अध्ययनम्
- अनुक्रमणिका
- मूलम्
६ वामदेवो गौतमः। इन्द्राबृहस्पती। गायत्री।
इ॒दं वा॑मा॒स्ये॑ ह॒विः प्रि॒यमि॑न्द्राबृहस्पती । उ॒क्थं मद॑श्च शस्यते
॥१॥i̱daṃ vā̍mā̱sye̍ ha̱viḥ pri̱yami̍ndrābṛhaspatī | u̱kthaṃ mada̍śca śasyate
अ॒यं वां॒ परि॑ षिच्यते॒ सोम॑ इन्द्राबृहस्पती । चारु॒र्मदा॑य पी॒तये॑
॥२॥a̱yaṃ vā̱ṃ pari̍ ṣicyate̱ soma̍ indrābṛhaspatī | cāru̱rmadā̍ya pī̱taye̍
आ न॑ इन्द्राबृहस्पती गृ॒हमिन्द्र॑श्च गच्छतम् । सो॒म॒पा सोम॑पीतये
॥३॥ā na̍ indrābṛhaspatī gṛ̱hamindra̍śca gacchatam | so̱ma̱pā soma̍pītaye
अ॒स्मे इ॑न्द्राबृहस्पती र॒यिं ध॑त्तं शत॒ग्विन॑म् । अश्वा॑वन्तं सह॒स्रिण॑म्
॥४॥a̱sme i̍ndrābṛhaspatī ra̱yiṃ dha̍ttaṃ śata̱gvina̍m | aśvā̍vantaṃ saha̱sriṇa̍m
इन्द्रा॒बृह॒स्पती॑ व॒यं सु॒ते गी॒र्भिर्ह॑वामहे । अ॒स्य सोम॑स्य पी॒तये॑
॥५॥indrā̱bṛha̱spatī̍ va̱yaṃ su̱te gī̱rbhirha̍vāmahe | a̱sya soma̍sya pī̱taye̍
सोम॑मिन्द्राबृहस्पती॒ पिब॑तं दा॒शुषो॑ गृ॒हे । मा॒दये॑थां॒ तदो॑कसा
॥६॥soma̍mindrābṛhaspatī̱ piba̍taṃ dā̱śuṣo̍ gṛ̱he | mā̱daye̍thā̱ṃ tado̍kasā