कुहरवासिसांबादित्यप्रभाववर्णनम्
सूत उवाच
रत्नादित्यस्य माहात्म्यमेतद्वः परिकीर्तितम् ॥
सर्वकुष्ठहरं यच्च सर्वपातकनाशनम् ॥
भूयस्तथैव माहात्म्यं महद्वै श्रूयतां रवेः
॥१॥पुरासीद्ब्राह्मणः कश्चित्कुष्ठव्याधिसमाकुलः ।
१ तेन चाराधितः सूर्यस्तत्रस्थेन द्विजोत्तमाः
॥२॥पूर्वदक्षिणदिग्भागे समासाद्य ततः परम् ॥
रक्त चन्दनजां कृत्वा प्रतिमां भावितात्मना
॥३॥ततो वर्षसहस्रांते तुष्टस्तस्य दिवाकरः ॥
वरदोऽस्मीति तं प्राह दृष्टिगोचरमागतः
॥४॥ब्राह्मण उवाच
यदि तुष्टोऽसि मे देव कुष्ठव्याधिं हर प्रभो ॥
नान्येन कारणं मेऽस्ति राज्येनापि त्रिविष्टपे
॥५॥श्रीभगवानुवाच
सप्तम्यां सूर्यवारेण कुरु विप्र प्रदक्षिणाम् ॥
शतमष्टोत्तरं यावत्स्नात्वा पुण्यह्रदे शुभे ॥
फलहस्तः पृथक्त्वेन ततः कुष्ठेन मुच्यसे
॥६॥अन्योऽत्र गां गतो योऽपि व्रतमेतत्करिष्यति ॥
सर्वरोगविनिर्मुक्तो मम लोकं स गच्छति
॥७॥श्रीसूर्य उवाच
तच्छ्रुत्वा स तथा चक्रे ब्राह्मणः श्रद्धयाऽन्वितः ॥
विमुक्तश्च तदा कुष्ठाद्दिव्यदेहमवाप्तवान्
॥८॥अथ भूयोऽपि तं प्राह नीरोगं भगवान्रविः ॥
किं ते प्रियं करोम्यन्यद्वद ब्राह्मणसत्तम
॥९॥सोऽब्रवीत्सर्वदैवात्र स्थातव्यं भगवन्विभो
॥१०॥श्रीभगवानुवाच
अतः परं ममावासः स्थानेऽत्र च भविष्यति ॥
नाम्ना कुहरवासाख्या संज्ञा मम भविष्यति
॥११॥कस्यचित्त्वथ कालस्य विष्णुपुत्रो बभूव ह ॥
सांबोनाम सुरूपाढ्यो जांबवत्यां द्विजोत्तमाः
॥१२॥क्षोभसंजननः स्त्रीणां मातॄणामपि स द्विजाः ।
१ अथ तं राजमार्गेण गच्छंतं यदुसत्तमम्
॥१३॥पुरनार्योऽपि संतुष्टा वीक्षांचक्रुः सुकौतुकात् ॥
गृहकार्याणि संत्यज्य समारूढा गवाक्षकान्
॥१४॥तस्य कामात्मदेहस्य दर्शनार्थं समुत्सुकाः ॥
काश्चिदर्धानुलिप्तांग्यः काश्चिदेकांजितेक्षणाः ॥
१५ अर्धसंयमितैः केशैस्तथान्यास्त्यक्तबालकाः ॥
एकस्मिंश्चरणे काश्चिन्नियोज्योपानहं द्रुताः
॥१६॥पादुकां च द्वितीये तु पर्यधावन्नितंबिनीः ॥
व्रजंतीषु तथान्यासु वनितासु गवाक्षकान्
॥१७॥व्याक्रोशंति क्रुधाविष्टाः शिशवो गुरवस्तथा ॥
नीवीबन्धनविश्लेषसमाकुलितचेतसः
॥१८॥ययुरेवापराः स्वेषु गवाक्षेषु वरांगनाः ॥
