धर्मारण्यकथां पुण्यां श्रुत्वा तृप्तिर्न मे विभो
युधिष्ठिर उवाच
धर्मारण्यकथां पुण्यां श्रुत्वा तृप्तिर्न मे विभो ॥
यदायदा कथयसि तदा प्रोत्सहते मनः ॥
अतः परं किमभवत्परं कौतूहलं हि मे
॥१॥व्यास उवाच
शृणु पार्थ महापुण्यां कथां स्कंदपुराणजाम् ॥
स्थाणुनोक्तां च स्कंदाय धर्मारण्योद्भवां शुभाम्
॥२॥सर्वतीर्थस्य फलदां सर्वोपद्रवनाशिनीम् ॥
कैलासशिखरासीनं देवदेवं जगद्गुरुम् ॥
पंचवक्त्रं दशभुजं त्रिनेत्रं शूलपाणिनम्
॥३॥कपालखटवांगकरं नागयज्ञोपवीतिनम् ॥
गणैः परिवृतं तत्र सुरासुरनमस्कृतम्
॥४॥नानारूपगुणैर्गीतं नारदप्रमुखैर्युतम् ॥
गंधर्वैश्चाप्सरोभिश्च सेवितं तमुमापतिम् ॥
तत्रस्थं च महादेवं प्रणिपत्याब्रवीत्सुतः
॥५॥स्कंद उवाच
स्वामिन्निंद्रादयो देवा ब्रह्माद्याश्चैव सर्वशः ॥
तव द्वारे समायातान्त्वद्दर्शनैकलालसाः ॥
किमाज्ञापयसे देव करवाणि तवाग्रतः
॥६॥व्यास उवाच
स्कंदस्य वचनं श्रुत्वा आसनादुत्थितो हरः ॥
वृषभं न समारूढो गंतुकामोऽभवत्तदा
॥७॥गतुकामं शिवं दृष्ट्वा स्कंदो वाक्यमथाब्रवीत्
॥८॥स्कंद उवाच
किं कार्यं देव देवानां यत्त्वमाहूयसे त्वरम् ॥
वृषं त्यक्त्वा कृपासिंधो कृपास्ति यदि मे वद
॥९॥देवदानव युद्धं वा किं कार्यं वा महत्तरम्
॥१०॥शिव उवाच
शृणुष्वैकाग्रमनसा येनाहं व्यग्रचेतसः ॥
अस्ति स्थानं महापुण्यं धर्म्मारण्यं च भूतले
॥११॥तत्रापि गंतुकामोऽहं देवैः सह षडाननः
॥१२॥स्कंद उवाच
तत्र गत्वा महादेव किं करिष्यसि सांप्रतम् ॥
तन्मे ब्रूहि जगन्नाथ कृत्यं सर्वमशेषतः
॥१३॥शिव उवाच
श्रूयतां वचनं पुत्र मनसोल्हादकारणम् ॥
आदितः सर्व्ववृत्तानां सृष्टि स्थितिकरं महत्
॥१४॥परंतु प्रलये जाते सर्वतस्तमसा वृतम् ॥
आसीदेकं तदा ब्रह्म निर्गुणं बीजमव्ययम्
॥१५॥निर्मितं वै गुणैरादौ मह द्द्रव्यं प्रचक्ष्यते
॥१६॥महाकल्पे च संप्राप्ते चराचरे क्षयं गते ॥
जलरूपी जगन्नाथो रममाणस्तु लीलया
॥१७॥चिरकाले गते सोपि पृथिव्यादिसुतत्त्वकैः ॥
वृक्षमुत्पादयामासायुतशाखामनोरमम्
॥१८॥फलैर्विशालैराकीर्णं स्कंधकांडादिशोभितम् ॥
फलौघाढ्यो जटायुक्तो न्यग्रो धो विटपो महान्
॥१९॥बालभावं ततः कृत्वा वासुदेवो जनार्द्दनः ॥
शेतेऽसौ वटपत्रेषु विश्वं निर्मातुमुत्सुकः
