मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ९५

3
नागरखण्डः · 95

श्रीहाटकेश्वरक्षेत्रमाहात्म्येऽजापालेश्वरीमाहात्म्यवर्णनम्

सूत उवाच

अथान्यापि च तत्रास्ति देशकामप्रदा नृणाम् ॥

अजापालेन भूपेन स्थापिता पापनाशनी

॥१॥

तां च शुक्लचतुर्दश्यामजापालेश्वरीं नरः ॥

यो वै पूजयते भक्त्या धूपपुष्पानुलेपनैः ॥

स प्राप्नोतीप्सितान्कामान्दुर्लभा सर्वमानवैः

॥२॥

तस्या देव्याः प्रसादेन सत्यमेतन्मयोदितम् ॥

अजापालो महीपालः पुराऽऽसीत्संमतः सताम्

॥३॥

हितकृत्सर्वलोकस्य यथा माता यथा पिता ॥

तेन राज्यं समासाद्य पितृपैतामहं शुभम्

॥४॥

चिंतितं मनसा पश्चात्स्वयमेव महात्मना ॥

मया तत्कर्म कर्तव्यं यदन्यैरिह भूमिपैः ॥

न कृतं न करिष्यंति ये भविष्यन्त्यतः परम्

॥५॥

एष एव परो धर्मो भूपतीनामुदाहृतः ॥

यत्प्रजापालनं शश्वत्तासां च सुखसंस्थितिः

॥६॥

यथायथा करं भूपास्ता मां गृह्णंति लोलुपाः ॥

तथातथा मनःक्षोभो हृदये संप्रजायते

॥७॥

न करेण विना भूपा हस्त्यश्वादिबलं च यत् ॥

शक्नुवंति परित्रातुं पादातं च विशेषतः

॥८॥

विना तेन स गम्यः स्यान्नीचानामपि सत्वरम् ॥

एतस्मात्कारणाद्भूपाः करं गृह्णंति लोकतः

॥९॥

तस्मान्मया विनाप्याशु नागैश्चैव नरैस्तथा ॥

तपः शक्त्या प्रकर्तव्यं राज्यं निहतकण्टकम्

॥१०॥

करानगृह्णता तेन लोकान्रंजयता सदा ॥

अन्येषां भूमिपालानां विशेषेण महात्मनाम्

॥११॥

एवं चित्ते समाधाय वसिष्ठं मुनिपुंगवम् ॥

पुरोधसं समाहूय ततः प्रोवाच सादरम्

॥१२॥

अत्र भूमितले विप्र सर्वेषां तीर्थमुत्तमम् ॥

अल्पकालेन सन्तुष्टिं यत्र याति महेश्वरः ॥

वासुदेवोऽथवा ब्रह्मा ह्येतच्छीघ्रं वदस्व मे

॥१३॥

येनाहं सर्वलोकस्य हितार्थं तप आददे ॥

न स्वार्थं ब्राह्मणश्रेष्ठ सत्येनात्मानमालभे

॥१४॥

वसिष्ठ उवाच

तिस्रः कोट्योर्धकोटी च तीर्थानामिह भूतले ॥

संति पार्थिवशार्दूल प्रभावसहितानि च

॥१५॥

अष्टषष्टिस्तथा राजन्क्षेत्राणामस्ति भूतले ॥

येषां सांनिध्यमभ्येति सर्वदैव महेश्वरः

॥१६॥

तथा सर्वे सुरास्तुष्टा ब्रह्मविष्णु शिवादयः ॥

परं सिद्धिप्रदं शीघ्रं मानुषाणां महीपते

॥१७॥

हाटकेश्वरदेवस्य क्षेत्रं पातकनाशनम् ॥

देवानामपि सर्वेषां तुष्टिं गच्छति चंडिका