स चकर्ष तदा तासां पतितैर्नेत्ररश्मिभिः
॥१९॥हृदयानि धरापृष्ठे कामदेवसमो युवा ॥
काचिद्दृष्ट्वैव तद्रूपं तस्य सांबस्य कामिनी
॥२०॥निश्चला कामतप्तांगी लिखितेव विभाब्यते ॥
काचिदग्निसमान्मुक्त्वा निश्वासान्कामपीडिता
॥२१॥एकास्तं च समालोक्य रूपयौवनसंयुतम् ॥
गवाक्षात्प्रपतंति स्म निश्चेष्टा धरणीतले
॥२२॥अन्याः परस्परालाप प्रकुर्वंति वरस्त्रियः ॥
एका सा कामिनी धन्या यास्य चक्रेवगूहनम् ॥
२३ निःशेषां रजनीं प्राप्य माघमाससमुद्भवाम् ॥
आस्तां तावत्स्त्रियो याश्च नरा अपि निरर्गलम्
॥२४॥जल्पंति चेदृशं सर्वं तस्य रूपेण विस्मिताः ॥
अत्रये वदन्ति सेवाम एनमर्थेन वर्जिताः
॥२५॥वीक्ष्यामो वदनं येन नित्यमेवेंदुसंनिभम् ॥
कर्णाभ्यां वारिता वृद्धिर्नेत्रयोरप्यसंशयम् ॥
नो चेज्जानीमहे नैव कियती सं भविष्यति
॥२६॥एवं संवीक्ष्यमाणस्तु कामिनीभिर्नरैस्तथा ॥
निर्ययौ राजमार्गेण पितृदर्शनलालसः
॥२७॥भगिन्यो मातरो याश्च भ्रातृपत्न्यश्च याः स्थिताः ॥
अवस्थामीदृशीं प्राप्ता ब्राह्मणानामपि स्त्रियः ॥
मातरोऽपि च यास्तस्य भगिन्यश्च विशेषतः
॥२८॥अन्यस्मिन्नहनि प्राप्ते प्रावृट्काले निशागमे ॥
कृष्णपक्षे तमोभूते अलक्ष्येऽपि गते पुरः
॥२९॥तन्माता नन्दिनीनाम कामदेवशरार्दिता ॥
तत्पत्न्या वेषमाधाय तच्छय्यायामुपस्थिता
॥३०॥सोऽपि तां दयितां ज्ञात्वा सेवयामास कामिनीम् ॥
रतोपचारैर्विविधैरश्रद्धेयविनिर्मितैः
॥३१॥तया तत्र यदुश्रेष्ठो विकल्पमकरोत्तदा ॥
अंगराजसुता या मे प्राणेभ्योऽपि गरीयसी
॥३२॥नैवंविधं रतं वेद अनया यद्विनिर्मितम् ॥
वेश्या अपि न जानंति रतमीदृक्कथञ्चन
॥३३॥ततो गाढं करे धृत्वा दीपमानीय तत्क्षणात् ॥
यावत्पश्यति सा माता नन्दिनीति च या स्मृता
॥३४॥ततश्च गर्हयामास रपे किमिदं कृतम् ॥
गर्हितं सर्वलोकानां नर कार्तिप्रदं तथा
॥३५॥सापि लज्जासमोपेता महाभयसमाकुला ॥
प्रणष्टा तत्क्षणादेव भयेन महताऽन्विना
॥३६॥सांबोऽपि प्रलपन्नार्तो निद्रां लेभे न वै द्विजाः ॥
रात्रिशेषमभूत्तस्य तदा वर्षशतोपमम्
॥३७॥अथ रात्र्यां व्यतीतायां प्रोद्गते रविमण्डले ॥
दुःखेन महता युक्तः प्रोत्थितः स हरेः सुतः
॥३८॥आवश्यकमपि त्यक्त्वा कंचिद्ब्राह्मणसत्तमम् ॥
