मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — धर्मारण्यखण्डः, अध्याय १

3
ब्रह्मखण्डः · धर्मारण्यखण्डः · 1

युधिष्ठिरप्रश्नवर्णनम्

श्रीगणेशाय नमः

तर्तुं संहृतिवारिधिं त्रिजगतां नौर्नाम यस्य प्रभोर्येनेदं सकलं विभाति सततं जातं स्थितं संसृतम् ॥

यश्चैतन्यघनप्रमाण विधुरो वेदांतवेद्यो विभुस्तं वन्दे सहजप्रकाशममलं श्रीरामचन्द्रं परम् (

॥१॥

) दाराः पुत्रा धनं वा परिजनसहितो बंधुवर्गः प्रियो वा माता भ्राता पिता वा श्वशुरकुलजना भृत्यऐश्वर्य्यवित्ते ॥

विद्या रूपं विमलभवनं यौवनं यौवतं वा सर्वे व्यर्थं मरणसमये धर्म एकः सहायः (

॥२॥

) नैमिषे निमिषक्षेत्रे ऋषयः शौनकादयः ॥

सत्रं स्वर्गाय लोकाय सहस्रसममासत

॥१॥

एकदा सूतमायांतं दृष्ट्वा तं शौनकादयः ॥

परं हर्षं समाविष्टाः पपुर्नेत्रैः सुचेतसा ॥

चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः

॥२॥

अथ तेषूपविष्टेषु तपस्विषु महात्मसु ॥

निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः

॥३॥

सुखासीनं च तं दृष्ट्वा विघ्नांतमुपलक्ष्य च ॥

अथापृच्छंस्त ऋषयः काश्चित्प्रास्ताविकीः कथाः

॥४॥

पुराणमखिलं तात पुरा तेऽधीतवान्पिता ॥

कच्चित्त्वयापि तत्सर्वमधीतं लोमहर्षणे

॥५॥

कथयस्व कथां सूत पुण्यां पापनिषूदिनीम् ॥

श्रुत्वा यां याति विलयं पापं जन्मशतोद्भवम्

॥६॥

सूत उवाच

श्रीभारत्यंघ्रियुगलं गणनाथपदद्वयम् ॥

सर्वेषां चैव देवानां नमस्कृत्य वदाम्यहम्

॥७॥

शक्तींश्चैव वसूंश्चैव ग्रहान्यज्ञादिदेवताः ॥

नमस्कृत्य शुभान्विप्रान्कविमुख्यांश्च सर्वशः

॥८॥

अभीष्टदेवताश्चैव प्रणम्य गुरुसत्तमम् ॥

नमस्कृत्य शुभान्देवान्रामादींश्च विशेषतः

॥९॥

| यान्स्मृत्वा विविधैः पापैर्मुच्यते नात्र संशयः ॥

तेषां प्रसादाद्वक्ष्येऽहं तीर्थानां फलमुत्तमम् ॥

सर्वेषां च नियंतारं धर्मात्मानं प्रणम्य च

॥१०॥

धर्म्मारण्यपतिस्त्रिविष्टपपतिर्नित्यं भवानीपतिः पापाद्वः स्थिरभोगयोगसुलभो देवः स धर्मेश्वरः ॥

सर्वेषां हृदयानि जीवकलया व्याप्य स्थितः सर्वदा ध्यात्वा यं न पुनर्विशंति मनुजाः संसारकारागृहम्

