मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

विवाहे अग्निभागान्ते अभिमन्त्रणम्

विवाहे अग्निभागान्ते अभिमन्त्रणम्. Also called vivaha agni bhaga, Vivāhe agnibhāgānte abhimantraṇam. Svara-marked text on Vaidhika Dharma.

3
अध्ययनम्
अनुक्रमणिका
विवाहे अग्निभागान्ते अभिमन्त्रणम् · टिप्पण्यः
मूलम्
याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६०२–६०३ — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।

विवाहे अग्निभागान्ते अभिमन्त्रणम्

सोमः॑ प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः। तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः॥३.१॥

॥१॥

सोमो॑ऽददद् गन्ध॒र्वाय॑ गन्ध॒र्वोऽद॑दद॒ग्नये᳚। र॒यिं च॑ पु॒त्राꣴश्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम्॥३॥

॥२॥

गृ॒भ्णामि॑ ते सुप्रजा॒स्त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथाऽसः॑। भगो॑ अर्य॒मा स॑वि॒ता पुर॑न्धि॒र्मह्यं॑ त्वाऽदु॒र्गार्ह॑पत्याय दे॒वाः॥३॥

॥३॥

ते ह॒ पूर्वे॒ जना॑सो॒ यत्र॑ पूर्व॒वहो॑ हि॒ताः। मू॒र्ध॒न्वान् यत्र॑ सौभ्र॒वः पूर्वो॑ दे॒वेभ्य॒ आत॑पत्॥४॥

॥४॥

सर॑स्वति॒ प्रेदम॑व॒ सुभ॑गे॒ वाजि॑नीवति। तां त्वा॒ विश्व॑स्य भू॒तस्य॑ प्र॒गाया॑मप्यग्र॒तः॥५॥

॥५॥

य एति॑ प्र॒दिशः॒ सर्वा॒ दिशोऽनु॒ पव॑मानः। हिर॑ण्यहस्त ऐरं॒मः स त्वा॒ मन्म॑नसं कृणोतु॥६॥

॥६॥

एक॑मि॒षे विष्णु॒स्त्वाऽन्वे॑तु द्वे ऊ॒र्जे त्रीणि॑ व्र॒ताय॑ च॒त्वारि॒ मायो॑भवाय॒ पञ्च॑ प॒शुभ्यः॒ षडृ॒तुभ्यः॑ स॒प्त स॒प्तभ्यो॒ होत्रा᳚भ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु॥१३॥

॥७॥

सखा॑ स॒प्तप॑दा भव॒ सखा॑यौ स॒प्तप॑दा बभूव स॒ख्यं ते॑ गमेयꣳ स॒ख्यात्ते॒ मा यो॑षꣳ स॒ख्यान्मे॒ मा यो᳚ष्ठाः॒ सम॑याव॒ संक॑ल्पावहै॒ संप्रि॑यौ रोचि॒ष्णू सु॑मन॒स्यमा॑नौ। इष॒मूर्ज॑म॒भि सं॒वसा॑नौ॒ सं नौ॒ मना॑ꣳसि॒ सं व्र॒ता समु॑ चि॒त्तान्याक॑रम्।

॥८॥

सा त्वम॒स्यमू॒हममू॒हम॑स्मि॒ सा त्वं द्यौर॒हं पृ॑थि॒वी त्वꣳ रे॑तो॒ऽहꣳ रे॑तो॒भृत्त्वं मनो॒ऽहम॑स्मि॒ वाक् त्वꣳ सामा॒हम॒स्म्यृ॑क्त्व॒ꣳ सा मामनु॑व्रता भव पु॒ꣳसे पु॒त्राय॒ वेत्त॑वै श्रि॒यै पु॒त्राय॒ वेत्त॑व॒ एहि॑ सूनृते॥३.१४॥

॥९॥

टिप्पण्यः

आ॒शासा॒नेत्ये॒षा।

॥१०॥