सत्यमंदिरस्थापनवर्णनः
व्यास उवाच
ततश्च रामदूतास्ते नत्वा राममथाब्रुवन् ॥
रामराम महाबाहो वरनारी शुभानना
॥१॥सुवस्त्रभूषाभरणां मृदुवाक्यपरायणाम् ॥
एकाकिनीं क्रदमानाम दृष्ट्वा तां विस्मिता वयम्
॥२॥समीपवर्तिनो भूत्वा पृष्टा सा सुरसुन्दरी ॥
का त्वं देवि वरारोहे देवी वा दानवी नु किम्
॥३॥रामः पृच्छति देवि त्वां ब्रूहि सर्वं यथातथम् ॥
तच्छ्रुत्वा वचनं रामा सोवाच मधुरं वचः
॥४॥रामं प्रेषयत भद्रं वो मम दुःखापहं परम्
॥५॥तदाकर्ण्य ततो रामः संभ्रमात्त्वरितो ययौ ॥
दृष्ट्वा तां दुःखसंतप्तां स्वयं दुःखमवाप सः ॥
उवाच वचनं रामः कृतांजलिपुटस्तदा
॥६॥श्रीराम उवाच
का त्वं शुभे कस्य परिग्रहो वा केनावधूता विजने निरस्ता ॥
मुष्टं धनं केन च तावकीनमाचक्ष्व मातः सकलं ममाग्रे
॥७॥इत्युक्त्वा चातिदुःखार्तो रामो मतिमतां वरः ॥
प्रणामं दंडवच्चक्रे चक्रपाणिरिवापरः
॥८॥तयाभिवंदितो रामः प्रगम्य च पुनःपुनः ॥
तुष्टया परया प्रीत्या स्तुतो मधुरया गिरा
॥९॥परमात्मन्परेशान दुःखहारिन्सनातन ॥
यदर्थमवतारस्ते तच्च कार्यं त्वया कृतम्
॥१०॥रावणः कुम्भकर्णश्च शक्रजित्प्रमुखास्तथा ॥
खरदूषणत्रिशिरोमारीचाक्षकुमारकाः
॥११॥असंख्या निर्जिता रौद्रा राक्षसाः समरांगणे
॥१२॥किं वच्मि लोकेश सुकीर्त्तिमद्य ते वेधास्त्वदीयांगजपद्मसंभवः ॥
विश्वं निविष्टं च ततो ददर्श वटस्य पत्रे हि यथो वटो मतः
॥१३॥धन्यो दशरथो लोके कौशल्या जननी तव ॥
ययोर्जातोसि गोविंद जगदीश परः पुमान्
॥१४॥धन्यं च तत्कुलं राम यत्र त्वमागतः स्वयम् ॥
धन्याऽयोध्यापुरी राम धन्यो लोकस्त्वदाश्रयः
॥१५॥धन्यः सोऽपि हि वाल्मीकिर्येन रामायणं कृतम् ॥
कविना विप्रमुख्येभ्य आत्मबुद्ध्या ह्यनागतम्
॥१६॥त्वत्तोऽभवत्कुलं चेदं त्वया देव सुपावितम्
॥१७॥नरपतिरिति लोकैः स्मर्यते वैष्णवांशः स्वयमसि रमणीयैस्त्वं गुणैर्विष्णुरेव ॥
किमपि भुवनकार्यं यद्विचिंत्यावतीर्य तदिह घटयतस्ते वत्स निर्विघ्नमस्तु
॥१८॥स्तुत्वा वाचाथ रामं हि त्वयि नाथे नु सांप्रतम् ॥
शून्या वर्ते चिरं कालं यथा दोषस्तथैव हि
॥१९॥धर्मारण्यस्य क्षेत्रस्य विद्धि मामधिदेवताम् ॥
वर्षाणि द्वादशेहैव जातानि दुःखि तास्म्यहम्
॥२०॥निर्जनत्वं ममाद्य त्वमुद्धरस्व महामते ॥
लोहासुरभयाद्राम विप्राः सर्वे दिशो दश
॥२१॥गताश्च वणिजः सर्वे यथास्थानं सुदुःखिताः ॥
स दैत्यो घातितो राम देवैः सुरभयंकरः
॥२२॥आक्रम्यात्र महामायो दुराधर्षो दुरत्ययः ॥