॥२०॥सनाभिकमले विष्णो र्जातो ब्रह्मा हि लोककृत् ॥
सर्वं जलमयं पश्यन्नानाकारमरूपकम्
॥२१॥तं दृष्ट्वा सहसोद्वेगाद्ब्रह्मा लोकपितामहः ॥
इदमाह तदा पुत्र किं करो मीति निश्चितम्
॥२२॥खे जजान ततो वाणी देवात्सा चाशरीरिणी ॥
तपस्तप विधे धातर्यथा मे दर्शनं भवेत्
॥२३॥तच्छ्रुत्वा वचनं तत्र ब्रह्मा लोकपितामहः ॥
प्रातप्यत तपो घोरं परमं दुष्करं महत्
॥२४॥प्रहसन्स तदा बालरूपेण कमलापतिः ॥
उवाच मधुरां वाचं कृपालुर्बाल लीलया
॥२५॥श्रीविष्णुरुवाच
पुत्र त्वं विधिना चाद्य कुरु ब्रह्मांडगोलके ॥
पातालं भूतलं चैव सिंधुसागरकाननम्
॥२६॥वृक्षाश्च गिरयो द्विपदाः पशवस्तथा ॥
पक्षिणश्चैव गंधर्वाः सिद्धा यक्षाश्च राक्षसाः
॥२७॥श्वापदाद्याश्च ये जीवाश्चतुराशीतियोनयः ॥
उद्भिज्जाः स्वेदजाश्चैव जरायुजास्तथांडजाः
॥२८॥एकविंशतिलक्षाणि एकैकस्य च योनयः ॥
कुरु त्वं सकलं चाशु इत्युक्त्वांतरधीयत ॥
ब्रह्मणा निर्मितं सर्वं ब्रह्मांडं च यथोदितम्
॥२९॥यस्मिन्पितामहो जज्ञे प्रभुरेकः प्रजापतिः ॥
स्थाणुः सुरगुरुर्भानुः प्रचेताः परमेष्ठिनः
॥३०॥यथा दक्षो दक्षपुत्रा स्तथा सप्तर्षयश्च ये ॥
ततः प्रजानां पतयः प्राभवन्नेकविंशतिः
॥३१॥पुरुषश्चाप्रमेयश्च एवं वंश्यर्षयो विदुः ॥
विश्वेदेवास्तथादित्या वसव श्चाश्विनावपि
॥३२॥यक्षाः पिशाचाः साध्याश्च पितरो गुह्यकास्तथा ॥
ततः प्रसूता विद्वांसो ह्यष्टौ ब्रह्मर्षयोऽमलाः
॥३३॥राजर्षयश्च बहवः सर्वे समुदिता गुणैः ॥
द्यौरापः पृथिवी वायुरंतरिक्षं दिशस्तथा
॥३४॥संवत्सरार्तवो मासाः पक्षाहोरात्रयः क्रमात् ॥
कलाकाष्ठामुहूर्तादि निमे षादि लवास्तथा
॥३५॥ग्रहचक्रं सनक्षत्रं युगा मन्वन्तरादयः ॥
यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकम्
॥३६॥यदिदं दृश्यते चक्रं किंचि त्स्थावरजंगमम् ॥
पुनः संक्षिप्यते पुत्र जगत्प्राप्ते युगक्षये
॥३७॥यथर्तावृतुलिंगानि नामरूपाणि पर्यये ॥
दृश्यन्ते तानि तान्येव तथा वत्स युगादिकम्
॥३८॥शिव उवाच
अतः परं प्रवक्ष्यामि कथां पौराणिकीं शुभाम् ॥
ब्रह्मणश्च तथा पुत्र वंशस्यैवानुकीर्तनम्
॥३९॥ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः ॥
मरीचिरत्र्यंगिरसौ पुलस्त्यः पुलहः क्रतुः