धर्मशास्त्रविधानज्ञं समानीयाथ चाब्रवीत्
॥३९॥रहस्ये विनयोपेतः कृतांजलिपुटः स्थितः ॥
सांब उवाच ॥
मात्रा स्वस्रा दुहित्रा वा स्वयं स्याद्यदि मोहनम्
॥४०॥कथं शुद्धिर्भवेत्तस्य परमार्थेन मे वद ॥
धर्मशास्त्राणि संवीक्ष्य सर्वाणि च यथाक्रमम्
॥४१॥ब्राह्मण उवाच
परनार्याः कृते वत्स प्रायश्चित्तं विनिर्मितम् ॥
धर्म द्रोणेषु सर्वेषु वर्णानां च पृथग्विधम्
॥४२॥आसां च तिसृणां चैव त्रयाणां परिकीर्तितम् ॥
एवमेवं विनिर्दिष्टं प्रायश्चित्तं विशुदये
॥४३॥मात्रा मोहनमासाद्य भगिन्या वाथ यादव ॥
दुहित्रा वा प्रमादाच्च कार्यं संशोधनं बुधैः ॥
शुद्ध्यर्थं तिंगिनीमेकां नान्यज्जानाम्यहं यतः
॥४४॥धर्मद्रोणेषु सर्वेषु निर्णयोऽयमुदाहृतः ॥
यो मया तव संदिष्टो नान्योस्ति यदुपुंगव
॥४५॥अन्यथा यो वदेत्पृष्टः प्रायाश्चित्तं स्वच्छन्द तः ॥
तस्य पापस्य भागी स्याद्यथा कर्ता तथैव सः
॥४६॥सांब उवाच
तिंगिन्याः किं स्वरूपं च किं प्रमाणं द्विजोत्तम ॥
सर्वं विस्तरतो ब्रूहि ममास्त्यत्र प्रयोजनम्
॥४७॥ब्राह्मण उवाच
गोवाटचूर्णमादाय गर्तां भृत्वा स्वमानजाम् ॥
शयनं तत्र कर्तव्यं यावद्वक्त्रेण यादव
॥४८॥उपरिष्टात्तच्च चूर्णं धार्यं गोवाटसंभवम् ॥
यावद्वक्त्रप्रमाणं च वर्जयित्वा स्वमाननम्
॥४९॥ततः पादप्रदेशे तु ज्वालयेद्धव्यवाहनम् ॥
यथा शनैः शनैर्दाहः शरीरस्य प्रजायते
॥५०॥न चैव चालयेदंगं कथंचित्तत्र संस्थितः ॥
नैवाक्रंदं तथा कुर्याद्ध्यायेदेकं जनार्दनम्
॥५१॥ततो जीवितनाशेन गात्रशुद्धिः प्रजायते
॥५२॥तिंगिन्या यत्स्वरूपं च तन्मया परिकीर्तितम् ॥
प्रायश्चित्तमिदं सम्यङ्महापातकनाशनम्
॥५३॥तच्छ्रुत्वा वचनं तस्य सांबो जांबवतीसुतः ॥
हृदये निश्चयं कृत्वा तिंगिनीसाधकोद्भवम्
॥५४॥ततः प्रोवाच विजने वासुदेवं घृणान्वितः ॥
ताताहं विप्रलब्धस्तु नंदिन्या तव भार्यया
॥५५॥भार्याया रूपमाधाय पापया तमसि स्थिते ॥
सा मया निजभार्येयमिति मत्वा निषेविता
॥५६॥ततस्तु चेष्टितैर्ज्ञात्वा गर्हयित्वा विसर्जिता ॥
ततःप्रभृति गात्रे मे कुष्ठव्याधिरयं स्थितः
॥५७॥मयाथ धर्मशास्त्रज्ञः कश्चित्पृष्टो द्विजोत्तमः ॥
प्रायश्चित्तं यथोक्तं मे वद मातृनिषेवणात्
