प्रयागतीर्थप्रशंसाप्रसंगवर्णनम्
सूत उवाच
श्रियः पतिमथामंत्र्य गते देवर्षिसत्तमे ॥
हर्षोत्फुल्लाऽऽनना सत्या वासुदेवमथाऽब्रवीत्
॥१॥सत्यभामोवाच
धन्यास्मि कृतकृत्याऽस्मि सफलं जीवितं मम ॥
दानं व्रतं तपो वाऽपि किं नु पूर्वं कृतं मया
॥२॥येनाऽहं मर्त्यजा देव तवांगार्द्धहराऽभवम् ॥
भवांतरे च किंशीला काचाऽहं कस्य कन्यका ॥
तवाऽहं वल्लभा जाता तद्वदस्व ममाऽखिलम्
॥३॥श्रीकृष्ण उवाच
शृणुष्वैकमना कांते यथा त्वं पूर्वजन्मनि
॥४॥पुण्यव्रतं कृतवती तत्सर्वं कथयामि ते ॥
आसीत्कृतयुगस्यांते मायापुर्यां द्विजोत्तमः
॥५॥आत्रेयो देवशर्मेति वेदवेदांगपारगः ॥
तस्यातिवयसश्चाऽऽसीन्नाम्ना गुणवती सुता
॥६॥अपुत्रः स स्वशिष्याय चंद्रनाम्ने ददौ सुताम् ॥
तमेव पुत्रवन्मेने स च तं पितृवद्वशी
॥७॥तौ कदाचिद्वनं यातौ कुशेध्माहरणार्थिनौ ॥
निहतौ रक्षसा तौ च कृतांतसमरूपिणा
॥८॥स्वस्वपुण्य प्रभावेन विष्णुलोकं गतावुभौ ॥
ततो गुणवती श्रुत्वा रक्षसा निहतावुभौ
॥९॥पितृभर्तृजदुःखार्ता कारुण्यं पर्यदेवयत् ॥
सा गृहोपस्करा न्सर्वान्विक्रीयाशु च कर्मं तत्
॥१०॥तयोश्चक्रे यथाशक्ति पारलौकीं ततः क्रियाम् ॥
तस्मिन्नेव पुरे चक्रे वासं सा मृतजीविनी
॥११॥व्रतद्वयं तया सम्यगाजन्ममरणात्कृतम् ॥
एकादशीव्रतं सम्यक्सेवनं कार्तिकस्य च
॥१२॥इत्थं गुणवती सम्यक्प्रत्यब्द व्रतिनी ह्यभूत् ॥
कदाचित्सरुजा साऽथ कृशांगी ज्वरपीडिता
॥१३॥स्नातुं गंगां गता कांते कथंचिच्छनकैस्तदा ॥
यावज्जलांतरगता कंपिता शीतपीडिता
॥१४॥तावत्सा विह्वलाऽपश्यद्विमानं यातमंबरात् ॥
अथ सा तद्विमानस्था वैकुण्ठभुवनं ययौ
॥१५॥कार्तिकव्रतपुण्येन मत्सान्निध्यं गताऽभवत् ॥
अथ ब्रह्मादिदेवानां यदा प्रार्थनया भुवम्
॥१६॥आगतोऽहं गणाः सर्वे यातास्तेऽपि मया सह ॥
एते हि यादवाः सर्वे मद्गणा एव भामिनि
॥१७॥पिता ते देवशर्माऽभूत्सत्राजिदभिधो ह्ययम् ॥
यश्चंद्रनामाऽसोऽक्रूरस्त्वं सा गुणवती शुभा
॥१८॥कार्तिकव्रतपुण्येन बहु मत्प्रीतिदायिनी ॥
मद्द्वारि यत्त्वया पूर्वं तुलसीवाटिका कृता
॥१९॥तस्मादयं कल्पवृक्षस्तवांगणगतः शुभे ॥
आजन्ममरणात्पूर्वं यत्कृतं कार्तिकव्रतम्
॥२०॥कदाचिदपि तेन त्वं मद्वियोगं न यास्यसि ॥
सत्योवाच ॥
मासानां तु कथं नाम स मासः कार्तिको वरः
॥२१॥प्रियस्ते देवदेवेश कारणं तत्र कथ्यताम् ॥
श्रीकृष्ण उवाच ॥
साधु पृष्टं त्वया कांते शृणुष्वैकाग्रमानसा
॥२२॥पृथोर्वैन्यस्य संवादं महर्षेर्नारदस्य च ॥
एवमेव पुरा पृष्टो नारदः पृथुनाब्रवीत्
॥२३॥नारद उवाच
शंखनामाऽभवत्पूर्वमसुरः सागरात्मजः ॥
इन्द्रादिलोकपालानामधिकाराञ्जहार ह
॥२४॥सुवर्णाद्रिगुहादुर्गसंस्थितास्त्रिदशादयः ॥
तद्वीक्षयांबभूवुस्ते तदा दैत्यो व्यचारयत्
॥२५॥हृताधिकारास्त्रिदशा मया यद्यपि निर्जिताः ॥
लक्ष्यंते बलयुक्तास्ते करणीयं मयाऽत्र किम्
॥२६॥ज्ञातं तत्तु मया देवा वेदमन्त्रबलान्विताः ॥
तान्हरिष्ये ततः सर्वे बलहीना भवंति वै
॥२७॥इति मत्वा ततो दैत्यो विष्णुमालक्ष्य निद्रितम् ॥
सत्यलोकाज्जहाराशु वेदानादिस्वयंभुवः
॥२८॥नीतास्तु तेन ते वेदास्तद्भयात्ते निराक्रमन् ॥
तोयानि विविशुर्यज्ञमंत्रबीजसमन्विताः