॥१८॥

शीघ्रमाराधिता सम्यक्छ्रद्धायुक्तैर्नरैर्भुवि ॥

तस्मात्तत्क्षेत्रमासाद्य तां देवीं श्रद्धयान्वितः ॥

आराधय महाभाग द्रुतं सिद्धिमवाप्स्यसि

॥१९॥

एवमुक्तः स तेनाथ गत्वा तत्क्षेत्रमुत्तमम् ॥

प्रतिष्ठाप्य च देवीं तां पूजयामास भक्तितः

॥२०॥

ब्रह्मचर्यपरो भूत्वा शुचिर्व्रतपरायणः ॥

नियतो नियताहारस्त्रिकालं स्नानमाचरन्

॥२१॥

एवमाराध्यतस्तत्र गन्धपुष्पानुलेपनैः ॥

पूजापरस्य सा देवी तस्य तुष्टिं ततो गता

॥२२॥

देव्युवाच

परितुष्टास्मि ते वत्स व्रतेनानेन नित्यथः ॥

बलिपूजाविधानेन विहितेनामुना स्वयम्

॥२३॥

तद्ब्रूहि येन ते सर्वं प्रकरोमि हृदि स्थितम् ॥

सद्य एव महीपाल त्रिदशैरपि दुर्लभम्

॥२४॥

राजोवाच

लोकानां हितकामेन मयैतद्व्रतमाहृतम् ॥

येन तेषां भवेत्सौख्यं मत्प्रसादादनुत्तमम्

॥२५॥

तस्माद्देहि महाभागे ज्ञानयुक्तानि भूरिशः ॥

ममास्त्राणि विचित्राणि स्वैरगाणि समन्ततः

॥२६॥

यानि जानंति भूपृष्ठे मम पार्श्वे स्थितान्यपि ॥

अपराधं सदा लोके परदारादि यत्कृतम् २७ ॥

अनुरूपं ततस्तस्य पातकस्य विनिग्रहम् ॥

प्रकुर्वंति मिथो येन न तेषां संकरो भवेत्

॥२८॥

मंत्रग्रामं तथा देवि मम देहि पृथग्विधम् ॥

निग्रहं व्याधिसत्त्वानां येन शीघ्रं करोम्यहम्

॥२९॥

येन स्युर्मनुजाः सर्वे मम राज्ये सुखान्विताः ॥

नीरोगाः पुष्टिसंपन्ना भयशोकविवर्जिताः

॥३०॥

नाहं देवि करिष्यामि हस्त्यश्वरथसंग्रहम् ॥

यतस्तेषां भवेत्पुष्टिर्वित्तैर्वित्तं करैर्भवेत् ॥

गृहीतैः सर्वलोकानां तस्मात्तन्न ममेप्सितम्

॥३१॥

श्रीदेव्युवाच

अत्यद्भुततरं कर्म त्वयैतत्पृथिवीपते ॥

प्रारब्धं यन्न केनापि कृतं न च करिष्यति

॥३२॥

तथाप्येवं करिष्यामि तव दास्यामि कृत्स्नशः ॥

ज्ञानयुक्तानि शस्त्राणि मंत्रग्रामं च तादृशम्

॥३३॥

गृह्यन्ते येन ते सर्वे व्याधयोऽपि सुदारुणाः ॥

परं सदैव ते रक्ष्या मन्मन्त्रैरपि संयुताः

॥३४॥

यदि दृष्टिपथात्तुभ्यं क्वचिद्यास्यंति दूरतः ॥

मानवान्पीडयिष्यंति चिरात्प्राप्याधिकं ततः

॥३५॥

यदा त्वं पृथिवीपाल स्वर्गं यास्यसि भूतलात् ॥

तदात्र सलिले स्थाप्या मदग्रे(*) यद्व्यवस्थितम्

॥३६॥

सर्वे मंत्रास्तथाऽस्त्राणि ममवाक्यादसंशयम् ॥