॥११॥

सूत उवाच

एकदा तु स धर्म्मो वै जगाम ब्रह्मसंसदि ॥

तां सभां स समालोक्य ज्ञाननिष्ठोऽभवत्तदा

॥१२॥

देवैर्मुनिवरैः क्रांतां सभामालोक्य विस्मितः ॥

देवैर्यक्षैस्तथा नागैः पन्नगैश्च तथाऽसुरैः

॥१३॥

ऋषिभिः सिद्धगंधर्वैः समाक्रांतोचितासना ॥

ससुखा सा सभा ब्रह्मन्न शीता न च घर्म्मदा

॥१४॥

न क्षुधं न पिपासां च न ग्लानिं प्राप्नुवन्त्युत ॥

नानारूपैरिव कृता मणिभिः सा सभा वरैः

॥१९॥

स्तंभैश्च विधृता सा तु शाश्वती न च सक्षया ॥

दिव्यैर्नानाविधैर्भावैर्भासद्भिरमितप्रभा

॥१६॥

अति चन्द्रं च सूर्य्यं च शिखिनं च स्वयंप्रभा ॥

दीप्यते नाकपृष्ठस्था भर्त्सयंतीव भास्करम्

॥१७॥

तस्याँ स भगवाञ्छास्ति विविधान्देवमानुषान् ॥

स्वयमेकोऽनिशं ब्रह्मा सर्वलोकपितामहः

॥१८॥

उपतिष्ठंति चाप्येनं प्रजानां पतयः प्रभुम् ॥

दक्षः प्रचेताः पुलहो मरीचिः कश्यपः प्रभुः

॥१९॥

भृगुरत्रिर्वसिष्ठश्च गौतमोऽथ तथांगिराः ॥

पुलस्त्यश्च क्रतुश्चैव प्रह्लादः कर्द्दमस्तथा

॥२०॥

अथर्वांगिरसश्चैव वालखिल्या मरीचिपाः ॥

मनोंऽतरिक्षं विद्याश्व वायुस्तेजो जलं मही

॥२१॥

शब्दस्पर्शौ तथा रूपं रसो गंधस्तथैव च ॥

प्रकृतिश्च विकारश्च सदसत्कारणं तथा

॥२२॥

अगस्त्यश्च महातेजा मार्कंडेयश्च वीर्यवान् ॥

जमदग्निर्भरद्वाजः संवर्तश्च्यवनस्तथा

॥२३॥

दुर्वासाश्च महाभाग ऋष्यश्रृंगश्च धार्मिकः।

सनत्कुमारो भगवान्योगाचार्य्यो महातपाः

॥२४॥

असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित् ॥

आयुर्वेदस्तथाष्टांगो गान्धर्वश्चैव तत्र हि

॥२९॥

चंद्रमाः सह् नक्षत्रैरादित्यश्च गभस्तिमान् ॥

वायवस्तंतवश्चैव संकल्पः प्राण एव च

॥२६॥

मूर्तिमंतो महात्मानो महाव्रतपरायणाः ॥

एते चान्ये च बहवो ब्रह्माणं समुपासिरे

॥२७॥

अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तमो दमः ॥

आयांति तस्यां सहिता गंधर्वाप्सरसां गणाः

॥२८॥

शुक्राद्याश्व ग्रहाश्चैव ये चान्ये तत्समीपगाः ॥

मंत्रा रथंतरं चैव हरिमान्वसुमानपि

॥२९॥

महितो विश्वकर्मा च वसवश्चैव सर्वशः ॥

तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ

॥३०॥

ऋग्वेदः सामवेदश्च यजुर्वेदस्तथैव च ॥

अथर्ववेदश्च तथा सर्वशास्त्राणि चैव ह

॥३१॥

इतिहासोपवेदाश्च वेदांगानि च सर्वशः ॥

मेधा धृतिः स्मृतिश्चैव प्रज्ञा बुद्धिर्यशः समाः

॥३२॥

कालचक्रं च तद्दिव्यं नित्यमक्षयमव्ययम् ॥

यावन्त्यो देवपत्न्यश्च सर्वा एव मनोजवाः

॥३३॥

गार्हपत्या नाकचराः पितरो लोकविश्रुताः ॥

