मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — धर्मारण्यखण्डः, अध्याय ३५

3
ब्रह्मखण्डः · धर्मारण्यखण्डः · 35

श्रीरामरुद्रकृतधर्मारण्यतीर्थक्षेत्रजीर्णोद्धारवर्णनम्

नारद उवाच

भगवन्देवदेवेश सृष्टिसंहारकारक ॥

गुणातीतो गुणैर्युक्तो मुक्तीनां साधनं परम्

॥१॥

संस्थाप्य वेदभवनं विधिवद्द्विज सत्तमान् ॥

किं चक्रे रघुनाथस्तु भूयोऽयोध्यां गतस्तदा

॥२॥

स्वस्थाने ब्राह्मणास्तत्र कानि कर्माणि चक्रिरे ॥

ब्रह्मोवाच ॥

इष्टापूर्तरताः शांताः प्रतिग्रहपराङ्मुखाः

॥३॥

राज्यं चक्रुर्वनस्यास्य पुरोधा द्विजसत्तमः ॥

उवाच रामपुरतस्तीर्थमाहात्म्यमुत्तमम्

॥४॥

प्रयागस्य च माहात्म्यं त्रिवेणीफलमुत्तमम् ॥

प्रयागतीर्थमहिमा शुक्लतीर्थस्य चैव हि

॥५॥

सिद्धक्षेत्रस्य काश्याश्च गंगाया महिमा तथा ॥

वसिष्ठः कथया मास तीर्थान्यन्यानि नारद

॥६॥

धर्मारण्यसुवर्णाया हरिक्षेत्रस्य तस्य च ॥

स्नानदानादिकं सर्वं वाराणस्या यवाधिकम्

॥७॥

एतच्छ्रुत्वा रामदेवः स चमत्कृतमानसः ॥

धर्मारण्ये पुनर्यात्रां कर्त्तुकामः समभ्यगात्

॥८॥

सीतया सह धर्मज्ञो गुरुसैन्यपुरःसरः ॥

लक्ष्मणेन सह भ्रात्रा भरतेन सहायवान्

॥९॥

शत्रुघ्नेन परिवृतो गतो मोहेरके पुरे ॥

तत्र गत्वा वसिष्ठं तु पृच्छतेऽसौ महामनाः

॥१०॥

राम उवाच

धर्मारण्ये महाक्षेत्रे किं कर्त्तव्यं द्विजोत्तम ॥

दानं वा नियमो वाथ स्नानं वा तप उत्तमम्

॥११॥

ध्यानं वाथ क्रतुं वाथ होमं वा जपमुत्तमम् ॥

दानं वा नियमं वाथ स्नानं वा तप उत्तमम्

॥१२॥

येन वै क्रियमाणेन तीर्थेऽस्मिन्द्विजसत्तम ॥

ब्रह्महत्यादिपापेभ्यो मुच्यते तद्ब्रवीहि मे

॥१३॥

वसिष्ठ उवाच

यज्ञं कुरु महाभाग धर्मारण्ये त्वमुत्तमम् ॥

दिनेदिने कोटिगुणं यावद्वर्षशतं भवेत्

॥१४॥

तच्छ्रुत्वा चैव गुरुतो यज्ञारंभं चकार सः ॥

तस्मिन्नवसरे सीता रामं व्यज्ञापयन्मुदा

॥१५॥

स्वामिन्पूर्वं त्वया विप्रा वृता ये वेदपारगाः ॥

ब्रह्मविष्णुमहेशेन निर्मिता ये पुरा द्विजाः

॥१६॥

कृते त्रेतायुगे चैव धर्मारण्यनिवासिनः ॥

विप्रांस्तान्वै वृणुष्व त्वं तैरेव साधकोऽध्वरः

॥१७॥

तच्छ्रुत्वा रामदेवेन आहूता ब्राह्मणास्तदा ॥

स्थापिताश्च यथापूर्वमस्मिन्मोहे रके पुरे

॥१८॥

तैस्त्वष्टादशसंख्याकैस्त्रैविद्यैर्मेहिवाडवैः ॥

यज्ञं चकार विधिवत्तैरेवायतबुद्धिभिः

॥१९॥

कुशिकः कौशिको वत्स उपमन्युश्च काश्यपः ॥

कृष्णात्रेयो भरद्वाजो धारिणः शौनको वरः

॥२०॥

मांडव्यो भार्गवः पैंग्यो वात्स्यो लौगाक्ष एव च ॥