येन स्यात्पूर्ववत्सर्वो व्यवहारो नृपोद्भवः

॥३७॥

सूत उवाच

बाढमित्येव तेनोक्ते तत्क्षणाद्द्विजसत्तमाः ॥

प्रादुर्भूतानि दिव्यानि तस्यास्त्राणि बहूनि च

॥३८॥

ज्ञानसंपत्प्रयुक्तानि यादृशानि महात्मना ॥

तेन संयाचितान्येव व्याधिमंत्रास्तथैव च

॥३९॥

व्याधयो यैश्च गृह्यंते मुच्यंते स्वेच्छया सदा ॥

सुखेन परिपाल्यंते दृष्टिगोचरसंस्थिताः

॥४०॥

ततस्तं सकलं प्राप्य प्रसादं चंडिकोद्भवम् ॥

तच्च हस्त्यादिकं सर्वं ब्राह्मणेभ्यो ददौ नृप

॥४१॥

एकां मुक्त्वा निजां भार्यामेकं दशरथं सुतम् ॥

तांश्चापि सकलान्व्याधीन्मंत्रैः संयम्य यत्नतः

॥४२॥

अजारूपान्स्वयं पश्चाद्यष्टिमादाय रक्षति ॥

एवं तस्य नरेन्द्रस्य वर्तमानस्य भूतले

॥४३॥

गुप्तोऽपि नापराधः स्यात्कस्यचित्प्रकटः कुतः ॥

प्रमादाद्यदि भूलोके कश्चित्पापं समाचरेत्

॥४४॥

तद्रूपो निग्रहस्तस्य तत्क्षणादेव जायते ॥

वधं वा यदि वा बंधं क्लेशं चाऽरातिसंभवम्

॥४५॥

अदृष्टान्यपि शस्त्राणि तानि कुर्वंति तत्क्षणात् ॥

अन्येषां च महीपानां राज्ये गुप्तान्यनेकशः ॥

कुर्वन्ति मनुजास्तेषां चक्रे वैवस्वतो ग्रहम्

॥४६॥

न तत्र भयसंत्रस्तस्ततः पापसमाचरेत् ॥

प्रत्यक्षं वा विशेषेण ज्ञात्वा शस्त्रभयं च तत्

॥४७॥

ततस्ते पापनिर्मुक्ता लोकाः संशुद्धगात्रकाः ॥

रोगेषु निगृहीतेषु प्राप्ताः सुखमनुत्तमम्

॥४८॥

एवं स्थितेषु लोकेषु गतपापामयेषु च ॥

प्रयाताः शून्यतां सर्वे नरका ये यमालये

॥४९॥

न कश्चिन्नरकं याति न च मृत्युपथं नरः ॥

यथा कृतयुगं तादृक्त्रेतायामपि संस्थितम्

॥५०॥

व्यवहारे ततो नष्टे यमलोकसमुद्भवे ॥

स्वर्गेण तुल्यतां प्राप्ते प्राणिभिर्मृत्युवर्जितैः

॥५१॥

ततो वैवस्वतो गत्वा ब्रह्मणः सदनं प्रति ॥

प्रोवाच दुःखसंपन्नः प्रणिपत्य पितामहम्

॥५२॥

अहं पुरा त्वया देव धर्माधर्मदिदृक्षया ॥

मानुषाणां समादिष्टो निग्रहानुग्रहं प्रति

॥३३॥

अजापालेन भूपेन तत्सर्वं विफलीकृतम् ॥

तपःशक्त्या सुरश्रेष्ठ देवीमाराध्य चंडिकाम्

॥५४॥

नाधयो व्याधयस्तत्र न पापानि महीतले ॥

कस्यचिद्देव जायंते यथा कृतयुगे तथा

॥५५॥

तस्मात्कुरु सुरश्रेष्ठ पुनरेव यथा पुरा ॥

मदीयभवने कृत्स्नो व्यवहारः प्रजायते

॥५६॥

