रामचरित्रवर्णनम्
व्यास उवाच
पुरा त्रेतायुगे प्राप्ते वैष्णवांशो रघूद्वहः ॥
सूर्यवंशे समुत्पन्नो रामो राजीवलोचनः
॥१॥स रामो लक्ष्मणश्चैव काकपक्षधरावुभौ ॥
तातस्य वचनात्तौ तु विश्वामित्रमनुव्रतौ
॥२॥यज्ञसंरक्षणार्थाय राज्ञा दत्तौ कुमारकौ ॥
धनुःशरधरौ वीरौ पितुर्वचनपालकौ
॥३॥पथि प्रव्रजतो यावत्ताडकानाम राक्षसी ॥
तावदागम्य पुरतस्तस्थौ वै विघ्नकारणात्
॥४॥ऋषेरनुज्ञया रामस्ताडकां समघातयत् ॥
प्रादिशच्च धनुर्वेदविद्यां रामाय गाधिजः
॥५॥तस्य पादतलस्पर्शाच्छिला वासवयोगतः ॥
अहल्या गौतमवधूः पुनर्जाता स्वरूपिणी
॥६॥विश्वामित्रस्य यज्ञे तु संप्रवृत्ते रघूत्तमः ॥
मारीचं च सुबाहुं च जघान परमेषुभिः
॥७॥ईश्वरस्य धनुर्भग्नं जनकस्य गृहे स्थितम् ॥
रामः पंचदशे वर्षे षड्वर्षां चैव मैथिलीम्
॥८॥उपयेमे तदा राजन्रम्यां सीतामयोनिजाम् ॥
कृतकृत्यस्तदा जातः सीतां संप्राप्य राघवः
॥९॥अयोध्यामगमन्मार्गे जामदग्न्यमवेक्ष्य च ॥
संग्रामोऽभूत्तदा राजन्देवानामपि दुःसहः
॥१०॥ततो रामं पराजित्य सीतया गृहमागतः ॥
ततो द्वादशवर्षाणि रेमे रामस्तया सह
॥११॥एकविंशतिमे वर्षे यौवराज्यप्रदायकम् ॥
राजानमथ कैकेयी वरद्वयमयाच त
॥१२॥तयोरेकेन रामस्तु ससीतः सहलक्ष्मणः ॥
जटाधरः प्रव्रजतां वर्षाणीह चतुर्दश
॥१३॥भरतस्तु द्वितीयेन यौवराज्याधिपोस्तु मे ॥
मंथरावचनान्मूढा वरमेतमयाचत
॥१४॥जानकीलक्ष्मणसखं रामं प्राव्राजयन्नृपः ॥
त्रिरात्रमुदकाहारश्चतुर्थेह्नि फलाशनः
॥१५॥पञ्चमे चित्रकूटे तु रामो वासमकल्पयत् ॥
तदा दशरथः स्वर्गं गतो राम इति ब्रुवन्
॥१६॥ब्रह्मशापं तु सफलं कृत्वा स्वर्गं जगाम किम् ॥
ततो भरत शत्रुघ्नौ चित्रकूटे समागतौ
॥१७॥स्वर्गतं पितरं राजन्रामाय विनिवेद्य च ॥
सांत्वनं भरतस्यास्य कृत्वा निवर्तनं प्रति
॥१८॥ततो भरत शत्रुघ्नौ नंदिग्रामं समागतौ ॥
पादुकापूजनरतौ तत्र राज्यधरावुभौ
॥१९॥अत्रिं दृष्ट्वा महात्मानं दण्डकारण्यमागमत ॥
रक्षोगणवधारम्भे विराधे विनिपातिते
॥२०॥अर्द्धत्रयोदशे वर्षे पंचवट्यामुवास ह ॥
ततो विरूपयामास शूर्पणखां निशाचरीम् ॥
वने विचरतरतस्य जानकीसहितस्य च
॥२१॥आगतो राक्षसो घोरः सीतापहरणाय सः ॥
ततो माघासिताष्टम्यां मुहूर्ते वृन्दसंज्ञके
॥२२॥राघवाभ्यां विना सीतां जहार दश कन्धरः ॥