॥४०॥मरीचेः कश्यपः पुत्रः कश्यपाच्चरमाः प्रजाः ॥
प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश
॥४१॥अदितिर्दितिर्दनुः काला दनायुः सिंहिका तथा ॥
क्रोधा प्रोवा वसिष्ठा च विनता कपिला तथा
॥४२॥कण्डूश्चैव सुनेत्रा च कश्यपाय ददौ तदा ॥
अदित्यां द्वादशादित्याः संजाता हि शुभाननाः
॥४३॥सूर्याद्वै धर्मराड् जज्ञे ते नेदं निर्मितं पुरा ॥
धर्मेण निर्मितं दृष्ट्वा धर्मारण्यमनुत्तमम् ॥
धर्मारण्यमिति प्रोक्तं यन्मया स्कन्द पुण्यदम्
॥४४॥स्कन्द उवाच
धर्मारण्यस्य चाख्यानं परमं पावनं तथा ॥
श्रोतुमिच्छामि तत्सर्वं कथयस्व महेश्वर
॥४५॥ईश्वर उवाच
इन्द्राद्याः सकला देवा अन्वयुर्ब्रह्मणा सह ॥
अहं वै तत्र यास्यामि क्षेत्रं पापनिषूदनम्
॥४६॥स्कन्द उवाच
अहमप्यागमिष्यामि तं द्रष्टुं शशिशे खर
॥४७॥सूत उवाच
ततः स्कन्दस्तथा रुद्रः सूर्यश्चैवानिलोऽनलः ॥
सिद्धाश्चैव सगन्धर्वास्तथैवाप्सरसः शुभाः
॥४८॥पिशाचा गुह्यकाः सर्व इन्द्रो वरुण एव च ॥
नागाः सर्वाः समाजग्मुः शुक्रो वाचस्पतिस्तथा
॥४९॥ग्रहाः सर्वे सनक्षत्रा वसवोऽष्टौ ध्रुवा दयः ॥
अंतरिक्षचराः सर्वे ये चान्ये नगवासिनः
॥५०॥ब्रह्मादयः सुराः सर्वे वैकुण्ठं परया मुदा ॥
मन्त्रणार्थं तदा ब्रह्मा विष्णवेऽमितते जसे
॥५१॥गत्वा तस्मिंश्च वैकुण्ठे ब्रह्मा लोकपितामहः ॥
ध्यात्वा मुहूर्तमाचष्ट विष्णुं प्रति सुहर्षितः
॥५२॥ब्रह्मोवाच
कृष्ण कृष्ण महाबाहो कृपालो परमेश्वर ॥
स्रष्टा त्वं चैव हर्ता त्वं त्वमेव जगतः पिता
॥५३॥नमस्ते विष्णवे सौम्य नमस्ते गरुडध्वज ॥
नमस्ते कम लाकांत नमस्तेब्रह्मरूपिणे
॥५४॥नमस्ते मत्स्यरूपाय विश्वरूपाय वै नमः ॥
नमस्ते दैत्यनाशाय भक्तानामभयाय च
॥५५॥कंसघ्नाय नमस्तेस्तु बलदैत्यजिते नमः ॥
ब्रह्मणैवं स्तुतश्चासीत्प्रत्यक्षोऽसौ जनार्द्दनः
॥५६॥पीतांबरो घनश्यामो नागारिकृतवाहनः ॥
चतुर्भुजो महा तेजाः शंखचक्रगदाधरः
॥५७॥स्तूयमानः सुरैः सर्वैः स देवोऽमितविक्रमः ॥
विद्याधरैस्तथा नागैः स्तूयमानश्च सर्वशः
॥५८॥उत्तस्थौ स तदा देवो भास्करामितदीप्तिमान् ॥
कोटिरत्नप्रभाभास्वन्मुकुटादिविभूषितः
॥५९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये विष्णुसमागमोनामाष्टमोऽध्यायः ॥ ८ ॥