तस्य तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः ॥

समीप उपविष्टस्य शिवस्याऽऽस्यं व्यलोकयत्

॥९७॥

अथाब्रवीत्प्रहस्योच्चैस्त्रिनेत्रश्चतुराननम् ॥

अत्यद्भुततमां श्रुत्वा तां वार्तां यमसंभवाम्

॥५८॥

महेश्वर उवाच

धर्ममार्गप्रवृत्तस्य सदाचारस्य भूपतेः ॥

कथं निवारणं तत्र क्रियते कश्च निग्रहः

॥५९॥

तस्मात्तेन महीपेन यस्मान्मार्गः प्रदर्शितः ॥

अपूर्वो धर्मसंभूतः कृतः सम्यङ्महात्मना

॥६०॥

तन्मयापि यथा चास्य प्रसादः सुरसत्तम ॥

अपूर्वः करणीयश्च यथा धर्मो न दुष्यति

॥६१॥

एवमुक्त्वा चतुर्वक्त्रं यमं प्राह ततः शिवः ॥

वदायुषोऽस्य यच्छेषमजापालस्य भूपतेः ॥

येन तत्समये प्राप्ते तं नयामि निजालयम्

॥६२॥

यम उवाच

पञ्चवर्षसहस्राणि तस्यातीतानि चायुषः ॥

तिष्ठंति पञ्चपञ्चाशत्प्रतीक्ष्येऽहं ततः कथम्

॥६३॥

यावत्कालं सुरश्रेष्ठ शून्ये जाते स्व आश्रये ॥

तस्मात्कुरु द्रुतं कंचिदुपायं तद्विनाशने

॥६४॥

एवमुक्ते यमेनाथ तं विसृज्य गृहं प्रति ॥

व्याघ्ररूपं समास्थाय स्वयं तत्संनिधौ ययौ

॥६५॥

यत्र संस्थो महीपः स प्रजापालनतत्परः ॥

मेघगम्भीरनिर्घोषं गर्जमानो मुहुर्मुहुः

॥६६॥

अजास्तास्तं च संवीक्ष्य व्याघ्रं रौद्रवपुर्द्धरम् ॥

अजापालं समुद्दिश्य संत्रस्ताः शरणं गताः

॥६७॥

तस्य यत्नपरस्यापि रक्षमाणस्य भूपतेः ॥

अजास्ता व्याघ्ररूपेण शंकरेण प्रभक्षिताः

॥६८॥

अजानां कदनं दृष्ट्वा ततः स पृथिवीपतिः ॥

स्वहस्ताद्यष्टिमुत्सृज्य जग्राह निशितायुधम्

॥६९॥

यत्तस्य तुष्टया दत्तं चंडं चंडार्चिषा समम् ॥

तच्छस्त्रं च तथान्यानि देवीदत्तानि शंकरः ॥

शनैःशनैः प्रजग्राह स्ववक्त्रेण महेश्वरः

॥७०॥

अस्त्राभावात्ततस्तूर्णं ध्रियमाणेऽपि कांतया ॥

द्वंद्वयुद्धेन तं व्याघ्रं योधयामास भूपतिः

॥७१॥

ततस्तस्यांगसंस्पर्शान्मुक्त्वा व्याघ्रतनुं च ताम् ॥

दधार भस्मसंदिग्धां तनुं चन्द्रविभूषिताम्

॥७२॥

रुंडमालावरां दिव्यां सखट्वांगां सपन्नगाम् ॥

तां दृष्ट्वा स महीपालः सभार्यः प्रणतस्ततः

॥७३॥

प्रोवाचाथ स्तुतिं कृत्वा विनयावनतः स्थितः ॥

आनंदाश्रुपरिक्लिन्नो हर्षगद्गदया गिरा

॥७४॥

राजोवाच

अज्ञानाद्यन्मया देव प्रहारास्तव निर्मिताः ॥