॥५८॥तेनोक्तं साधनं सम्यक्तिंगिन्या मम शुद्धये ॥
सोऽहं तां साधयिष्यामि तस्य पापस्य शुद्धये
॥५९॥अनुज्ञां देहि मे शीघ्रं कार्यं येन करोम्यहम् ॥
क्षंतव्यं च मया बाल्ये यत्किंचित्कुकृतं कृतम्
॥६०॥मम माता यथा दुःखं न कुर्यात्त्वं तथा कुरु
॥६१॥तच्छ्रुत्वा वचनं तस्य वज्रपातोपमं हरिः ॥
बाष्पपूर्णेक्षणो दीनस्ततः प्रोवाच गद्गदम्
॥६२॥न त्वया कामतः पुत्र कृत्यमेतदनुष्ठितम् ॥
न ज्ञानेन कृतं यस्मात्तत्स्मात्स्वल्पं हि पातकम्
॥६३॥जानता यत्कृतं पापं तच्चैवाक्षयतां व्रजेत् ॥
न करोति महीपालो यदि तस्य विनिग्रहम्
॥६४॥तस्मात्ते कीर्तयिष्यामि प्रायश्चित्तं विशुद्धये ॥
दानं चैव महाभाग येन कुष्ठं प्रणश्यति
॥६५॥उक्तानि प्रतिषिद्धानि पुनः संभावितानि च ॥
सापेक्षनिरपेक्षाणि मुनिवाक्यान्यशेषतः
॥६६॥तदत्र विषये पुत्र मम वाक्यं समाचर ॥
भविष्यति महच्छ्रेय इह लोके परत्र च
॥६७॥हाटकेश्वरजे क्षेत्रे विश्वामित्रप्रतिष्ठितः ॥
मार्तण्डोऽस्ति सुविख्यातः सर्वकुष्ठविनाशकः
॥६८॥सूर्यवारेण सप्तम्यां संप्राप्ते मासि माधवे ॥
नक्षत्रे पितृदैवत्ये शुक्लपक्षे समागते
॥६९॥भास्करस्योदये प्राप्ते श्रद्धापूतेन चेतसा ॥
शतमष्टोत्तरं यावत्कुरुते च प्रदक्षिणाम्
॥७०॥फलैः श्रेष्ठतमैश्चैव तत्प्रमाणैः पृथक्पृथक् ॥
तस्य कुष्ठं विनिर्याति सद्य एव न संशयः
॥७१॥नीरोगः कुरुते यस्तु रवेस्तस्य प्रदक्षिणाः ॥
तावद्युगं पुमानेष सूर्यलोके महीयते
॥७२॥सूर्यवारेण यो मर्त्यस्तस्य कृत्वा ण्दक्षिणाम् ॥
नमस्करोति सद्भक्त्या सोऽपि रोगैः प्रमुच्यते
॥७३॥तस्मात्त्वं हि महाराज तमाराधय भास्करम् ॥
देवं वै विधिनानेन यो मयोक्तोऽखिलस्तव
॥७४॥अविकल्पेन मनसा समाराधय सत्वरम् ॥
मुक्तरोगे विपाप्माथ दिब्यदेहमवाप्स्यसि
॥७५॥मा कुरुष्व विषादं त्वं कुष्ठव्याधिसमुद्रवम् ॥
तस्मिन्क्षेत्रे स्थिते देवे कुहराश्रयसंज्ञिते
॥७६॥अथ तद्वचनं श्रुत्वा प्रस्थितो विष्णुनन्दनः
॥७७॥सूत उवाच
एतच्छ्रुत्वा वचस्तस्य देवदेवस्य चक्रिणः ॥
चकार गमने बुद्धियोगं सांबोऽर्बुदं प्रति
॥७८॥ततः शुभेऽहनि प्राप्ते हस्त्यश्वरथसंयुतः ॥
प्रतस्थे स सुतो विष्णोः सेनया परिवारितः