सोमपा एकशृंगाश्च तथा सर्वे तपस्विनः ॥

नागाः सुपर्णाः पशवः पितामहमुपासते ।

स्थावरा जंगमाश्चापि महाभूतास्तथा परे

॥३९॥

पुरंदरश्च देवेंद्रो वरुणो धनदस्तथा ॥

महादेवः सहोमोऽत्र सदा गच्छति सर्वदः

॥३६॥

गच्छंति सर्वदा देवा नारायणस्तथर्षयः ॥

ऋषयो वालखिल्याश्च योनिजायोनिजास्तथा

॥३७॥

यत्किंचित्रिषु लोकेषु दृश्यते स्थाणु जंगमम् ॥

तस्यां सहोपविष्टायां तत्र ज्ञात्वा स धर्मवित्

॥३८॥

देवैर्मुनिवरैः क्रांतां समालोक्यातिविस्मितः ॥

हर्षेण महता युक्तो रोमांचिततनूरुहः

॥३९॥

तत्र धर्मो महातेजाः कथां पापप्रणाशिनीम् ॥

वाच्यमानां तु शुश्राव व्यासेनामिततेजसा

॥४०॥

धर्मारण्यकथां दिव्यां तथैव सुमनोहराम् ॥

धर्मार्थकाममोक्षाणां फलदात्रीं तथैव च ॥

पुत्रपौत्रप्रपौत्रादि फलदात्रीं तथैव च ॥

धारणाच्छ्रवणाच्चापि पठनाच्चावलोकनात्

॥४२॥

तां निशम्य सुविस्तीर्णां कथां ब्रह्मांडसंभवाम् ॥

प्र मोदोत्फुल्लनयनो ब्रह्माणमनुमत्य च

॥४३॥

कृतकार्योपि धर्मात्मा गंतुकामस्तदाभवत् ॥

नमस्कृत्य तदा धर्मो ब्रह्माणं स पितामहम्

॥४४॥

अनुज्ञातस्तदा तेन गतोऽसौ यमशासनम् ॥

पितामहप्रसादाच्च श्रुत्वा पुण्यप्रदायिनीम्

॥४५॥

धर्मारण्यकथां दिव्यां पवित्रां पापनाशिनीम् ॥

स गतोऽनुचरैः सार्द्धं ततः संयमिनीं प्रति

॥४६॥

अमात्यानुचरैः सार्धं प्रविष्टः स्वपुरं यमः ॥

तत्रांतरे महातेजा नारदो मुनिपुंगवः

॥४७॥

दुर्निरीक्ष्यः कृपायुक्तः समदर्शी तपोनिधिः ॥

तपसा दग्धदेहोपि विष्णुभक्तिपरायणः

॥४८॥

सर्वगः सर्वविच्चैव नारदः सर्वदा शुचिः ॥

वेदाध्ययनशीलश्च त्वागत स्तत्र संसदि

॥४९॥

तं दृष्ट्वा सहसा धर्मो भार्यया सेवकैः सह ॥

संमुखो हर्षसंयुक्तो गच्छन्नेव स सत्वरः

॥५०॥

अद्य मे सफलं जन्म अद्य मे सफलं कुलम् ॥

अद्य मे सफलो धर्मस्त्वय्यायाते तपोधने

॥५१॥

अर्घ्यपाद्यादिविधिना पूजां कृत्वा विधानतः ॥

दंडवत्तं प्रणम्याथ विधिना चोपवेशितः

॥५२॥

आसने स्वे महादिव्ये रत्नकांचनभूषिते ॥

चित्रार्पिता सभा सर्वा दीपा निर्वातगा इव

॥५३॥

विधाय कुशलप्रश्नं स्वागतेनाभिनंद्य तम् ॥

प्रहर्षमतुलं लेभे धर्मारण्यकथां स्मरन्

॥५४॥

नारदं पूजयित्वा तु प्रहृष्टेनांतरात्मना ॥

हर्षितं तु यमं दृष्ट्वा नारदो विस्मिताननः

॥५५॥

चिंतयामास मनसा किमिदं हर्षितो हरिः ॥

अतिहर्षं च तं दृष्ट्वा यमराजस्वरूपिणम् ॥

आश्चर्यमनसं चैव नारदः पृष्टवांस्तदा

॥५६॥

नारद उवाच

किं दृष्टं भवताश्चर्य्यं किं वा लब्धं महत्पदम् ॥