गांगायनोथ गांगेयः शुनकः शौनकस्तथा

॥२१॥

ब्रह्मोवाच

एभिर्विप्रैः क्रतुं रामः समाप्य विधिवन्नृपः ॥

चकारावभृथं रामो विप्रान्संपूज्य भक्तितः

॥२२॥

यज्ञांते सीतया रामो विज्ञप्तः सुविनीतया ॥

अस्याध्वरस्य संपत्ती दक्षिणां देहि सुव्रत

॥२३॥

मन्नाम्ना च पुरं तत्र स्थाप्यतां शीघ्रमेव च ॥

सीताया वचनं श्रुत्वा तथा चक्रे नृपोत्तमः

॥२४॥

तेषां च ब्राह्मणानां च स्थानमेकं सुनिर्भयम् ॥

दत्तं रामेण सीतायाः संतोषाय महीभृता

॥२५॥

सीतापुरमिति ख्यातं नाम चक्रे तदा किल ॥

तस्याधिदेव्यौ वर्त्तेते शांता चैव सुमंगला

॥२६॥

मोहेरकस्य पुरतो ग्रामद्वादशकं पुरः ॥

ददौ विप्राय विदुषे समुत्थाय प्रहर्षितः

॥२७॥

तीर्थांतरं जगामाशु काश्यपीसरितस्तटे ॥

वाडवाः केऽपि नीतास्ते रामेण सह धर्मवित्

॥२८॥

धर्मालये गतः सद्यो यत्र माला कमंडलुः ॥

पुरा धर्मेण सुमहत्कृतं यत्र तपो मुने

॥२९॥

तदारभ्य सुविख्यातं धर्मालयमिति श्रुतम् ॥

ददौ दाशरथिस्तत्र महादानानि षोडश

॥३०॥

पंचाशत्तदा ग्रामाः सीतापुरसमन्विताः ॥

सत्यमंदिरपर्यंता रघुना थेन वै तदा

॥३१॥

सीताया वचनात्तत्र गुरुवाक्येन चैव हि ॥

आत्मनो वंशवृद्ध्यर्थं द्विजेभ्योऽदाद्रघूत्तमः

॥३२॥

अष्टादशसहस्राणां द्विजानामभवत्कुलम् ॥

वात्स्यायन उपमन्युर्जातूकर्ण्योऽथ पिंगलः

॥३३॥

भारद्वाजस्तथा वत्सः कौशिकः कुश एव च ॥

शांडिल्यः कश्यपश्चैव गौतमश्छांधनस्तथा

॥३४॥

कृष्णात्रेयस्तथा वत्सो वसिष्ठो धारणस्तथा ॥

भांडिलश्चैव विज्ञेयो यौवनाश्वस्ततः परम्

॥३५॥

कृष्णायनोपमन्यू च गार्ग्यमुद्गलमौखकाः ॥

पुशिः पराशरश्चैव कौंडिन्यश्च ततः परम्

॥३६॥

पंचपंचाशद्ग्रामाणां नामान्येवं यथाक्रमम् ॥

सीतापुरं श्रीक्षेत्रं च मुशली मुद्गली तथा

॥३७॥

ज्येष्ठला श्रेयस्थानं च दंताली वटपत्रका ॥

राज्ञः पुरं कृष्णवाटं देहं लोहं चनस्थनम्

॥३८॥

कोहेचं चंदनक्षेत्रं थलं च हस्तिनापुरम् ॥

कर्पटं कंनजह्नवी वनोडफनफावली

॥३९॥

मोहोधं शमोहोरली गोविंदणं थलत्यजम् ॥

चारणसिद्धं सोद्गीत्राभाज्यजं वटमालिका

॥४०॥

गोधरं मारणजं चैव मात्रमध्यं च मातरम् ॥

बलवती गंधवती ईआम्ली च राज्यजम्

॥४१॥

रूपावली बहुधनं छत्रीटं वंशंजं तथा ॥

जायासंरणं गोतिकी च चित्रलेखं तथैव च

॥४२॥

दुग्धावली हंसावली च वैहोलं चैल्लजं तथा ॥

नालावली आसावली सुहाली कामतः परम्

॥४३॥

रामेण पंचपंचाशद्ग्रामाणि वसनाय च ॥

स्वयं निर्माय दत्तानि द्विजेभ्यस्तेभ्य एव च

॥४४॥

तेषां शुश्रूषणार्थाय वैश्यान्रामो न्यवे दयत् ॥

षट्त्रिंशच्च सहस्राणि शूद्रास्तेभ्यश्चतुर्गुणान्