मारीचस्याश्रमं गत्वा मृगरूपेण तेन च
॥२३॥नीत्वा दूरं राघवं च लक्ष्मणेन समन्वितम् ॥
ततो रामो जघानाशु मारीचं मृगरू पिणम्
॥२४॥पुनः प्राप्याश्रमं रामो विना सीतां ददर्श ह ॥
तत्रैव ह्रियमाणा सा चक्रंद कुररी यथा
॥२५॥रामरामेति मां रक्ष रक्ष मां रक्षसा हृताम् ॥
यथा श्येनः क्षुधायु्क्तः क्रन्दंतीं वर्तिकां नयेत्
॥२६॥तथा कामवशं प्राप्तो राक्षसो जनकात्मजाम् ॥
नयत्येष जनकजां तच्छ्रुत्वा पक्षिराट् तदा
॥२७॥युयुधे राक्षसेंद्रेण रावणेन हतोऽपतत् ॥
माघासितनवम्यां तु वसंतीं रावणालये
॥२८॥मार्गमाणौ तदा तौ तु भ्रातरौ रामलक्ष्मणौ
॥२९॥जटायुषं तु दृष्ट्वैव ज्ञात्वा राक्षससंहृताम् ॥
सीतां ज्ञात्वा ततः पक्षी संस्कृतस्तेन भक्तितः
॥३०॥अग्रतः प्रययौ रामो लक्ष्मणस्तत्पदानुगः ॥
पंपाभ्याशमनुप्राप्य शबरीमनुगृह्य च
॥३१॥तज्जलं समुपस्पृश्य हनुमद्दर्शनं कृतम् ॥
ततो रामो हनुमता सह सख्यं चकार ह
॥३२॥ततः सुग्रीवमभ्येत्य अहनद्वालिवानरम् ॥
प्रेषिता रामदेवेन हनुमत्प्रमुखाः प्रियाम्
॥३३॥अंगुलीयकमादाय वायुसूनुस्तदागतः ॥
संपातिर्दशमे मासि आचख्यौ वानराय ताम्
॥३४॥ततस्तद्वचनादब्धिं पुप्लुवे शतयोजनम् ॥
हनुमान्निशि तस्यां तु लंकायां परितोऽचिनोत्
॥३५॥तद्रात्रिशेषे सीताया दर्शनं तु हनूमतः ॥
द्वादश्यां शिंशपावृक्षे हनुमान्पर्यवस्थितः
॥३६॥तस्यां निशायां जानक्या विश्वासायाह संकथाम् ॥
अक्षादिभिस्त्रयोदश्यां ततो युद्धमवर्त्तत
॥३७॥ब्रह्मास्त्रेण त्रयोदश्यां बद्धः शक्रजिता कपिः ॥
दारुणानि च रूक्षाणि वाक्यानि राक्षसाधिपम्
॥३८॥अब्रवीद्वायुसूनुस्तं बद्धो ब्रह्मास्त्रसंयुतः ॥
वह्निना पुच्छयुक्तेन लंकाया दहनं कृतम्
॥३९॥पूर्णिमायां महेंद्राद्रौ पुनरागमनं कपेः ॥
मार्गशीर्षप्रतिपदः पंचभिः पथि वासरैः
॥४०॥पुनरागत्य वर्षेह्नि ध्वस्तं मधुवनं किल ॥
सप्तम्यां प्रत्यभिज्ञानदानं सर्वनिवेदनम्
॥४१॥मणिप्रदानं सीतायाः सर्वं रामाय शंसयत् ॥
अष्टम्युत्तरफाल्गुन्यां मुहूर्ते विजयाभिधे
॥४२॥मध्यं प्राप्ते सहस्रांशौ प्रस्थानं राघवस्य च ॥
रामः कृत्वा प्रतिज्ञां हि प्रयातुं दक्षिणां दिशम्
॥४३॥तीर्त्वाहं सागरमपि हनिष्ये राक्षसेश्वरम् ॥
दक्षिणाशां प्रयातस्य सुग्रीवोऽथाभव त्सखा
॥४४॥वासरैः सप्तभिः सिंधोस्तीरे सैन्यनिवेशनम् ॥
पौषशुक्लप्रतिपदस्तृतीयां यावदंबुधौ ॥
