मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

गर्भाधाने समावेशनजपः

गर्भाधाने समावेशनजपः. Also called garbhadhana samaveshana, Garbhādhāne samāveśanajapaḥ. Svara-marked text on Vaidhika Dharma.

3
अध्ययनम्
अनुक्रमणिका
गर्भाधाने समावेशनजपः · टिप्पण्यः
मूलम्
याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६११–६१२ — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।

गर्भाधाने समावेशनजपः

आरो॑हो॒रुमुप॑बर्हस्व बा॒हुं परि॑ष्वजस्व जा॒याꣳ सु॑मन॒स्यमा॑नः। तस्यां᳚ पुष्यतं मिथु॒नौ सयो॑नी ब॒ह्वीं प्र॒जां ज॒नय॑न्तौ॒ सरे॑तसा। आ॒र्द्रयाऽर॑ण्या॒ यत्राम॑न्थ॒त्पुरु॑षं॒ पुरु॑षेण श॒क्रः। तदे॒तौ मि॑थु॒नौ सयो॑नी प्र॒जया॒ऽमृते॑ने॒ह ग॑च्छतम्। अ॒हं गर्भ॒मद॑धा॒मोष॑धीष्व॒हं विश्वे॑षु॒ भुव॑नेष्व॒न्तः।

॥१॥

अ॒हं प्र॒जा अ॑जनयं पितृ॒णाम॒हं जनि॑भ्यो अव॒रीषु॑ पु॒त्रान्। पु॒त्रिणे॒मा कु॑मा॒रिणा॒ विश्व॒मायु॒र्व्य॑श्नुतम्। उ॒भा हिर॑ण्यपेशसा वी॒तिहो᳚त्रा कृ॒तद्व॑सू। द॒श॒स्यं त्वा॒ऽमृता॑य॒ कꣳ शमूधो॑ रोम॒शꣳ ह॑थो दे॒वेषु॑ कृ॒णुतो॒ दुवः॑॥१२॥

॥२॥

टिप्पण्यः

“त॒नू ऋ॒त्विये॒”, “त॒नूमृ॒त्विये॒” इति वा

॥३॥

“शं न॑ एधि द्वि॒पदे॒” इति वा

॥४॥

“यस्या॑मु॒शन्तः॒ प्रह॑रेम॒ शेफ᳚म्” इति वा

॥५॥