न ते जनाः समायांति तद्भयादति शंकिताः
॥२३॥अद्य वै द्वादश समाः शून्यागारमनाथवत् ॥
यस्माच्च दीर्घिकायां मे स्नानदानोद्यतो जनः
॥२४॥राम तस्यां दीर्घिकायां निपतंति च शूकराः ॥
यत्रांगना भर्तृयुता जलक्रीडापरायणाः
॥२५॥चिक्रीडुस्तत्र महिषा निपतंति जलाशये ॥
यत्र स्थाने सुपुष्पाणां प्रकरः प्रचुरोऽभवत्
॥२६॥तद्रुद्धं कंटकैर्वृक्षैः सिंहव्याघ्रसमाकुलैः ॥
संचिक्रीडुः कुमाराश्च यस्यां भूमौ निरंतरम्
॥२७॥कुमार्यश्चित्रकाणां च तत्र क्रीडं ति हर्षिताः ॥
अकुर्वन्वाडवा यत्र वेदगानं तिरंतरम्
॥२८॥शिवानां तत्र फेत्काराः श्रूयंतेऽतिभयंकराः ॥
यत्र धूमोऽग्निहोत्राणां दृश्यते वै गृहेगृहे
॥२९॥तत्र दावाः सधूमाश्च दृश्यंतेऽत्युल्बणा भृशम् ॥
नृत्यंते नर्त्तका यत्र हर्षिता हि द्विजाग्रतः
॥३०॥तत्रैव भूतवेताला प्रेताः नृत्यंति मोहिताः ॥
नृपा यत्र सभायां तु न्यषीदन्मंत्रतत्पराः
॥३१॥तस्मिन्स्थाने निषीदंति गवया ऋक्षशल्लकाः ॥
आवासा यत्र दृश्यन्ते द्विजानां वणिजां तथा
॥३२॥कुट्टिमप्रतिमा राम दृश्यंतेत्र बिलानि वै ॥
कोटराणीह वृक्षाणां गवाक्षाणीह सर्वतः
॥३३॥चतुष्का यज्ञवेदिर्हि सोच्छ्राया ह्यभवत्पुरा ॥
तेऽत्र वल्मीकनिचयैर्दृश्यंते परिवेष्टिताः
॥३४॥एवंविधं निवासं मे विद्धि राम नृपोत्तम ॥
शून्यं तु सर्वतो यस्मान्निवासाय द्विजा गताः
॥३५॥तेन मे सुमहद्दुःखं तस्मात्त्राहि नरेश्वर ॥
एतच्छ्रुत्वा वचो राम उवाच वदतां वरः
॥३६॥श्रीराम उवाच
न जाने तावकान्विप्रांश्चतुर्दिक्षु समाश्रितान् ॥
न तेषां वेद्म्यहं संख्यां नामगोत्रे द्विजन्मनाम्
॥३७॥यथा ज्ञातिर्यथा गोत्रं याथातथ्यं निवेदय ॥
तत आनीय तान्सर्वान्स्वस्थाने वासयाम्यहम्
॥३८॥श्रीमातोवाच
ब्रह्मविष्णुमहेशैश्च स्थापिता ये नरेश्वर ॥
अष्टादश सहस्राणि ब्राह्मणा वेदपारगाः
॥३९॥त्रयीविद्यासु विख्याता लोकेऽस्मिन्नमितद्युते ॥
चतुष्षष्टिकगोत्राणां वाडवा ये प्रतिष्ठिताः
॥४०॥श्रीमातादात्त्रयीविद्यां लोके सर्वे द्विजोत्तमाः ॥
षट्त्रिंशच्च सहस्राणि वैश्या धर्मपरायणाः
॥४१॥आर्यवृत्तास्तु विज्ञेया द्विजशुश्रूषणे रताः ॥
बहुलार्को नृपो यत्र संज्ञया सह राजते
॥४२॥कुमारावश्विनौ देवौ धनदो व्ययपूरकः ॥
अधिष्ठात्री त्वहं राम नाम्ना भट्टारिका स्मृता
॥४३॥श्रीसूत उवाच
स्थानाचाराश्च ये केचित्कुलाचारास्तथैव च ॥
श्रीमात्रा कथितं सर्वं रामस्याग्रे पुरातनम्
॥४४॥तस्यास्तु वचनं श्रुत्वा रामो मुदमवाप ह ॥