उपस्थानं ससैन्यस्य राघवस्य बभूव ह
॥४५॥विभीषणश्चतुर्थ्यां तु रामेण सह संगतः ॥
समुद्रतरणार्थाय पंचम्यां मंत्र उद्यतेः
॥४६॥प्रायोपवेशनं चक्रे रामो दिनचतुष्टयम् ॥
समुद्राद्वरलाभश्च सहोपायप्रदर्शनः
॥४७॥सेतोर्दशम्यामारंभस्त्रयोदश्यां समापनम् ॥
चतुर्दश्यां सुवेलाद्रौ रामः सेनां न्यवे शयत्
॥४८॥पूर्णिमास्या द्वितीयायां त्रिदिनैः सैन्यतारणम् ॥
तीर्त्वा तोयनिधिं रामः शूरवानरसैन्यवान्
॥४९॥रुरोध च पुरीं लंकां सीतार्थं शुभलक्षणः ॥
तृतीयादिदशम्यंतं निवेशश्च दिनाष्टकः
॥५०॥शुकसारणयोस्तत्र प्राप्तिरेकादशीदिने ॥
पौषासिते च द्वादश्यां सैन्यसंख्यानमेव च
॥५१॥शार्दूलेन कपींद्राणां सारासारोपवर्णनम् ॥
त्रयोदश्याद्यमांते च लंकायां दिवसैस्त्रिभिः
॥५२॥रावणः सैन्यसं ख्यानं रणोत्साहं तदाऽकरोत् ॥
प्रययावंगदो दौत्ये माघशुक्लाद्यवासरे
॥५३॥सीतायाश्च तदा भर्तुर्मायामूर्धादिदर्शनम् ॥
माघशुक्लद्वितीया यां दिनैः सप्तभिरष्टमीम्
॥५४॥रक्षसां वानराणां च युद्धमासीच्च संकुलम् ॥
माघशुक्लनवम्यां तु रात्राविंद्रजिता रणे
॥५५॥रामलक्ष्मणयोर्ना गपाशबंधः कृतः किल ॥
आकुलेषु कपीशेषु हताशेषु च सर्वशः
॥५६॥वायूपदेशाद्गरुडं सस्मार राघवस्तदा ॥
नागपाशविमोक्षार्थं दशम्यां गरु डोऽभ्यगात्
॥५७॥अवहारो माघशुक्लैस्यैकादश्यां दिनद्वयम् ॥
द्वादश्यामांजनेयेन धूम्राक्षस्य वधः कृतः
॥५८॥त्रयोदश्यां तु तेनैव निहतोऽकंपनो रणे ॥
मायासीतां दर्शयित्वा रामाय दशकंधरः
॥५९॥त्रासयामास च तदा सर्वान्सैन्यगतानपि ॥
माघशुक्लचतुर्द्दश्यां यावत्कृष्णादिवासरम्
॥६०॥त्रिदिनेन प्रहस्तस्य नीलेन विहितो वधः ॥
माघकृष्णद्वितीयायाश्चतुर्थ्यंतं त्रिभिर्दिनैः
॥६१॥रामेण तुमुले युद्धे रावणो द्रावितो रणात् ॥
पञ्चम्या अष्टमी यावद्रावणेन प्रबोधितः
॥६२॥कुंभकर्णस्तदा चक्रेऽभ्यवहारं चतुर्दिनम् ॥
कुम्भकर्णोकरोद्युद्धं नवम्यादिचतुर्दिनैः
॥६३॥रामेण निहतो युद्धे बहुवानरभक्षकः ॥
अमावास्यादिने शोकाऽभ्यवहारो बभूव ह
॥६४॥फाल्गुनप्रतिपदादौ चतुर्थ्यंतैश्चतुर्दिनैः ॥
नरांतकप्रभृतयो निहताः पञ्च राक्षसाः
॥६५॥पंचम्याः सप्तमीं यावदतिकायवधस्त्र्यहात् ॥
अष्टम्या द्वादशीं यावन्निहतो दिनपंचकात्
॥६६॥निकुम्भकुम्भौ द्वावेतौ मकराक्षश्चतुर्दिनैः ॥
