मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

भूतं भव्यं भविष्यत्

Also spelled: Bhutam Bhavyam Bhavishyat · Bhutham Bhavyam Bhavishyath

भूतं भव्यं भविष्यत्. Also called bhutam bhavyam, Bhūtaṃ bhavyaṃ bhaviṣyat. Svara-marked text on Vaidhika Dharma.

3
अध्ययनम्
अनुक्रमणिका
संहिता निर्देशाः
मूलम्

तै॰आ॰ १.१३

अ॒ष्टयो॑नीम॒ष्टपु॑त्राम्। अ॒ष्टप॑त्नीमि॒मां मही᳚म्।

अ॒हं वेद॒ न मे॑ मृत्युः। न चामृ॑त्युर॒घाऽऽह॑रत्।

अ॒ष्टयो᳚न्य॒ष्टपु॑त्रम्। अ॒ष्टप॑दि॒दम॒न्तरि॑क्षम्।

अ॒हं वेद॒ न मे॑ मृत्युः। न चामृ॑त्युर॒घाऽऽह॑रत्।

अ॒ष्टयो॑नीम॒ष्टपु॑त्राम्। अ॒ष्टप॑त्नीम॒मूं दिवम्‌᳚॥६१॥

अ॒हं वेद॒ न मे॑ मृत्युः। न चामृ॑त्युर॒घाऽऽह॑रत्।

सु॒त्रामा॑णं म॒हीमू॒ षु। अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्षम्।

अदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः। विश्वे॑ दे॒वा अदि॑तिः॒ पञ्च॒जनाः᳚।

अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम्। अ॒ष्टौ पु॒त्रासो॒ अदि॑तेः।

ये जा॒तास्त॒न्वः॑ परि॑। दे॒वां(२) उप॑प्रैथ्स॒प्तभिः॑॥६२॥

प॒रा॒ मा॒र्ता॒ण्डमास्य॑त्। स॒प्तभिः॑ पु॒त्रैरदि॑तिः।

उप॒प्रैत्पू॒र्व्यं॑ युगम्᳚। प्र॒जायै॑ मृ॒त्यवे त॑त्।

प॒रा॒ मा॒र्ता॒ण्डमाभ॑र॒दिति॑। ताननुक्र॑मिष्या॒मः।

मि॒त्रश्च॒ वरु॑णश्च। धा॒ता चा᳚र्य॒मा च॑।

अꣳश॑श्च॒ भग॑श्च। इन्द्रश्च विवस्वाꣴ॑श्चेत्ये॒ते।

हि॒र॒ण्य॒ग॒र्भो ह॒ꣳ॒सः शु॑चि॒षत्।

ब्रह्म॑जज्ञा॒नं तदित्प॒दमिति॑। ग॒र्भः प्रा॑जाप॒त्यः।

अथ॒ पुरु॑षः स॒प्त पुरु॑षः॥६३॥ ॥TA 1.13॥

॥१॥