अध्ययनम्
- अनुक्रमणिका
- मूलम्
१२ इरिम्बिष्ठिः काण्व: । इन्द्र: । गायत्री ।
प्र स॒म्राजं॑ चर्षणी॒नामिन्द्रं॑ स्तोता॒ नव्यं॑ गी॒र्भिः । नरं॑ नृ॒षाहं॒ मंहि॑ष्ठम्
॥१॥pra sa̱mrāja̍ṃ carṣaṇī̱nāmindra̍ṃ stotā̱ navya̍ṃ gī̱rbhiḥ | nara̍ṃ nṛ̱ṣāha̱ṃ maṃhi̍ṣṭham
यस्मि॑न्नु॒क्थानि॒ रण्य॑न्ति॒ विश्वा॑नि च श्रव॒स्या॑ । अ॒पामवो॒ न स॑मु॒द्रे
॥२॥yasmi̍nnu̱kthāni̱ raṇya̍nti̱ viśvā̍ni ca śrava̱syā̍ | a̱pāmavo̱ na sa̍mu̱dre
तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे॑ कृ॒त्नुम् । म॒हो वा॒जिनं॑ स॒निभ्य॑:
॥३॥taṃ su̍ṣṭu̱tyā vi̍vāse jyeṣṭha̱rāja̱ṃ bhare̍ kṛ̱tnum | ma̱ho vā̱jina̍ṃ sa̱nibhya̍:
यस्यानू॑ना गभी॒रा मदा॑ उ॒रव॒स्तरु॑त्राः । ह॒र्षु॒मन्त॒: शूर॑सातौ
॥४॥yasyānū̍nā gabhī̱rā madā̍ u̱rava̱staru̍trāḥ | ha̱rṣu̱manta̱: śūra̍sātau
तमिद्धने॑षु हि॒तेष्व॑धिवा॒काय॑ हवन्ते । येषा॒मिन्द्र॒स्ते ज॑यन्ति
॥५॥tamiddhane̍ṣu hi̱teṣva̍dhivā̱kāya̍ havante | yeṣā̱mindra̱ste ja̍yanti
तमिच्च्यौ॒त्नैरार्य॑न्ति॒ तं कृ॒तेभि॑श्चर्ष॒णय॑: । ए॒ष इन्द्रो॑ वरिव॒स्कृत्
॥६॥tamiccyau̱tnairārya̍nti̱ taṃ kṛ̱tebhi̍ścarṣa̱ṇaya̍: | e̱ṣa indro̍ variva̱skṛt
इन्द्रो॑ ब्र॒ह्मेन्द्र॒ ऋषि॒रिन्द्र॑: पु॒रू पु॑रुहू॒तः । म॒हान्म॒हीभि॒: शची॑भिः
॥७॥indro̍ bra̱hmendra̱ ṛṣi̱rindra̍: pu̱rū pu̍ruhū̱taḥ | ma̱hānma̱hībhi̱: śacī̍bhiḥ
स स्तोम्य॒: स हव्य॑: स॒त्यः सत्वा॑ तुविकू॒र्मिः । एक॑श्चि॒त्सन्न॒भिभू॑तिः
॥८॥sa stomya̱: sa havya̍: sa̱tyaḥ satvā̍ tuvikū̱rmiḥ | eka̍ści̱tsanna̱bhibhū̍tiḥ
तम॒र्केभि॒स्तं साम॑भि॒स्तं गा॑य॒त्रैश्च॑र्ष॒णय॑: । इन्द्रं॑ वर्धन्ति क्षि॒तय॑:
॥९॥tama̱rkebhi̱staṃ sāma̍bhi̱staṃ gā̍ya̱traiśca̍rṣa̱ṇaya̍: | indra̍ṃ vardhanti kṣi̱taya̍:
प्र॒णे॒तारं॒ वस्यो॒ अच्छा॒ कर्ता॑रं॒ ज्योति॑: स॒मत्सु॑ । सा॒स॒ह्वांसं॑ यु॒धामित्रा॑न्
॥१०॥pra̱ṇe̱tāra̱ṃ vasyo̱ acchā̱ kartā̍ra̱ṃ jyoti̍: sa̱matsu̍ | sā̱sa̱hvāṃsa̍ṃ yu̱dhāmitrā̍n
स न॒: पप्रि॑: पारयाति स्व॒स्ति ना॒वा पु॑रुहू॒तः । इन्द्रो॒ विश्वा॒ अति॒ द्विष॑:
॥११॥sa na̱: papri̍: pārayāti sva̱sti nā̱vā pu̍ruhū̱taḥ | indro̱ viśvā̱ ati̱ dviṣa̍:
स त्वं न॑ इन्द्र॒ वाजे॑भिर्दश॒स्या च॑ गातु॒या च॑ । अच्छा॑ च नः सु॒म्नं ने॑षि
॥१२॥sa tvaṃ na̍ indra̱ vāje̍bhirdaśa̱syā ca̍ gātu̱yā ca̍ | acchā̍ ca naḥ su̱mnaṃ ne̍ṣi