फाल्गुनासितद्वितीयाया दिने वै शक्रजिज्जितः
॥६७॥तृतीयादौ सप्तम्यंतदिनपञ्चकमेव च ॥
ओषध्यानयवैयग्र्यादवहारो बभूव ह
॥६८॥अष्टम्यां रावणो मायामैथिलीं हतवान्कुधीः ॥
शोकावेगात्तदा रामश्चक्रे सैन्यावधारणम्
॥६९॥ततस्त्रयोदशीं यावद्दिनैः पंचभिरिंद्रजित् ॥
लक्ष्मणेन हतो युद्धे विख्यातबलपौरुषः
॥७०॥चतुर्द्दश्यां दशग्रीवो दीक्षामापावहारतः ॥
अमावास्यादिने प्रागाद्युद्धाय दशकंधरः
॥७१॥चैत्रशुक्लप्रतिपदः पंचमीदिनपंचके ॥
रावणो युध्यमानो ऽभूत्प्रचुरो रक्षसां वधः
॥७२॥चैत्रशुक्लाष्टमीं यावत्स्यंदनाश्वादिसूदनम् ॥
चैत्रशुक्लनवम्यां तु सौमित्रेः शक्तिभेदने
॥७३॥कोपाविष्टेन रामेण द्रावितो दशकंधरः ॥
विभीषणोपदेशेन हनुमद्युद्धमेव च
॥७४॥द्रोणाद्रेरोषधीं नेतुं लक्ष्मणार्थमुपागतः ॥
विशल्यां तु समादाय लक्ष्मणं तामपाययत्
॥७५॥दशम्यामवहारोऽभूद्रात्रौ युद्धं तु रक्षसाम् ॥
एकादश्यां तु रामाय रथो मातलिसारथिः
॥७६॥प्राप्तो युद्धाय द्वादश्यां यावत्कृष्णां चतुर्दशीम् ॥
अष्टादशदिने रामो रावणं द्वैरथेऽवधीत्
॥७७॥संस्कारा रावणादीनाममावा स्यादिनेऽभवन् ॥
संग्रामे तुमुले जाते रामो जयमवाप्तवान्
॥७८॥माघशुक्लद्वितीयादिचैत्रकृष्णचतुर्द्दशीम् ॥
सप्ताशीतिदिनान्येवं मध्ये पंवदशा हकम्
॥७९॥युद्धावहारः संग्रामो द्वासप्ततिदिनान्यभूत् ॥
वैशाखादि तिथौ राम उवास रणभूमिषु ॥
अभिषिक्तो द्वितीयायां लंकाराज्ये विभी षणः
॥८०॥सीताशुद्धिस्तृतीयायां देवेभ्यो वरलंभनम् ॥
दशरथस्यागमनं तत्र चैवानुमोदनम्
॥८१॥हत्वा त्वरेण लंकेशं लक्ष्मणस्याग्रजो विभुः ॥
गृहीत्वा जानकीं पुण्यां दुःखितां राक्षसेन तु
॥८२॥आदाय परया प्रीत्या जानकीं स न्यवर्तत ॥
वैशाखस्य चतुर्थ्यां तु रामः पुष्पकमा श्रितः
॥८३॥विहायसा निवृत्तस्तु भूयोऽयोध्यां पुरीं प्रति ॥
पूर्णे चतुर्दशे वर्षे पंचम्यां माधवस्य च
॥८४॥भारद्वाजाश्रमे रामः सगणः समु पाविशत् ॥
नंदिग्रामे तु षष्ठ्यां स पुष्पकेण समागतः
॥८५॥सप्तम्यामभिषिक्तोऽसौ भूयोऽयोध्यायां रघूद्वहः ॥
दशाहाधिकमासांश्च चतुर्दश हि मैथिली
॥८५॥उवास रामरहिता रावणस्य निवेशने ॥
द्वाचत्वारिंशके वर्षे रामो राज्यमकारयत्
॥८७॥सीतायास्तु त्रयस्त्रिंशद्वर्षाणि तु तदा भवन् ॥
स चतुर्दशवर्षांते प्रविष्टः स्वां पुरीं प्रभुः