तिरस्कारस्तथा दत्तस्तत्सर्वं क्षम्यतां विभो

॥७५॥

श्रीभगवानुवाच

क्षांत एष मया पुत्र तव सर्वः पराभवः ॥

परितुष्टेन ते कर्म दृष्ट्वा चैवातिमानुषम्

॥७६॥

यथा कृतं त्वया राज्यं प्रजाः संरक्षिता नृप ॥

तथान्यो भूपतिः कश्चिन्न कर्ता न करिष्यति

॥७७॥

तस्माद्गच्छ मया सार्धं पाताले पार्थिवोत्तम ॥

अनेनैव शरीरेण धर्मपत्न्यानया सह

॥७८॥

नातः परं त्वया स्थेयं मर्त्यलोके कथंचन ॥

विरुद्धं सर्वदेवानां यतः कर्म त्वदुद्भवम्

॥७९॥

राजोवाच

एवं देव करिष्यामि गत्वाऽयोध्यां महापुरीम् ॥

पुत्रं राज्ये प्रतिष्ठाप्य मंत्रिणां संनिवेद्य च

॥८०॥

तथाहं देव देव्या च प्रोक्तः संतुष्टया पुरा ॥

मन्त्रग्रामो यया दत्तः शस्त्राणि विविधानि च

॥८१॥

यदा त्वं त्यजसि प्राज्ञ मर्त्यलोकं सुदुस्त्यजम् ॥

तदात्र मामके कुण्डे प्रक्षेप्तव्यानि कृत्स्नशः

॥८२॥

तानि चार्पय मे भूयो येनानृण्यं व्रजाम्यहम् ॥

तस्या देव्याः सुराधीश त्वत्प्रसादेन सांप्रतम्

॥८३॥

एवमुक्तस्ततस्तेन भगवांस्त्रिपुरांतकः ॥

आज्ञाप्य तानि सर्वाणि ददौ तत्र द्रुतं गतः

॥८४॥

अब्रवीच्च सुतस्तत्र स्वयं राजा भविष्यति ॥

वीर्यौदार्यसमोपेतो वंशस्योद्धरणक्षमः

॥८५॥

त्वं चागच्छ मया सार्धमद्यैव मम मंदिरे ॥

प्रविश्यात्र जले पुण्ये देवीकुण्डसमुद्भवे

॥८६॥

अद्य माघचतुर्दश्यां शुक्लायामपरोऽपि यः ॥

देवीमिमां च संपूज्य जलेऽस्मिन्भक्तिसंयुतः

॥८७॥

करिष्यति प्रवेशेन प्राणत्यागं नृपोत्तम ॥

स च यास्यति यत्रास्ते पाताले हाटकेश्वरः

॥८८॥

स्नानं वा पार्थिवश्रेष्ठ यः करिष्यति मानवः ॥

अष्टोत्तरशतं तस्य व्याधीनां न भविष्यति

॥८९॥

एवमुक्त्वा तमादाय नृपं भार्यासमन्वितम् ॥

अजाभिस्ताभिरस्त्रैश्च तैश्चापि परमेश्वरः ॥

प्रविवेश जले तस्मिन्देवीकुण्डसमुद्भवे

॥९०॥

ततश्च मंदिरं नीतः स्वकीयं द्विजसत्तमाः ॥

तेनैव नरदेहेन स कलत्रसमन्वितः ॥

९१ अद्यापि तिष्ठते तत्र जरामरणवर्जितः ॥

पूजयानश्च तं देवं पाताले हाटकेश्वरम्

॥९२॥

एवं तत्र समुद्भूता सा देवी परमेश्वरी ॥

स्थापिता तेन भूपेन श्रद्धापूतेन चेतसा

॥९३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्येऽजापालेश्वरीमाहात्म्यवर्णनंनाम पञ्चनवतितमोऽध्यायः ॥ ९५ ॥