॥४५॥

तेभ्यो दत्तानि दानानि गवाश्ववसनानि च ॥

हिरण्यं रजतं ताम्रं श्रद्धया परया मुदा

॥४६॥

नारद उवाच

अष्टादशसहस्रास्ते ब्राह्मणा वेदपारगाः ॥

कथं ते व्यभजन्ग्रामान्द्रामो()त्पन्नं तथा वसु ॥

वस्त्राद्यं भूषणाद्यं च तन्मे कथय सुव्र तम्

॥४७॥

ब्रह्मोवाच

यज्ञांते दक्षिणा यावत्सर्त्विग्भिः स्वीकृता सुत ॥

महादानादिकं सर्वं तेभ्य एव समर्पितम्

॥४८॥

ग्रामाः साधारणा दत्ता महास्थानानि वै तदा ॥

ये वसंति च यत्रैव तानि तेषां भवंत्विति

॥४९॥

वशिष्ठवचनात्तत्र ग्रामास्ते विप्रसात्कृताः ॥

रघूद्वहेन धीरेण नोद्व संति यथा द्विजाः

॥५०॥

धान्यं तेषां प्रदत्तं हि विप्राणां चामितं वसु ॥

कृतांजलिस्ततो रामो ब्राह्मणानिदमब्रवीत्

॥५१॥

यथा कृतयुगे विप्रास्त्रेतायां च यथा पुरा ॥

तथा चाद्यैव वर्त्तव्यं मम राज्ये न संशयः

॥५२॥

यत्किंचिद्धनधान्यं वा यानं वा वसनानि वा ॥

मणयः कांचनादींश्च हेमादींश्च तथा वसु

॥५३॥

ताम्राद्यं रजतादींश्च प्रार्थयध्वं ममाधुना ॥

अधुना वा भविष्ये वाभ्यर्थनीयं यथोचितम्

॥५४॥

प्रेषणीयं वाचिकं मे सर्वदा द्विजसत्तमाः ॥

यंयं कामं प्रार्थयध्वं तं तं दास्याम्यहं विभो

॥५५॥

ततो रामः सेवकादीनादरात्प्रत्यभाषत ॥

विप्राज्ञा नोल्लंघनीया सेव नीया प्रयत्नतः

॥५६॥

यंयं कामं प्रार्थयंते कारयध्वं ततस्ततः ॥

एवं नत्वा च विप्राणां सेवनं कुरुते तु यः

॥५७॥

स शूद्रः स्वर्गमाप्नोति धनवान्पुत्रवान्भवेत् ॥

अन्यथा निर्धनत्वं हि लभते नात्र संशयः

॥५८॥

यवनो म्लेच्छजातीयो दैत्यो वा राक्षसोपि वा ॥

योत्र विघ्नं करोत्येव भस्मीभवति तत्क्षणात्

॥५९॥

ब्रह्मोवाच

ततः प्रदक्षिणीकृत्य द्विजान्रामोऽतिहर्षितः ॥

प्रस्थानाभिमुखो विप्रैराशीर्भिरभिनंदितः

॥६०॥

आसीमांतमनुव्रज्य स्नेहव्याकुललोचनाः ॥

द्विजाः सर्वे विनिर्वृत्ता धर्मारण्ये विमोहिताः

॥६१॥

एवं कृत्वा ततो रामः प्रतस्थे स्वां पुरीं प्रति ॥

काश्यपाश्चैव गर्गाश्च कृतकृत्या दृढव्रताः

॥६२॥

गुर्वासनसमाविष्टाः सभार्या ससुहृत्सुताः ॥

राजधानीं तदा प्राप रामोऽयोध्यां गुणान्विताम्

॥६३॥

दृष्ट्वा प्रमुदिताः सर्वे लोकाः श्रीरघुनन्दनम् ॥

ततो रामः स धर्मात्मा प्रजापालनतत्परः

॥६४॥

सीतया सह धर्मात्मा राज्यं कुर्वंस्तदा सुधीः ॥

जानक्या गर्भमाधत्त रविवंशोद्भवाय च

॥६५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये श्रीरामरुद्रकृतधर्मारण्यतीर्थक्षेत्रजीर्णोद्धारवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