग्रामदेवताः

॥३२॥

कार्तिक्यां पूर्णिमायां तु कुर्यात्त्रैपुरमुत्सवम् ॥

दीपो देयोऽवश्यमेव सायंकाले शिवालये

॥३३॥

* त्रिपुरो नाम दैत्येंद्रः प्रयागे तप आस्थितः ॥

तपसा तस्य संतुष्टो ददौ ब्रह्मा वरं परम्

॥३४॥

देवासुरमनुष्येभ्यो न ते मृत्युर्भविष्यति ॥

इति लब्धवरो दैत्यो विश्वकर्मविनिर्मितम्

॥३५॥

त्रिपुराख्यं विमानं तमारुह्य भुवनत्रयम् ॥

यदा वै पीडयामास तदा देवैः स्तुतो हरः

॥३६॥

त्रिपुरं घातयामास बाणेनैकेन शत्रुहा ॥

कार्तिक्यां पूर्णिमायां तु सर्वे देवाः प्रतुष्टुवुः

॥३७॥

तस्मिन्दिने सर्वदेवैर्दीपा दत्ता हराय च ॥

सर्वथैव प्रदेयाश्च दीपास्तु हरतुष्टये

॥३८॥

विंशतिः सप्तशतकाः सहिता दीपवर्तयः ॥

ददद्दीपं पूर्णिमायां सर्वपापैः प्रमुच्यते

॥३९॥

पौर्णमास्यां तु संध्यायां कर्तव्यस्त्रिपुरोत्सवः ॥

दद्यादनेन मन्त्रेण प्रदीपांश्च सुरालये

॥४०॥

कीटाः पतंगा मशकाश्च वृक्षा जले स्थले ये विचरंति जीवाः ॥

दृष्ट्वा प्रदीपं न च जन्मभागिनो भवंतु नित्यं श्वपचा हि विप्राः

॥४१॥

कार्यस्तस्मात्पौर्णमास्यां त्रिपुराय महोत्सवः ॥

कार्तिक्यां कृत्तिकायोगे यः कुर्यात्स्वामिदर्शनम्

॥४२॥

सप्त जन्म भवेद्विप्रो धनाढ्यो वेदपारगः ॥

अत्र कृत्वा वृषोत्सर्गं नक्ताच्छैवपुरं व्रजेत्

॥४३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये वैकुण्ठचतुर्दशी त्रिपुरीपूर्णिमाव्रतविधानकथनंनाम पंचत्रिंशोऽध्यायः ॥ ३५ ॥