सत्यंसत्यं पुनः सत्यं सत्यं हि भाषितं त्वया
॥४५॥यस्मात्सत्यं त्वया प्रोक्तं तन्नाम्ना नगरं शुभम् ॥
वासयामि जगन्मातः सत्यमंदिरमेव च
॥४६॥त्रैलोक्ये ख्यातिमाप्नोतु सत्यमंदिरमु त्तमम्
॥४७॥एतदुक्त्वा ततो रामः सहस्रशतसंख्यया ॥
स्वभृत्यान्प्रेषयामास विप्रानयनहेतवे
॥४८॥यस्मिन्देशे प्रदेशे वा वने वा सरि तस्तटे ॥
पर्यंते वा यथास्थाने ग्रामे वा तत्रतत्र च
॥४९॥धर्मारण्यनिवासाश्च याता यत्र द्विजोत्तमाः ॥
अर्घपाद्यैः पूजयित्वा शीघ्रमानयतात्र तान्
॥५०॥अहमत्र तदा भोक्ष्ये यदा द्रक्ष्ये द्विजोत्तमान्
॥५१॥विमान्य च द्विजानेतानागमिष्यति यो नरः ॥
स मे वध्यश्च दंड्यश्च निर्वास्यो विषयाद्बहिः
॥५२॥तच्छ्रुत्वा दारुणं वाक्यं दुःसहं दुःप्रधर्षणम् ॥
रामाज्ञाकारिणो दूता गताः सर्वे दिशो दश
॥५३॥शोधिता वाडवाः सर्वे लब्धाः सर्वे सुहर्षिताः ॥
यथोक्तेन विधानेन अर्घपाद्यैरपूजयन्
॥५४॥स्तुतिं चक्रुश्च विधिवद्विनयाचारपूर्वकम् ॥
आमंत्र्य च द्विजान्सर्वान्रामवाक्यं प्रकाशयन्
॥५५॥ततस्ते वाडवाः सर्वे द्विजाः सेवकसंयुताः ॥
गमनायोद्यताः सर्वे वेदशास्त्रपरायणाः
॥५६॥आगता रामपार्श्वं च बहुमानपुरःसराः ॥
समागतान्द्विजान्दृष्ट्वा रोमांचिततनूरुहः
॥५७॥कृतकृत्यमिवात्मानं मेने दाशरथिर्नृपः ॥
स संभ्रमात्समुत्थाय पदातिः प्रययौ पुरः
॥५८॥करसंपुटकं कृत्वा हर्षाश्रु प्रतिमुञ्चयन् ॥
जानुभ्यामवनिं गत्वा इदं वचनमब्रवीत्
॥५९॥विप्रप्रसादात्कमलावरोऽहं विप्रप्रसादाद्धरणीधरोऽहम् ॥
विप्रप्रसादाज्जगतीपतिश्च विप्रप्रसादान्मम रामनाम
॥६०॥इत्येवमुक्ता रामेण वाड वास्ते प्रहर्षिताः ॥
जयाशीर्भिः प्रपूज्याथ दीर्घायुरिति चाब्रुवन्
॥६१॥आवर्जितास्ते रामेण पाद्यार्घ्यविष्टरादिभिः ॥
स्तुतिं चकार विप्राणां दण्डवत्प्रणिपत्य च
॥६२॥कृतांजलिपुटः स्थित्वा चक्रे पादाभिवंदनम् ॥
आसनानि विचित्राणि हैमान्याभरणानि च
॥६३॥समर्पयामास ततो रामो दशरथात्मजः ॥
अंगुलीयकवासांसि उपवीतानि कर्णकान्
॥६४॥प्रददौ विप्रमुख्येभ्यो नानावर्णाश्च धेनवः ॥
एकैकशत संख्याका घटोध्नीश्च सवत्सकाः
॥६५॥सवस्त्रा बद्धघंटाश्च हेमशृंगविभूषिताः ॥
रूप्यखुरास्ताम्रपृष्ठीः कांस्यपात्रसमन्विताः
॥६६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां। संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ब्रह्मनारदसंवादे सत्यमंदिरस्थापन वर्णनोनाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