॥८८॥अयोध्यां नाम मुदितो रामो रावणदर्पहा ॥
भ्रातृभिः सहितस्तत्र रामो राज्यमकार यत्
॥८९॥दशवर्षसहस्राणि दशवर्षशतानि च ॥
रामो राज्यं पालयित्वा जगाम त्रिदिवालयम्
॥९०॥रामराज्ये तदा लोका हर्षनिर्भरमा नसाः ॥
बभूवुर्धनधान्याढ्याः पुत्रपौत्रयुता नराः
॥९१॥कामवर्षी च पर्जन्यः सस्यानि गुणवंति च ॥
गावस्तु घटदोहिन्यः पादपाश्च सदा फलाः
॥९२॥नाधयो व्याधयश्चैव रामराज्ये नराधिप ॥
नार्यः पतिव्रताश्चासन्पितृभक्तिपरा नराः
॥९३॥द्विजा वेदपरा नित्यं क्षत्रिया द्विज सेविनः ॥
कुर्वते वैश्यवर्णाश्च भक्तिं द्विजगवां सदा
॥९४॥न योनिसंकरश्चासीत्तत्र नाचारसंकरः ॥
न वंध्या दुर्भगा नारी काकवंध्या मृत प्रजा
॥९५॥विधवा नैव काप्यासीत्सभर्तृका न लप्यते ॥
नावज्ञां कुर्वते केपि मातापित्रोर्गुरोस्तथा
॥९६॥न च वाक्यं हि वृद्धानामुल्लं घयति पुण्यकृत् ॥
न भूमिहरणं तत्र परनारीपराङ्मुखाः
॥९७॥नापवादपरो लोको न दरिद्रो न रोगभाक् ॥
न स्तेयो द्यूतकारी च मैरेयी पापिनो नहि
॥९८॥न हेमहारी ब्रह्मघ्नो न चैव गुरुतल्पगः ॥
न स्त्रीघ्नो न च बालघ्नो न चैवानृतभाषणः
॥९९॥न वृत्तिलोपकश्चासीत्कूट साक्षी न चैव हि ॥
न शठो न कृतघ्नश्च मलिनो नैव दृश्यते
॥१००॥सदा सर्वत्र पूज्यंते ब्राह्मणा वेदपारगाः ॥
नावैष्णवोऽव्रती राजन्राम राज्येऽतिविश्रुते
॥१०१॥राज्यं प्रकुर्वतस्तस्य पुरोधा वदतां वरः ॥
वसिष्ठो मुनिभिः सार्द्धं कृत्वा तीर्थान्यनेकशः
॥२॥आजगाम ब्रह्मपुत्रो महाभागस्तपोनिधिः ॥
रामस्तं पूजयामास मुनिभिः सहितं गुरुम्
॥३॥अभ्युत्थानार्घपाद्यैश्च मधुपर्कादिपूजया ॥
प्रपच्छ कुशलं रामं वसिष्ठो मुनिपुंगवः
॥४॥राज्ये चाश्वे गजे कोशे देशे सद्भ्रातृभृत्ययोः ॥
कुशलं वर्त्तते राम इति पृष्टे मुनेस्तदा
॥५॥राम उवाच
सर्वत्र कुशलं मेऽद्य प्रसादाद्भवतः सदा ॥
पप्रच्छ कुशलं रामो वसिष्ठं मुनिपुंगवम्
॥६॥सर्वतः कुशली त्वं हि भार्यापुत्रसमन्वितः ॥
स सर्वं कथयामास यथा तीर्थान्यशेषतः
॥७॥सेवितानि धरापृष्ठे क्षेत्राण्यायतनानि च ॥
रामाय कथयामास सर्वत्र कुशलं तदा
॥८॥ततः स विस्मयाविष्टो रामो राजीवलोचनः ॥
पप्रच्छ तीर्थमाहात्म्यं यत्तीर्थेषूत्तमोत्तमम्
॥१०९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये रामचरित्रवर्णनंनाम त्रिंशोऽध्यायः ॥ ३० ॥