॥७९॥अनुयातः सुदूरं च कृष्णेनाक्लिष्टकर्मणा ॥
बाष्पपूर्णे क्षणेनैव सर्वमातृजनेन च
॥८०॥बलभद्रेण वीरेण चारुदेष्णेन धीमता ॥
युयुधानानिरुद्धाभ्यां प्रद्युम्नेन च धीमता
॥८१॥ततो जांबवती पुत्रं दृष्ट्वा तीर्थोन्मुखं तदा ॥
गच्छमानं प्रचक्रेऽथ प्रलापान्कुररी यथा
॥८२॥हा हतास्मि विनष्टास्मि मंदभाग्या ह्यभागिनी ॥
एकोपि तनयो यस्या ममाप्येनां दशां गतः
॥८३॥अथ तां रुदतीं दृष्ट्वा प्रोवाच मधुसूदनः ॥
किममंगलमेतस्य प्रस्थितस्य करिष्यसि
॥८४॥बाष्पपूर्णेक्षणा दीना मुक्तकेशी विशेषतः ॥
एष व्याधिविनिर्मुक्तस्तीर्थयात्राफलान्वितः ॥
कुष्ठव्याधिपरित्यक्तः पुनरेष्यति तेंऽतिकम्
॥८५॥एतस्मिन्नंतरे यानादवतीर्य त्वरान्वितः ॥
सांबोऽसौ प्रस्थितस्तत्र यत्र जांबवती स्थिता
॥८६॥स तां प्रणम्य हृष्टात्मा कृतांजलिपुटः स्थितः ॥
प्रणिपत्य विहस्यो च्चैर्वाक्यमेतदुवाच ह
॥८७॥मा त्वं मातर्वृथा दुःखमस्मदर्थे करिष्यसि ॥
आगमिष्याम्यहं शीघ्रं तीर्थयात्रां विधाय वै
॥८८॥जांबवत्युवाच
रक्षतु त्वां वने वत्स सर्वास्ता वनदेवताः ॥
श्वापदेभ्यः पिशाचेभ्यो दुष्टेभ्यः पुत्र सर्वतः
॥८९॥शिरस्ते पातु गोविंदः कण्ठं च मधुसूदनः ॥
बाहुदेशं हृषीकेशो हृदयं दैत्यनाशनः
॥९०॥जठरं पुंडरीकाक्षः कटिं पातु गदाधरः ॥
जानुनोर्युगलं कृष्णः पादौ च धरणीधरः
॥९१॥एवं संस्पृश्य हस्तेन निजेनांगानि तस्य सा ॥
समालिंग्य समाघ्राय मूर्धदेशे मुहुर्मुहुः
॥९२॥प्रेषयामास तं पुत्रं कृतरक्षं यशस्विनी ॥
सा सर्वांतःपुरीयुक्ता निवृता तदनन्तरम्
॥९३॥अश्रुपूर्णेक्षणा दीना निःश्वसन्ती यथोरगी ॥
तथा च भगवान्विष्णुर्यादवैः सकलैः सह
॥९४॥प्रविष्टो द्वारकापुर्या सांबं प्रोष्य ततः परम् ॥
अश्रुपूर्णेक्षणो दीनो बलभद्रपुरःसरः
॥९५॥पुत्रैः पौत्रैस्तथा मित्रैर्बांधवैरपरैरपि ॥
द्वारकाया विनिष्क्रम्य सांबोऽपि द्विजसत्तमाः
॥९६॥संप्राप्तश्च क्रमेणाथ सिंधुसागरसंगमे ॥
यत्र योगीश्वरः साक्षादंबरीषप्रतिष्ठितः
॥९७॥अद्यापि तिष्ठते विष्णुर्जंतूनां पापनाशनः ॥
तत्र स्नात्वा समभ्यर्च्य देवं योगीश्वरं ततः
॥९८॥ददौ दानानि विप्रेभ्यो नानारूपाणि शक्तितः ॥
दीनांधकृपणेभ्यश्च तथैवान्येभ्य एव च
