अध्ययनम्
- अनुक्रमणिका
- ईशानबलिः
- मूलम्
- याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६३८–६३९ — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।
ईशानबलिः
यन्मे॑ मा॒ता प्रलु॑लोभ॒ चर॒त्यन॑नुव्रता। तन्मे॒ रेतः॑ पि॒ता वृ॑ङ्क्तां मा॒ऽऽभुर॒न्योऽव॑पद्यताम॒मुष्मै॒ स्वाहा᳚। यास्तिष्ठ॑न्ति॒ या धाव॑न्ति॒ या आ᳚र्द्रो॒घ्नीः परि॑त॒स्थुषीः᳚। अ॒द्भिर्विश्व॑स्य भ॒र्त्रीभि॑र॒न्तर॒न्यं पि॒तुर्द॑धे॒ऽमुष्मै॒ स्वाहा᳚। यन्मे॑ पिताम॒ही प्रलु॑लोभ॒ चर॒त्यन॑नुव्रता।
॥१॥तन्मे॒ रेतः॑ पिताम॒हो वृ॑ङ्क्तां मा॒ऽऽभुर॒न्योऽव॑पद्यताम॒मुष्मै॒ स्वाहा᳚। अ॒न्तर्द॑धे॒ पर्व॑तैर॒न्तर्मह्या॑ पृथि॒व्या। आ॒भिर्दि॒ग्भिर॑न॒न्ताभि॑र॒न्तर॒न्यं पि॑ताम॒हाद्द॑धे॒ऽमुष्मै॒ स्वाहा᳚। यन्मे᳚ प्रपिताम॒ही प्रलु॑लोभ॒ चर॒त्यन॑नुव्रता। तन्मे॒ रेतः॑ प्रपिताम॒हो वृ॑ङ्क्तां मा॒ऽऽभुर॒न्योऽव॑पद्यताम॒मुष्मै॒ स्वाहा᳚।
॥२॥अ॒न्तर्द॑ध ऋ॒तुभि॑रहोरा॒त्रैः स॑ स॒न्धिभिः॑। अ॒र्ध॒मा॒सैश्च॒ मासै᳚श्चा॒न्तर॒न्यं प्र॑पिताम॒हाद्द॑धे॒ऽमुष्मै॒ स्वाहा᳚। ये चे॒ह पि॒तरो॒ ये च॒ नेह॒ याꣴश्च॑ वि॒द्म याꣳ उ॑ च॒ न प्र॑वि॒द्म। अग्ने॒ तान् वे᳚त्थ॒ यदि॒ ते जा॑तवेद॒स्तया᳚ प्र॒त्तꣴ स्व॒धया॑ मदन्तु॒ स्वाहा᳚। स्वाहा॑ पि॒त्रे। पि॒त्रे स्वाहा᳚। स्वाहा॑ पि॒त्रे।
॥३॥पि॒त्रे स्वाहा᳚। स्व॒धा स्वाहा᳚। अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा᳚।
॥४॥ए॒ष ते॑ तत॒ मधु॑माꣳ ऊ॒र्मिः सर॑स्वा॒न् यावा॑न॒ग्निश्च॑ पृथि॒वी च॒ ताव॑त्यस्य मा॒त्रा ताव॑तीं त ए॒तां मात्रां᳚ ददामि॒ यथा॒ऽग्निर॑क्षि॒तोऽनु॑पदस्त ए॒वं मह्यं॑ पि॒त्रेऽक्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व॒ तां त्वꣴ स्व॒धां तैः स॒होप॑जीव॒र्चस्ते॑ महिमै॒ष ते॑ पितामह॒ मधु॑माꣳ ऊ॒र्मिः सर॑स्वा॒न् यावा᳚न् वा॒युश्चा॒न्तरि॑क्षं च॒ ताव॑त्यस्य मा॒त्रा ताव॑तीं त ए॒तां मात्रां᳚ ददामि॒ यथा॑ वा॒युर॑क्षि॒तोऽनु॑पदस्त ए॒वं मह्यं॑ पिताम॒हाया॑क्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व॒ तां त्वꣴ स्व॒धां तैः स॒होप॑जीव॒ सामा॑नि ते महिमै॒ष ते᳚ प्रपितामह॒ मधु॑माꣳ ऊ॒र्मिः सर॑स्वा॒न् यावा॑नादि॒त्यश्च॒ द्यौश्च॒ ताव॑त्यस्य मा॒त्रा ताव॑तीं त ए॒तां मात्रां᳚ ददामि॒ यथा॑ऽऽदि॒त्योऽक्षि॒तोऽनु॑पदस्त ए॒वं मह्यं॑ प्रपिताम॒हाया॑क्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व॒ तां त्वꣴ स्व॒धां तैः स॒होप॑जीव॒ यजू॑ꣳषि ते महि॒मा॥१९॥
॥५॥