दुष्टस्त्वं दुष्टकर्मा च दुष्टात्मा क्रोधरूपधृक्

॥५७॥

पापिनां यमनं चैवमेतद्रूपं महत्तरम् ॥

सौम्यरूपं कथं जातमेतन्मे संशयः प्रभो

॥५८॥

अद्य त्वं हर्षसंयुक्तो दृश्यसे केन हेतुना ॥

कथयस्व महाकाय हर्षस्यैव हि कारणम्

॥५९॥

धर्मराज उवाच

श्रूयतां ब्रह्मपुत्रैतत्कथयामि न संशयः ॥

पुराहं ब्रह्मसदनं गतवानभिवंदितुम्

॥६०॥

तत्रासीनः सभामध्ये सर्वलोकैकपूजिते।

नानाकथाः श्रुतास्तत्र धर्म्मवर्गसमन्विताः

॥६१॥

कथाः पुण्या धर्मयुता रम्या व्यासमुखाच्छ्रुताः ॥

धर्मकामार्थसंयुक्ताः सर्वाघौघविनाशिनीः

॥६२॥

याः श्रुत्वा सर्वपापेभ्यो मुच्यंते ब्रह्महत्यया ।

तारयंति पितृगणाञ्छतमेकोत्तरं मुने

॥६३॥

नारद उवाच

कीदृशी तत्कथा मे तां प्रशंस भवता श्रुताम् ॥

कथां यम महाबाहो श्रोतुकामोस्म्यहं च ताम्

॥६४॥

यम उवाच

एकदा ब्रह्मलोकेऽहं नमस्कर्तुं पितामहम् ॥

गतवानस्मि तं देशं कार्याकार्यविचारणे

॥६५॥

मया तत्राद्भुतं दृष्टं श्रुतं च मुनिसत्तम ॥

धर्म्मारण्यकथां दिव्यां कृष्णद्वैपायनेरिताम्

॥६६॥

श्रुत्वा कथां महापुण्यां ब्रह्मन्ब्रह्मांडगां शुभाम् ॥

गुणपूर्णां सत्ययुक्तां तेन हर्षेण हर्षितः

॥६७॥

अन्यच्चैव मुनिश्रेष्ठ तवागमनकारणम् ॥

शुभाय च सुखायैव क्षेमाय च जयाय हि

॥६८॥

आद्यास्मि कृतकृत्योऽहमद्याहं सुकृती मुने।

धर्मोनामाद्य जातोऽहं तव पद्युग्मदर्शनात् ॥

पूज्योऽहं च कृतार्थोहं धन्योहं चाद्य नारद ॥

युष्मत्पादप्रसादाच्च पूज्योऽहं भुवनत्रये

॥७०॥

सूत उवाच

एवंविधैर्वचोभिश्च तोषितो मुनिसत्तमः।

पप्रच्छ परया भक्त्या धर्मारण्यकथां शुभाम्

॥७१॥

नारद उवाच

श्रुता व्यासमुखाद्धर्म्म धर्मारण्यकथा शुभा ॥

तत्सर्वं हि कथय मे विस्तीर्णं च यथातथम्

॥७२॥

यम उवाच

व्यग्रोऽहं सततं ब्रह्मन्प्राणिनां सुखदुःखिनाम् ॥

तत्तत्कर्मानुसारेण गतिं दातुं सुखेतराम्

॥७३॥

तथापि साधुसंगो हि धर्मायैव प्रजायते ॥

इह लोके परत्रापि क्षेमाय च सुखाय च

॥७४॥

ब्रह्मणः सन्निधौ यञ्च श्रुतं व्यासमुखेरितम् ॥

तत्सर्वं कथयिष्यामि मानुषाणां हिताय वै

॥७९॥

सूत उवाच

यमेन कथितं सर्वं यच्छ्रुतं ब्रह्मसंसदि ॥

आदिमध्यावसानं च सर्वं नैवात्र संशयः

॥७६॥

कलिद्वापरयोर्मध्ये धर्मपुत्रं युधिष्ठिरम् ॥

गतोऽसौ नारदो मर्त्ये राज्यं धर्मसुतस्य वै

॥७७॥

आगतः श्रीहरेरंशो नारदः प्रत्यदृश्यत ॥

ज्वलिताग्निप्रतीकाशो बालार्कसदृशेक्षणः

॥७८॥

सव्यापवृत्तं विपुलं जटामंडलमुद्वहन् ॥

