गोवत्सान्नैर्ऋते भागे दृश्यते लोहयष्टिका
व्यास उवाच
गोवत्सान्नैर्ऋते भागे दृश्यते लोहयष्टिका ॥
स्वयंभुलिंगरूपेण रुद्रस्तत्र स्थितः स्वयम् ॥
श्रीमार्कण्डेय उवाच ॥
मोक्षतीर्थे सरस्वत्या नभस्ये चंद्रसंक्षये ॥
विप्रान्संपूज्य विधिवत्तेभ्यो दत्त्वा च दक्षिणाम्
॥१॥एकविंशतिवारांस्तु भक्त्या पिंडस्य यत्फलम् ॥
गयायां प्राप्यते पुंसां ध्रुवं तदिह तर्प्पणात्
॥२॥लोहयष्ट्यां कृते श्राद्धे नभस्ये चंद्रसंक्षये ॥
प्रेतयोनिविनिर्मुक्ताः क्रीडंति पितरो दिवि
॥३॥अपि नः संकुले भूयाद्यो वै दद्यात्तिलोदकम् ॥
पिंडं वाप्युदकं वापि प्रेतपक्षे विधूदये
॥३॥लोहयष्ट्याममावस्यां कार्यं भाद्रपदे जनैः ॥
श्राद्धं वै मुनयः प्राहुः पितरो यदि वल्लभाः
॥५॥क्षीरेण तु तिलैः श्वेतैः स्नात्वा सारस्वते जले ॥
पितॄंस्तर्पयते यस्तु तृप्तास्तत्पितरो ध्रुवम्
॥६॥तत्र श्राद्धानि कुर्वीत सक्तुभिः पयसा सह ॥
अमावास्यादिनं प्राप्य पितॄणां मोक्षमिच्छकैः
॥७॥रुद्रतीर्थे ततो धेनुं दद्याद्वस्त्रादिभूषिताम् ॥
विष्णुतीर्थे हिरण्यं च प्रदद्यान्मोक्षमिच्छुकः
॥८॥गयायां पितृरूपेण स्वयमेव जनार्दनः ॥
तं ध्यात्वा पुंडरीकाक्षं मुच्यते च ऋणत्रयात्
॥९॥प्रार्थयेत्तत्र गत्वा तं देवदेवं जनार्दनम् ॥
आगतोऽस्मि गयां देव पितृभ्यः पिंडदित्सया ॥
एष पिंडो मया दत्तस्तव हस्ते जनार्दन
॥१०॥परलोकगतेभ्यश्च त्वं हि दाता भविष्यसि ॥
अनेनैव च मंत्रेण तत्र दद्याद्धरेः करे
॥११॥चंद्रे क्षीणे चतुर्दश्यां नभस्ये पिंडमाहरेत् ॥
पितॄणामक्षया तृप्तिर्भविष्यति न संशयः
॥१२॥एकविंशतिवारांश्च गयायां पिंडपातनैः ॥
भक्त्या तृप्तिमवाप्नोति लोहयष्ट्यां पितृतर्प्पणे
॥१३॥वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमत्र हि ॥
फलप्रदः सुतान्भक्तानारोग्यमभयप्रदः
॥१४॥वित्तं न्यायार्जितं दत्तं स्वल्पं तत्र महाफलम् ॥
स्नानेनापि हि तत्तीर्थे रुद्रस्यानुचरो भवेत्
॥१५॥इति श्रीस्कांदे महापुराणे एकाकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये संक्षेपतस्तीर्थमाहात्म्य वर्णनं नामाष्टविंशोऽध्यायः ॥ २८ ॥