॥९९॥यानानि वस्त्ररत्नानि यद्यच्च येन वांछितम् ॥
स त्रिरात्रं हरेः पुत्रः स्थित्वा तत्र समाहितः
॥१००॥च्यवनस्याश्रमं पुण्यं जगामाथ ततः परम् ॥
यत्र संतिष्ठते विष्णुश्च्यवनेन प्रतिष्ठितः
॥१॥सिंधोस्तटे च पुण्ये च सर्वपातकनाशनः ॥
तत्रापि विप्रमुख्येभ्यो ददौ दानानि यादवः ॥
२ वांछितानि यथोक्तानि शास्त्रदृष्टेन कर्मणा ॥
तत्रापि संयतः सांब स स्थित्वा श्रद्धयान्वितः
॥३॥त्रिरात्रं प्रजगामाथ स्नात्वा सिंधूदके शुभे ॥
ततस्तु पुष्करादीनि समुद्दिश्य शनैः शनैः
॥४॥पुष्करावासिनं देवं ध्यायमानो ह्यहर्निशम् ॥
तस्तु पुष्करं प्राप्य क्रमेण यदुसत्तमः
॥५॥पुण्ये कुण्डजले स्नातः संतर्प्य पितृदेवताः ॥
सप्तम्यां सूर्यवारेण गृहीत्वाथ फलानि च ॥
गतः संतिष्ठते यत्र देवो वै विष्णु सूचितः
॥६॥पूजयित्वा ततो भक्त्या देवं कुहरवासिनम् ॥
वस्त्रानुलेपनैर्धूपैर्नैवेद्यैस्तु पृथग्विधैः
॥७॥ततः प्रदक्षिणाश्चक्रे फलहस्तः शनैःशनैः ॥
प्रपठन्सूर्यगायत्रीं श्रद्धया परया युतः
॥८॥यथायथा करोत्येष रवेस्तस्य प्रदक्षिणाम् ॥
तथातथा च संयाति तस्य कुष्ठं द्विजोत्तमाः
॥९॥तत्र क्षणेऽभवत्तस्य चित्ते सांबस्य धीमतः ॥
मुक्तोऽहं कुष्ठरोगेण निर्विकल्पं द्विजोत्तमाः
॥११०॥ततश्च सहितं तेन यत्किंचित्तत्र चागतम् ॥
हस्त्यश्वरथरत्नाढ्यं तत्सर्वं भक्तिपूर्वकम्
॥११॥नागराणां ददौ सर्वं तथान्यद्ग्रामपंचकम् ॥
सांबाऽऽदित्यं प्रतिष्ठाप्य ततः संप्रस्थितो गृहम्
॥१२॥किंचिदुर्वरितं यच्च तत्सर्वं भक्तिसंयुतम् ॥
प्रददौ सूर्यविप्रेभ्यः पूजयित्वा दिवाकरम्
॥१३॥अष्टौ वाजिसहस्राणि नागानां च शतत्रयम् ॥
रथानां षट्शतान्येव अश्वैर्युक्तानि वाजिभिः ॥
अनंतानि च रत्नानि दत्त्वा सांबो गृहं गतः ॥
१४ य एतत्पठते भक्त्या सांबाख्यानमनुत्तमम् ॥
शृणोति वाऽन्वये तस्य न कुष्ठं संप्रजायते
॥१५॥सूत उवाच
एतद्वः सर्वमाख्यातं विश्वामित्रीयमुत्तमम् ॥
चतुर्थं च पुण्यतीर्थं स्त्रीणां चैव शुभावहम्
॥११६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विश्वामित्रीयमाहात्म्ये कुहरवासिसांबादित्यप्रभाववर्णनंनाम त्रयोदशोत्तरद्विशततमोऽध्यायः ॥ २१३ ॥