चंद्रांशुशुक्ले वसने वसानो रुक्मभूषणः

॥७९॥

वीणां गृहीत्वा महतीं कक्षासक्तां सखीमिव ॥

कृष्णाजिनोत्तरासंगो हेमयज्ञोपवीतवान्

॥८०॥

दण्डी कमंडलुकरः साक्षाद्वह्निरिवापरः ॥

भेत्ता जगति गुह्यानां विग्रहाणां गुहोपमः

॥८१॥

महर्षिगणसंसिद्धो विद्वान्गांधर्ववेदवित् ॥

वैरकेलिकलो विप्रो ब्राह्मः कलिरिवापरः

॥८२॥

देवगंधर्वलोकानामादिवक्ता सुनिग्रहः ॥

गाता चतुर्णां वेदानामुद्गाता हरिसद्गुणान्

॥८३॥

स नारदोऽथ विप्रर्षिर्ब्रह्मलोकचरोऽव्ययः ॥

आगतोऽथ पुरीं हर्षाद्धर्मराजेन पालिताम्

॥८४॥

| अथ तत्रोपविष्टेषु राजन्येषु महात्मसु ॥

महत्सु चोपविष्टेषु गंधर्वेषु च तत्र वै

॥८९॥

लोकाननुचरन्सर्वानागतः स महर्षिराट् ॥

नारदः सुमहातेजा ऋषिभिः सहितस्तदा

॥८६॥

तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित् ॥

सिंहासनात्समुत्थाय प्रययौ सन्मुखस्तदा

॥८७॥

अभ्यवादयतं प्रीत्या विनयाव नतस्तदा ॥

तदर्हमासनं तस्मै संप्रदाय यथाविधि

॥८८॥

गां चैवं मधुपर्कं च संप्रदायार्धमेव च ॥

अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित्

॥८९॥

तुतोष च यथावञ्च पूजां प्राप्य च धर्मवित् ॥

कुशली त्वं महाभाग तपसः कुशलं तव

॥९०॥

न कश्चिद्बाधते दुष्टो दैत्यो हि स्वर्गभूपतिम् ॥

मुने कल्याणरूपस्त्वं नमस्कृतः सुरासुरैः ॥

सर्व्वगः सर्ववेत्ता च ब्रह्मपुत्र कृपानिधे

॥९१॥

नारद उवाच

सर्वतः कुशलं मेद्य प्रसादाद्ब्रह्मणः सदा ॥

कुशली त्वं महाभाग धर्मपुत्र युधिष्ठिर

॥९२॥

भ्रातृभिः सह राजेंद्र धर्मेषु रमते मनः ॥

दारैः पुत्रैश्च भृत्यैश्च कुशलैर्गजवाजिभिः

॥९३॥

औरसानिव पुत्रांश्च प्रजा धर्मेण धर्मज ॥

पालयसि किमाश्चर्यं त्वया धन्या हि सा प्रजा

॥९४॥

पालनात्पोषणान्नॄणां धर्मो भवति वै ध्रुवम् ॥

तत्तद्धर्मस्य भोक्ता त्वमित्येवं मनुरब्रवीत्

॥९९॥

युधिष्ठिर उवाच

कुशलं मम राष्ट्रं च भवतामंघ्रिस्पर्शनात् ॥

दर्शनेन महाभाग जातोऽहं गतकिल्बिषः

॥९६॥

धन्योऽहं कृतकृत्योऽहं सभाग्योऽहं धरातले ॥

अद्याहं सुकृती जातो ह्मपुत्रे गृहागते ॥

कुत आगमनं ब्रह्मन्नद्य ते मुनिसत्तम ॥

अनुग्रहार्थं साधूनां किं वा कार्येण केन च

॥९८॥

नारद उवाच

आगतोऽहं नृपश्रेष्ठ सकाशाच्छमनस्य च ॥

व्यासेनोक्तां ब्रह्मणोग्रे कथां पौराणिकीं शुभाम्

॥९९॥

धर्मारण्याश्रितां दिव्यां सर्वसंतापहारिणीम् ॥

यां श्रुत्वा सर्वपापेभ्यो मुच्यते ब्रह्महत्यया

॥१००॥

हत्यायुतप्रशमनीं तापत्रयविनाशिनीम् ॥

