अध्ययनम्
- अनुक्रमणिका
- विवाहे चर्मोपवेशनादयः · टिप्पण्यः
- मूलम्
- याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६०९ — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।
विवाहे चर्मोपवेशनादयः
इ॒ह गावः॒ प्रजा॑यध्वमि॒हाश्वा॑ इ॒ह पूरु॑षाः। इ॒हो स॒हस्र॑दक्षिणो रा॒यस्पोषो॒ निषी॑दतु। सोमे॑नादि॒त्या ब॒लिनः॒ सोमे॑न पृथि॒वी दृ॒ढा। अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आधि॑तः। प्रस्वः स्थः॒ प्रेयं प्र॒जया॒ भुव॑ने शोचेष्ट। इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑ध्यताम॒स्मिन्गृ॒हे गार्ह॑पत्याय जागृहि।
॥१॥ए॒ना पत्या॑ त॒न्व॑ꣳ सꣳ सृ॑ज॒स्वाथा॒ जीव्री॑ वि॒दथ॒माव॑दासि। सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒माꣳ स॑मेत॒ पश्य॑त। सौभा᳚ग्यम॒स्यै द॒त्वायाथास्तं॒ विपरे॑तन। ध्रु॒वक्षि॑तिर्ध्रु॒वयो॑निर्ध्रु॒वम॑सि ध्रु॒वतः॑ स्थि॒तम्। त्वं नक्ष॑त्राणां मे॒थ्यसि॒ स मा॑ पाहि पृतन्य॒तः। स॒प्त॒ ऋ॒षयः॑ प्रथ॒मां कृत्ति॑कानामरुन्ध॒तीं।
॥२॥यद्ध्रु॒वता॒ꣳ ह नि॒न्युः षट्कृत्ति॑का मुख्ययो॒गं वह॑न्ती॒यम॒स्माक॑मेधत्वष्ट॒मी। सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य᳚म्। सनिं॑ मे॒धाम॑यासिषम्। उद्दी᳚प्यस्व जातवेदोऽप॒घ्नन्निर्ऋ॑तिं॒ मम॑। प॒शूꣳश्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑ दिश । मानो॑ हिꣳसीज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त्।
॥३॥अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑ पातय॥९॥
॥४॥टिप्पण्यः
“दिशो॑ दश” इति वा
॥५॥