मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

रावणोक्ता पञ्चमुखप्रार्थना

रावणोक्ता पञ्चमुखप्रार्थना. Also called ravana panchamukha, Rāvaṇoktā pañcamukhaprārthanā. Svara-marked text on Vaidhika Dharma.

3
अध्ययनम्
अनुक्रमणिका
पूर्वमुखम् · दक्षिणमुखम् · पश्चिममुखम् · उत्तरमुखम् · ऊर्ध्वमुखम्
मूलम्
याजुषमन्त्ररत्नाकरम् पृष्ठानि ४०२–४०४। पञ्चमुखप्रार्थनायाः पाठः तथा स्वरचिह्नानि मुद्रितपाठेन सह संशोधितानि।

पूर्वमुखम्

तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि। तन्नो॑ रुद्रः प्रचो॒दया᳚त्॥

॥१॥

संवर्ताग्नि-तडित्प्रदीप्तकनक-प्रस्पर्धितेजोमयं गम्भीरध्वनि-सामगान-जनकं ताम्राधरं सुन्दरम्। अर्धेन्दुद्युति-लोलपिङ्गलजटाभार-प्रबद्धोरगं वन्दे सिद्धसुरासुरेन्द्र-नमितं पूर्वं मुखं शूलिनः। पूर्वमुखाय नमः।

॥२॥

अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒ घोर॑तरेभ्यः । सर्वे᳚भ्यः सर्व॒ शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥

॥३॥

दक्षिणमुखम्

कालाभ्रभ्रमराञ्जन-द्युतिनिभं व्यावृत्तपिङ्गेक्षणं कर्णोद्भासित-भोगिमस्तक-मणिप्रोद्भिन्न-दंष्ट्राङ्कुरम्। सर्पप्रोतकपाल-शुक्तिशकल-व्याकीर्णताशेखरं वन्दे दक्षिणमीश्वरस्य कुटिलं भ्रूभङ्गरौद्रं मुखम्। दक्षिणमुखाय नमः।

॥४॥

स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नम॑ः। भ॒वेभ॑वे॒ नाति॑भवे भवस्व॒ माम्। भ॒वोद्भ॑वाय॒ नम॑ः॥

॥५॥

पश्चिममुखम्

प्रालेयाचलमिन्दुदुन्दधवलं गोक्षीरफेनप्रभं भस्माभ्यक्तमनङ्गदेह-दहनज्वालावली-लोचनम्। ब्रह्मेन्द्रादिमरुद्गणैः स्तुतिपरैरभ्यर्चितं योगिभिर्वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम्। पश्चिममुखाय नमः।

॥६॥

वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नम॑ः श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नम॒ः काला॑य नम॒ः कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒ः सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नम॑ः॥

॥७॥

उत्तरमुखम्

गौरं कुङ्कुमपङ्किलं सुतिलकं व्यापाण्डुगण्डस्थलं भ्रूविक्षेप-कटाक्षवीक्षणलसत्-संसक्त-कर्णोत्पलम्। स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालङ्कृतं वन्दे पूर्णशशाङ्कमण्डलनिभं वक्त्रं हरस्योत्तरम्। उत्तरमुखाय नमः।

॥८॥

ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥

॥९॥

ऊर्ध्वमुखम्

व्यक्ताव्यक्तगुणात्परं च परतः षट्त्रिंशत्तत्त्वात्मकं तस्मादुत्तम-तत्त्वमक्षरमिति ध्येयं सदा योगिभिः। वन्दे तामसवर्जितेन मनसा सूक्ष्मातिसूक्ष्मत्परं शान्तं पञ्चममीश्वरस्य वदनं खव्याप्त-तेजोमयम्। ऊर्ध्वमुखाय नमः।

॥१०॥