धर्मारण्यतीर्थमाहात्म्यप्रभावकथनम्
व्यास उवाच
एतत्तीर्थस्य माहात्म्यं मया प्रोक्तं तवाग्रतः ॥
अनेकपूर्वजन्मोत्थपातकघ्नं महीपते
॥१॥स्थानानामुत्तमं स्थानं परं स्वस्त्ययनं महत् ॥
स्कंदस्याग्रे पुरा प्रोक्तं महारुद्रेण धीमता
॥२॥त्वं पार्थ तत्र स्नात्वा हि मोक्ष्यसे सर्वपात कात् ॥
तच्छ्रुत्वा व्यासवाक्यं हि धर्म्मराजो युधिष्ठिरः
॥३॥धर्मात्मजस्तदा तात धर्मारण्यं समाविशत् ॥
महापातकनाशाय साधुपालनत त्परः
॥४॥विगाह्य तत्र तीर्थानि देवतायतनानि च ॥
इष्टापूर्तादिकं सर्वं कृतं तेन यथेप्सितम्
॥५॥ततः पापविनिर्मुक्तः पुनर्गत्वा स्वकं पुरम् ॥
इद्रप्रस्थं महासेन शशास वसुधातलम्
॥६॥इदं हि स्थानमासाद्य ये शृण्वंति नरोत्तमाः ॥
तेषां भुक्तिश्च मुक्तिश्च भविष्यति न संशयः
॥७॥भुक्त्वा भोगान्पार्थिवांश्च परं निर्वाणमाप्नुयुः ॥
श्राद्धकाले च संप्राप्ते ये पठंति द्विजातयः
॥८॥उद्धृताः पितरस्तैस्तु यावच्चंद्रार्क्कमेदिनि ॥
द्वापरे च युगे भूत्वा व्यासेनोक्तं महात्मना
॥९॥वारिमात्रे धर्मवाप्यां गयाश्राद्धफलं लभेत् ॥
अत्रागतस्य मर्त्यस्य पापं यमपदे स्थितम्
॥१०॥कथितं धर्मपुत्रेण लोकानां हितकाम्यया ॥
विना अन्नैर्विना दर्भैर्विना चासनमेव वा
॥११॥तोयेन नाशमायाति कोटिजन्मकृतं त्व घम् ॥
सहस्रमुरुशृंगीणां धेनूनां कुरुजांगले ॥
दत्त्वा सूर्यग्रहे पुण्यं धर्मवाप्यां च तर्पणाम्
॥१२॥एतद्वः कथितं सर्वं धर्मारण्यस्य चेष्टितम् ॥
यच्छ्रुत्वा ब्रह्महा गोघ्नो मुच्यते सर्वपातकैः
॥१३॥एकविंशतिवारैस्तु गयायां पिंडपातने ॥
तत्फलं समवाप्नोति सकृदस्मिञ्छ्रुते सति
॥१४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यतीर्थमाहात्म्यप्रभावकथनं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