यां वै श्रुत्वातिभक्त्या च कठिनो मृदुतां भजेत् ॥

धर्मराजेन तां श्रुत्वा ममाग्रे च निवेदिताम् ।

तमपृच्छ्दमेयात्मा कथां धर्मविनोदिनीम्

॥२॥

युधिष्ठिर उवाच

धर्मारण्याश्रितां पुण्यां कथां मे द्विजसत्तम ॥

कथयस्व प्रसादेन लोकानां हितकाम्यया

॥३॥

नारद् उवाच

स्नानकालोयमस्माकं न कथावसरो मम ॥

परंतु श्रूयतां राजन्नुपदेशं ददाम्यहम्

॥४॥

मासानामुत्तमो माघः स्नानदानादिके तथा ॥

तस्मिन्माघे च यः स्नाति सर्वपापैः प्रमुच्यते

॥५॥

स्नानार्थं याहि शीघ्रं त्वं गंगायां नृपतेऽधुना ॥

व्यासस्यागमनं चाद्य भविष्यति नृपोत्तम

॥६॥

तं पृच्छस्व महाभाग श्रावयिष्यति ते शुभम् ॥

तीर्थानां चैव सर्वेषां फलं पुण्यं यदद्भुतम्

॥७॥

भूतं भव्यं भविष्यं च उत्तमाधममध्यमाः ॥

वाचयिष्यति तत्सर्वमितिहाससमुद्भवम्

॥८॥

धर्मारण्यस्य सकलं वृत्तं यद्यत्पुरातनम् ॥

व्यासः सत्यवतीपुत्रो वदिष्यति च तेऽखिलम्

॥९॥

सूत उवाच

एवमुक्त्वा विधेः पुत्रस्तत्रैवांतरधीयत ।

तस्मिन्गते स नृपतिः क्रीडते सचिवैः सह

॥११०॥

एतस्मिन्नंतरे तत्र प्राप्तः सत्यवतीसुतः ॥

विज्ञापयामास तदा विदुरः पांडवस्य हि

॥११॥

सूत उवाच

आगतं तु मुनिं श्रुत्वा सर्वे हर्षसमाकुलाः ॥

समुत्तस्थुर्हि भीमाद्याः सह् धर्मेण सर्वशः

॥१२॥

तदा हि सन्मुखो भूत्वा मुमुदे नतकन्धरः ॥

दंडवत्तं प्रणम्याथ भ्रातृभिः सहितस्तदा

॥१३॥

मधुपर्केण विधिना पूजां कृत्वा सुशोभनाम् ॥

सिंहासने समावेश्य पप्रच्छानामयं तदा

॥११॥

ततः पुण्यां कथां दिव्यां श्रावयामास धर्मवित् ॥

कथांते मुनिशार्दूलं वचनं चेदमब्रवीत्

॥१५॥

युधिष्ठिर उवाच

त्वत्प्रसादान्मया ब्रह्मञ्छ्रुतास्तु प्रवराः कथाः ॥

आपद्धर्म्मा राजधर्मा मोक्षधर्म्मा ह्यनेकशः

॥१६॥

पुराणानां च धर्माश्च व्रतानि बहुशस्तथा ॥

तीर्थान्यनेकरूपाणि सर्वाण्यायतनानि च

॥१७॥

इदानीं श्रोतुमिच्छामि धर्मारण्यकथां शुभाम् ॥

श्रुत्वा यां हि विनश्येत पापं ब्रह्मवधादिकम्

॥१८॥

धर्म्मारण्यस्थतीर्थानां श्रोतुमिच्छामि तत्त्वतः ॥

कस्येदं स्थापितं स्थानं कस्मादेतद्विनिर्मितम्

॥१९॥

रक्षितं पालितं केन कस्मिन्कालेऽथ निर्मितम् ॥

किंकिं त्वत्राभवत्पूर्वं शंशैतत्पृच्छतो मम

॥१२०॥

भूतं भव्यं भविष्यञ्च तस्मिन्स्थाने च यद्भवेत् ॥

तत्सर्वं कथयस्वाद्य तीर्थानां च यथा स्थितिः

॥१२१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्व भागे धर्मारण्यमाहात्म्ये युधिष्ठिरप्रश्नवर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