॥२९॥तान्मार्गमाणः शंखोऽपि समुद्रांतर्गतो भ्रमन् ॥
न ददर्श तदा दैत्यः क्वचिदेकत्र संस्थितान् ॥
अथ देवैः स्तुतो विष्णुर्बोधितस्तानुवाच ह
॥३०॥विष्णुरुवाच
वरदोऽहं सुरगणा गीतवाद्यादिमंगलैः
॥३१॥ऊर्जस्य शुक्लैकादश्यां भवद्भिः प्रतिबोधितः ॥
अतश्चैषा तिथिर्मान्या साऽतीव प्रीतिदा मम
॥३२॥वेदाः शंखहृताः सर्वे तिष्ठंत्युदकसंस्थिताः ॥
तानानयाम्यहं देवा हत्वा सागरनंदनम्
॥३३॥अद्यप्रभृति वेदास्तु मंत्रबीजसमन्विताः ॥
प्रत्यब्दं कार्तिके मासि विश्रमंत्वप्सु सर्वदा
॥३४॥कालेऽस्मिन्ये प्रकुर्वंति प्रातःस्नानं नरोत्तमाः ॥
ते सर्वे यज्ञाऽवभृथैः सुस्नाताः स्युर्न संशयः
॥३५॥अद्यप्रभृत्यहमपि भवामि जलमध्यगः ॥
भवन्तोऽपि मया सार्द्धमायांतु समुनीश्वराः
॥३६॥कातिकव्रतिनां चेंद्र रक्षा कार्या त्वया सदा ॥
इत्युक्त्वा भगवान्विष्णुः शफरीतुल्यरूपधृक् ॥
खात्पपात जले विंध्यवासिनः कस्य पश्यतः
॥३७॥हत्वा शंखासुरं विष्णुर्बदरीवनमागमत् ॥
तत्राऽऽहूय ऋषीन्सर्वानिदमाज्ञापयत्प्रभुः
॥३८॥विष्णुरुवाच
जलांतरविशीर्णांस्तान्यूयं वेदान्प्रमार्गथ ॥
आनयध्वं च त्वरिताः सागरस्य जलांतरात् ॥
तावत्प्रयागं तिष्ठामि देवतागणसंयुतः
॥३९॥नारद उवाच
ततस्तैस्सर्वमुनिभिस्तपोबलसमन्वितैः
॥४०॥उद्धृताश्च सबीजास्ते वेदा यज्ञसमन्विताः ॥
तेषु यावन्मितं येन लब्धं तावद्धि तस्य तत्
॥४१॥स स एव ऋषिर्जातस्तत्तत्प्रभृति पार्थिव ॥
अथ सर्वेऽपि संगम्य प्रयागं मुनयो ययुः
॥४२॥विष्णवे सविधात्रे ते लब्धान्वेदान्न्यवेदयन् ॥
लब्ध्वा वेदान्समग्रांस्तु ब्रह्मा हर्षसमन्वितः
॥४३॥अयजद्वाजिमेधेन देवर्षिगणसंयुतः ॥
यज्ञांऽते देवताः सर्वे विज्ञप्तिं चक्रुरंजसा
॥४४॥देवा ऊचुः
देवदेव जगन्नाथ विज्ञप्तिं शृणु नः प्रभो ॥
हर्षकालोऽयमस्माकं तस्मात्त्वं वरदो भव
॥४५॥स्थानेऽस्मिन्द्रुहिणो वेदान्नष्टान्प्राप पुनस्त्वयम् ॥
यज्ञभागान्वयं प्राप्तास्त्वत्प्रसादाद्रमापते
॥४६॥स्थानमेतद्धि नः श्रेष्ठं पृथिव्यां पुण्यवर्धनम् ॥
भुक्तिमुक्तिप्रदं चाऽस्तु प्रसादाद्भवतः सदा
॥४७॥कालोऽप्ययं महापुण्यो ब्रह्मघ्नाऽऽदिविशुद्धिकृत् ॥
दत्ताऽक्षयकरं चाऽस्तु वरमेवं ददस्व नः
॥४८॥विष्णुरुवाच
ममाप्येतद्वृतं देवा यद्भवद्भिरुदाहृतम् ॥
तथास्तु सुलभं त्वेतद्ब्रह्मक्षेत्रमितिप्रथम्
॥४९॥सूर्यवंशोद्भवो राजा गंगामत्रानयिष्यति ॥
सा सूर्यकन्यया चात्र कालिंद्या योगमेष्यति
॥५०॥यूयं च सर्वे ब्रह्माद्या निवसंतु मया सह ॥
तीर्थराजेति विख्यातं तीर्थमेतद्भविष्यति
॥५१॥सर्वपापानि नश्यंति तीर्थराजस्य दर्शनात् ॥
सूर्ये मकरगे प्राप्ते स्नायिनां पापनाशनः
॥५२॥कालोऽप्येष महापुण्यफलदोऽस्तु सदा नृणाम् ॥
सालोक्यादिफलं स्नानैर्माघे मकरगे रवौ
॥५३॥नारद उवाच
एवं देवान्देवदेवस्तदुक्त्वा तत्रैवांतर्धानमागात्सवेधाः ॥
देवाः सर्वेप्यंशकैस्तेऽप्यतिष्ठंश्चांतर्धानं प्रापुरिंद्रादयस्ते
॥५४॥167a कार्तिके तुलसीमूले योऽर्चयेद्धरिमीश्वरम् ॥
भुक्त्वेह निखिलान्भोगानंते विष्णुपुरं व्रजेत्
॥५५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये सत्यभामापूर्वजन्मवृत्तांतकथनपूर्वक प्रयागतीर्थप्रशंसाप्रसंगवर्णनंनाम त्रयोदशोऽध्यायः ॥ १३ ॥